________________
२४१
अध्ययनं-८,[ नि. २५९] विपाककटुकात्मकं तद्विषयं दोषमिति गम्यते, न लिप्यते' कर्मणा नोपदिह्यते, कामदोषज्ञस्य तेषु प्राय: प्रवृत्तेरभावादिति भावः, तायते त्रायते वा रक्षति दुर्गतरात्मानम् एकेन्द्रियादिप्राणिनो वाऽवश्यमिति तायी वायी वेति सूत्रार्थः ।। इत्थं ग्रन्थत्यागिनो गुणमभिधाय व्यतिरेके दोपमाहमू. ( २१३) भोगामिसदोसविसन्ने हियनिस्सेयसबुद्धिवोच्चत्थे।
बाले य मंदिए मूढे बज्झइ मच्छिया व खेलमि ।। वृ.भुज्यन्त इति भोगा:-मनोज्ञाः शब्दादय: तेच ते आमिषं चात्यन्तगृद्धिहेतुतया भोगामिषं तदेवदूषयत्यात्मानं दुःखलक्षणविकारकरणेन भोगामिषदोषस्तस्मिन् विशेषेण सन्नो-निमग्नो भोगामिषदोषविपण्णः, यहा- भोगामिषस्य दोषा भोगामिघदोषाः ते च तदासक्तस्य विचित्रश्लेशा अपत्योत्पत्तौ च तत्पालनोपायपरतया व्याकुलत्वादयस्तैर्विषण्णो-विषादं गतो भोगामिषदोषविषण्णः, आह च
"जया य कुक्कुटुंबस्सा, कुतत्तीहि विहम्मइ। हत्थीव बंधणे बद्धो, स पच्छा परितप्पइ ।।१।।
पुत्तदारपरिक्किन्नो, मोहसंताणसंततो।
पंकोसन्नो जहा नागो, स पच्छा परितप्पति ।।२॥" ति । 'हियनिस्सेसबुद्धिवोच्चत्थे'त्ति हित:-एकान्तपथ्यो निःश्रेयसो-मोक्ष: अनयो: कर्मधारये हितनि:श्रेयसः,-यद्वा हितो-यथाभिलाषितविषयावाप्त्याऽभ्युदयः निःश्रेयसः स एव तयोर्द्वन्द्वः, ततश्च तत्र तयोर्वा 'बुद्धिः' तत्प्राप्त्युपायविषया मतिः तस्यां विपर्ययवान् सा वा विपर्यस्ता यस्य स हितनि:श्रेयबद्धिविपर्यस्त: विपर्यस्तहितनिःश्रेयसबद्धिर्वा, विपर्यस्तशब्दस्य त परनिपातः प्राग्वत्, यद्वा विपर्यस्ता हिते नि:शेषा बुद्धिर्यस्य स तथा, बालश्च-अज्ञः मंदिए'त्ति सूत्रत्वान्मन्दो-धर्मकार्यकरणं प्रत्यनुद्यतः 'मूढो' मोहाकुलितमानसः, स एवंविधः किमित्याह'बध्यते' श्लिष्यतेऽर्थाज्ज्ञानावरणादिकर्मणा मक्षिकेव 'खेले' श्लेष्मणि, रजसेति गम्यते, इदमुक्तं भवति- यथाऽसौ तत्स्निग्धतागन्धादिभिराकृष्यमाणा तत्र मज्जति, मग्ना चरेवादिना बध्यते, एवं जन्तुरपि भोगामिषे मग्नः कर्मणेति सूत्रार्थः ।। ननु यद्येवममी भोगा: कर्मबन्धकारणं किं नैतान् सर्वेऽपि जन्तस्त्यजन्तीत्याहमू. ( २१४) दुप्परिच्चया इमे कामा नो सुजहा अधीरपुरिसेहिं ।
अह संति सुब्वया साहू जे तरंति अतरं वणिया व॥ वृ.दुःखेन-कृच्छ्रेण परित्यज्यन्ते-परिहियन्त इति दुष्परित्यजाः 'इमे' प्रत्यक्षत उपलभ्यमाना: 'कामाः' भोगा: 'नो' नैव'सुजह'त्ति सूत्रत्वात् सुखेन-अनायासेन हीयन्त इति सुहाना:सुत्यजाः, विषसम्पृक्तस्निग्धमधुरानवद्, कै;?-'अधीरपुरुषैः' अबुद्धिमद्भिरसत्त्वैर्या नरैः, पुरुषग्रहणं तु ये तावदल्पवेदोदयतया सुखेनैव त्वक्तारः सम्भवन्ति तैरप्यमी नसुखेन त्यज्यन्ते, आस्तामतिदारुणस्त्रीपण्डकवेदोदयाऽऽकुलितः, स्त्रीनपुंसकैरिति । यच्चेह दुष्परित्यजा इत्युक्वा पुनर्न सुहानाः इत्युक्तं तदत्यन्तदुस्त्यजताख्यापकं प्रपञ्चितज्ञविनेयानुग्राहकं वेति अपुनरुक्तमेव, अधीरग्रहणेन तु धीरैः सुत्यजा एवेत्युच्यते, अत एवाह-'अथ' इत्युपन्यासे 28/16
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org