________________
अध्ययनं - -८, [ नि. २५९ ]
२४३
(ङ्), ततो मुक्तिसम्भावनाऽपि नास्तीत्युक्तं भवति, 'कदाचित्' कस्मिंश्चिदपि काले, कैर्मुच्येत ? इत्याह- 'सव्वदुक्खाणं' ति दुःखयन्तीति दुःखानि कर्माणि सर्वाणि च तानि दुःखानि च सर्वदुःखानि तै:, सुब्व्यत्ययाच्च तृतीयार्थे पष्ठी, यद्वा सर्वदुःखैः - नरकादिगतिभाविभिः शारीरमानसैः क्लेशैः, ततः प्राणातिपातनिवृत्ता एव श्रमणास्त एव चातरं तरन्ति न त्वितर इत्युक्तं भवति, किमेतत् त्वयैवोच्यते ? इत्याह- 'एवारिएहिं 'ति 'एवम्' उक्तप्रकारेणाऽऽर्यैः -सकलहेयधर्मेभ्यो दूरं यातैस्तीर्थंकरादिभिराचार्यैर्वा आख्यातं कथितं, ये कीदृश इत्याह- 'यै: ' आयेंराचार्यैर्वाऽयं 'साधुधम्म' हिंसानिवृत्त्यादिः 'प्रज्ञप्तः ' प्ररूपित्तः, अयमित्यनेन चात्मनि वर्तमानं तेषां प्रज्ञाप्यचौराणां प्रत्यक्षं साधुधर्म निर्दिशतीति सूत्रार्थः ॥ यद्येवं ततः किं कृत्यम् ? इत्याहमू. ( २१७ ) पाणे य नाइवाइज्जा से समियत्ति बुच्चइ ताई । तओ से पावयं कम्मं निज्जाइ उदगं व थलाओ ॥
-
7
वृ. 'पाणे य नातिवाएज्ज'त्ति चशब्दो व्यवहितसम्बन्धः, ततश्च प्राणान्-इन्द्रियपञ्चकादीन् नातिपातयेत्, यस्त्विति गम्यते, चशब्दात् कारणानुमत्योरपि निषेधः, मृषावादादिनिवृत्त्युपलक्षणं चैतत् किमिति प्राणान्नातिपातयेदित्याह - ' से 'त्ति यः प्राणान्नातिपातयिता स 'समित: ' समितिमान् इति 'उच्यते' अभिधीयते कीदृशः सन् ? इत्याह- 'त्रायी' इत्यवश्यं प्राणित्राता, समितत्वेऽपि को गुणा: ?, उच्यते- 'ततः' इति तस्मात् समितात् 'से' इत्यथ 'पापकम्' अशुभं 'कर्म्म' ज्ञानावरणादि 'निर्याति' निर्गच्छन्ति, पठन्ति च - 'निन्नाई 'त्ति अत्र देशीपदत्दधोगच्छति, किमिव ? - उदकमिव, कुत: ? - 'स्थूलाद्' अत्युन्नप्रदेशात्, अनेन च पूर्वबद्धस्य कर्म्मणोऽभाव उक्तः, न लिप्यते त्रायीति च बद्धमानस्येति न पौनरुक्त्यं, पापग्रहणं चास्यावश्यंतयाऽभावख्यापक, पुण्यस्य हि संहननादिदोषान्मुक्त्यनवाप्तेर्देवाद्युत्पत्तौ सम्भवोऽपि स्यात्, अन्यथा हि पुण्यस्यापि स्वर्णनिगडप्रायतया विनिर्गम एव विनिर्मुक्तिरिति सूत्रार्थः ॥ यदुक्तं - 'प्राणान्नातिपातयेदि 'ति तदेव स्पष्टयितुमाह
मू. (२१८)
जगनिस्सएहिं भूएहिं तसनामेहिं थावरेहिं च । नो तेसिमारभे दंड मणसावयसाकायसा चेव ॥
वृत्रसनामकर्म्मोदयवत्सु द्वीन्द्रियादिषु 'स्थावरेषु' तत्रामकम्र्म्मोदयवर्त्तिषु पृथिव्यादिषु, चः समुच्चये, 'नो' नैव 'तेसिं' ति तेषु रक्षणीयत्वेन प्रतीतेषु 'आरभेत' कुर्यात् दण्डनं दण्डः स चेहातिपातात्मकस्तं, ‘मनसावयसाकायसा चेव' त्ति आर्षत्वात् मनसा वचसा कायेन, चशब्दः शेपभङ्गोपलक्षक:, ततश्च यथा मनसा वचसा कायेन च दण्डं नारभते तथा नाऽऽरम्भयेत् न चारभमाणानप्यन्याननुमन्येत, 'एवः' अवधारणे भिन्नक्रमश्च, अत एव नो इत्यस्यानन्तरं योजितः, पठ्यते च-'जगनिस्सियाण भूयाणं, तसाणं थावराण य । नो तेसिमारभे दंडं' ति गतार्थमेव, अपरे तु 'जगनिस्सिएही'त्यादि तृतीयान्ततयैवाधीयते, तत्र च जगत्रिश्रितै भूर्ते स्त्रसैः स्थावरैश्च हन्यमानोऽपीति शेषः, नैव तेष्वारभेत दण्डम्, उज्जयनी श्रावकपुत्रवत्, अत्र च सम्प्रदायः-उज्जेनीए सावगसुतो चोरेहिं हरिडं मालवके सूयगारस्स हत्थे विक्कीतो, लावगे मारयसु, न मारयामीति हत्थीपादत्तासणसीसारक्खणं करणं चेति । स एवं प्राणत्यागेऽपि सत्त्वानपरोधी, एवमन्यैरपि यतितव्यमिति सूत्रार्थः । उक्ता मूलगुणाः, सम्प्रत्त्युत्तरगुणा वाच्याः, , तेष्वप्येषणा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org