________________
२४२
उत्तराध्ययन-मूलसूत्रम्-१-८/२१४ 'सन्ति' विद्यन्ते शोभनानि सम्यग्ज्ञानाधिष्ठितत्वेन व्रतानि- हिंसाविरमणादीनि येषां ते सुव्रताः, शान्त्या वोपलक्षिताः सुव्रताः शान्तिसुव्रताः, इह च सन्तोति शेषः, साधयन्ति पौरुषेयीभिः क्रियाभिर्मक्तिमिति साधवः, ये किमित्याह-ये 'तरन्ति' परपारावाप्त्याऽतिक्रमान्ति, कम ?'अतरं' तरीतमशक्यं विषयगणं भवं वा, क इव?-वणिज इव, वाशब्दस्येहेवार्थत्वात, यथा हि वणिजोऽतरं नीरधि यानप्रात्रादिनोपायेन तरन्ति एवमेतेऽपि धीरा व्रतादिनोक्तरूपमतरम्, अधीरैरेवोक्तनीतितोऽस्य दुस्तरत्वात्, पठन्ति च-'जे तरंति वणिया व समुद्द'मिति, स्पष्टम्,
"विषयगण: कापुरुषं करोति वशवर्त्तिनं न सत्यपुरुष ।
___बन्धाति मशकमेव हि लूतातन्तुर्न मातङ्गम्॥" इति सूत्रार्थः ।। किं सर्वेऽपि साधवोऽतरं तरन्ति उत नेत्याहमू. ( २१५) समणा मु एगे वदमाणा पाणवह मिया अजाणता।
मंदा निरयं गच्छंति बाला पावियाहि दिट्ठीहि। वृ. श्राम्यन्ति-मुक्त्यर्थं खिद्यन्त इति श्रमणाः-साधवः 'मु' इत्यात्मनिर्देशार्थत्वाद्वयमिति 'एके' केचन तीर्थान्तरीया: 'वदमानाः' स्वाभिप्रायमुद्दीपयन्तो भासनोपसम्भाषाज्ञानयत्रविमत्युपनिमन्त्रणेषु यदः' इत्यनेन भासने आत्मनेपदं, प्राणा-उक्तरूपास्तेषां वधो-धातस्तमजानन्त इति सम्बन्धः, मृगा इव मृगाः प्राग्वत् अजानन्त इति ज्ञपरिजया के प्राणिनः ? के च तेषां प्राणाः? कथं वा वधः? इत्यनवबुध्यमानाः प्रत्याख्यानपरिज्ञया च तद्वधमप्रत्याचक्षाणाः, अनेन च प्रथमव्रतमपि न विदन्ति आस्तां शेषाणीत्युक्तं भवति, अत एव मन्दा इव मन्दा मिथ्यात्वमहारोगग्रस्ततया 'निरयं' पाठान्तरतो 'नरकं वा' प्रतीतं गच्छन्ति-यान्ति, बाला इव बाला-हेयोपादेयविवेकविकलत्वात् 'पावियाहिं'ति प्रापयन्ति नरकमिति प्रापिकास्ताभिः, यद्वा-पापा एव पापिकास्ताभिः, परस्परविरोधादिदोषात् स्वरूपेणैव कुत्सिताभिः, न हिंस्यात् सर्वभूतानी' त्याद्यभिधाय श्वेतं छागमालभेत वायव्यां दिशि भूतिकाम' इत्यादिपरस्परविरुद्धार्थाभिधायिनीभिः, पापहेतुभिर्वा पापिकाभिर्दष्टिभिः-दर्शनाभिप्रायरूपाभिः 'ब्रह्मणे ब्राह्मणमालभेत, इन्द्राय क्षत्रियं, मरुद्भयो वैश्य, तपसे शूद्रं, तथा च
'यस्य बुद्धिर्न लिप्येत, हत्वा सर्वमिदं जगत् ।
आकाशमिव पङ्केन, न स पापेन लिप्यते ॥' इत्यादिकाभिर्दयादमबहिष्कृताभिः, तद्बहिष्कृतानां हि विविधवल्कलवेषादिधारिणामपि न केनचित्पापात् परित्राणं, तथा च वाचक:
"चर्मवल्कलचीराणि, कूर्चमुण्डजटाशिखाः ।
न व्यपोहन्ति पापानि, शोधकौ तु दयादमौ ।।' इति सूत्रार्थः ।। अत एवाह सूत्रकृत्मू. ( २१६) नहु पाणवहं अनुजाणे मुच्चेज्ज कयाइ सव्वदुक्खाणं।
एवमारिएहिमक्खायं जेहिं इमो साहुधम्मो पन्नत्तो।। वृ. 'न हु' नैव 'प्राणवधं' प्राणघातं, मृषाधुपलक्षणं चैतत्, 'अनुजाणे'त्ति अपिशब्दस्य लुप्तनिर्दिष्टत्वात् अनुजाननपि, आस्तां कुर्वन् कारयन् वा, 'मुच्येत'त्यज्येत, सम्भावने लिट्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org