________________
अध्ययनं-८,[नि. २५९] यदुक्तं- 'शुद्धेपणास्वात्मानं स्थापयेदि ति, तद्विपर्यये बाधकमाहम.(२२१) जे लखणं च सुविनं च अंगविज्जं च जे पउंजंति।
नह ते समणा वच्चंति एवं आयरिएहिं अक्खायं। वृ. 'ये' इति प्राग्वत्, 'लक्षणं च' शुभाशुभसूचकं पुरुषलक्षणादि, रूढितः तत्प्रतिपादकं शास्त्रमपि लक्षणं, तद्यथा
"अस्थिष्वर्थाः सुखं मांसे, त्वचि भोगाः स्त्रियोऽक्षिषु ।
___गतौ यानं स्वरे चाज्ञा, सर्वं सत्त्वे प्रतिष्ठितम् ।।" 'स्वप्नं चे'त्यत्रापि रूढित: स्वप्नस्य शुभाशुभफलसूचकं शास्त्रमेव, तद्यथा
"अलंकृतानां द्रव्याणां, वाजिवारणयोस्तथा । वृषभस्य च शुक्लस्य, दर्शने प्राप्नुयाद्यशः ।।१।।
मूत्रं वा कुरुते स्वप्ने, पुरीषं चापि लोहितम् ।
प्रबुध्येत तदा कश्चिल्लभते सोऽर्थनाशनम् ।।२॥" 'अंगविज्जं च'त्ति अङ्गविद्यां च शिर:प्रभृत्यङ्गस्फुरणतः शुभाशुभसूचिकां 'सिरफुरणे किर रज्ज' इत्यादिकां विद्यां, प्रणवमायाबीजादिवर्णविन्यासात्मिकां वा, यद्वा-अङ्गानिअङ्गविद्याव्यावणितानि भौमान्तरिक्षादीनि विद्या 'हलि! २ मातङ्गिनी स्वाहा' इत्यादयो विद्यानुवादप्रसिद्धाः, ततश्चाङ्गानि च विद्याश्चाङ्गविद्याः, प्राग्वद् वचनव्यत्ययः, 'च:' सर्वत्र वाशब्दार्थः, ये प्रयुञ्जते, न तु समस्तान्येव, ते किमित्याह-'न हु' नैव 'ते' एवंविधाः श्रमणाः' साधवः 'उच्यन्ते' प्रतिपाद्यन्ते, इह च पुष्टालम्बनं विनैतद्यापारणत एवमुच्यते, अन्यथा करवीरलताभ्रामकतपस्विनोऽप्येवंविधत्वापत्तेः, एवमार्यै: आचार्यैर्वा 'आख्यातं' कथितम्, अनेन यथावस्थितवस्तुवादितयाऽऽत्मनि परापवाददोषं व्यपोहत इति । ते चैवंविधा यदवाप्नुवन्ति तदाहमू. ( २२२) इह जीवियं अनियमिता पब्भट्ठा समाहिजोगेहिं।
ते कामभोगरसगिद्धा उववज्जति आसुरे काए। वृ. 'इह' अस्मिन् जन्मनि जीवितं' असंयमजीवितम् 'अनियम्य' द्वादशविधतपोविधानादिनाऽनियन्त्र्य 'प्रभ्रष्टाः' च्युताः, केभ्यः?-'समाहियोगेहि ति समाधिः-चित्तस्वास्थ्यं तत्प्रधाना योगाः-शुभमनोवाक्कायव्यापाराः समाधियोगा, यद्वा समाधिश्च-शुभचित्तैकाग्रता योगाश्चपृथगेव प्रत्युपेक्षणादयो व्यापाराः समाधियोगा: तेभ्यः, अनियन्त्रितात्मनां हि पदे पदे तभ्रंशसम्भव इति, 'ते' अनन्तरमुक्ताः कामभोगेषु अभिहितस्वरूपेषु रसः-अत्यन्तासक्तिरूपस्तेन गृद्धा:-तेष्वभिकाङ्क्षावन्तः कामभोगारसगृद्धाः, यद्वा रसाः-पृथगेव शृङ्गारादयो वा, भोगान्तर्गतत्वेऽपि चेषां पृथगुपादानमतिगृद्धिविषयताख्यापनार्थम् 'उपपद्यन्ते' जायन्ते 'आसुरे' असुरसम्बन्धिनि काये, असुरनिकाये इत्यर्थः, इदमुक्तं भवति-एवंविधाः किञ्चित् कादाचित्कमनुष्ठानमनुतिष्ठन्तोऽप्यसुरेष्वेवोत्पद्यन्ते इति सूत्रार्थः । ततोऽपिच्युतास्ते किमाप्नुन्तीत्याहमू. ( २२३) तत्तोऽविय उवट्टित्ता संसारं बहुं परियडंति ।
बहुकम्मलेवलित्ताणं बोही होइ सुदुल्लहा तेसिं॥ वृ. 'ततोऽपि च' असुरनिकायाद् 'उद्धृत्य' तत्परित्यागेनान्यत्र गत्वा 'संसार' चतुर्गतिरूपं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org