________________
२४०
उत्तराध्ययन-मूलसूत्रम्-१-८/२१० मातृपित्रादयः पूर्वशब्देनोच्यन्ते ततस्तैः, उपलक्षणत्वादन्यैश्च स्वजनधनादिभिः संयोगःसम्बन्धः पूर्वसंयोगस्तं, ततः किमित्याह-न 'स्नेहम्' अभिष्वङ्गं क्वचिद्बाह्येऽभ्यन्तरे वा वस्तुनि 'कुव्विज्ज'त्ति कुर्वीत, तथा च को गुण इत्याह-'असिणेह'त्ति प्राकृतत्वाद्विसर्जनीयलोपेऽ-- स्नेह:-अविद्यमानप्रतिबन्धः, 'सिनेहकरेहि'ति सुब्ब्यत्ययादपेर्गम्यमानत्वाच्च स्नेहकरेष्वपिस्नेहकरणशीलेप्वपि पुत्रकलत्रादिषु, आस्तामन्येष्वित्यपिशब्दार्थः, 'दोषपदैः' अपराधस्थान: 'मुच्यते' त्यज्यते, किमुक्तं भवति? -निरतिचारचारित्रो भवति, अमुक्तस्नेहो हि कलवाद्यभिष्वङ्गात् दोषपदमतिचाररूपमाप्नुयाद्, 'भिक्षु रिति साधुः, पाठान्तरतश्च दोषप्रदोषैः' तत्र दोषैःइहैव मनस्तापादिभिः प्रदोपैश्च-परत्र नरकगत्यादिभिरिति सूत्रार्थः । पुनर्यदसौ कृतवांस्तदाहमू. ( २११) नो नाणंदसणसमग्गो हियनिस्सेसाए य सव्वजीवाणं।
तेसि विमोक्खणद्वाए भासए मुनिवरो विगयमोहो।। वृ.'तो'त्ति ततोऽनन्तरं, भापते मुनिवर इति सम्बन्धः, सच कीग्?-ज्ञायतेऽनेन विशेषा-- त्मना वस्त्विति ज्ञानं, दृश्यतेऽनेन सामान्यरूपेण वस्त्विति दर्शनं, ताभ्यां प्रस्तावात् केवलाभ्या समग्रः-समन्वितः, यदिवा प्राकतत्वात्समग्रे- परिपूर्ण ज्ञानदर्शने यस्यासो समग्रज्ञानदर्शन:, किमर्थमसौ भाषत इत्याह-'हियणिस्सेसाए' इति सूत्रत्वात् हित:-पथ्यो भावाऽऽरोग्यहेतुत्वात् निःश्रेयसो-मोक्षः, हितश्चासौ निःश्रेयसश्च हितनिःश्रेयसस्तस्मै, यद्वा प्राकृतत्वादेव निश्शेषंसमस्तं हितं-सम्यग्ज्ञानादि, तस्यैव तत्त्वतो हितत्वात्, ततो निश्शेषं च तद्धितं च निश्शेषहितं तस्मै, कथं नाम निश्शेषहितावाप्ति: स्यादिति, चशब्दो भिन्नक्रमः, तेषामित्यत्र योज्यते, केषाम् ?'सर्वजीवानाम्' अशेषप्राणिनां तेषां' च पञ्चशतसङ्घयचौराणां विमोक्षणम्-अष्टविधकर्मणः पृथक्करणं तदेवार्थ:-प्रयोजनं विमोक्षणार्थस्तस्मै-तन्निमित्तं, भाषते इति वर्तमाननिर्देशः प्राग्वत, यद्वा- 'भवति स नामातीतः प्राप्तो यो नाम वर्तमानत्व' मितिवचनात् तस्यापितदा वर्तमानतैवेति तत्कालत्वस्य विवक्षितत्वान्न दोषः, 'मुनिवर:' मुनिप्रधानः, विगतो-विनष्टो मोहो यस्य यस्माद्वा स ताहा।
इह चविगतमोहवचनेन चारित्रमोहनीयाभावतो यथाख्यातचारित्रमुक्तं । ननु 'हियनिस्सेसाए य सव्वजीवाणं' तीत्युक्तौ तेसि विमोक्खणट्ठाए' इत्यतीरिच्यते, न, तानेवोद्दिश्यास्य भगवतः प्रवृत्तिरिति प्रधानत्वात् पुनस्तद्विमोक्षणार्थताऽभिधानं, दृश्यते हि-'ब्राह्मणा आयता वशिष्ठोऽप्यायात' इति सामान्योक्तावपि पुनः प्रधानस्याभिधानमिति सूत्रार्थः ।। यदसौ भाषते तदाह. मू.( २१२) सव्वं गंथं कलहं च विप्पजहे तहाविहं भिक्खू।
सव्वेसु कामजाएसु पासमाणो न लिप्पई ताई। वृ. 'सर्वम्' अशेषं 'ग्रन्थं' बाह्यमाभ्यन्तरं च, तत्र बाह्यं धनादि, आभ्यन्तरं मिथ्यात्वादि कलहहेतुत्वात्कलह:-क्रोधस्तं, चशब्दान्मानादींश्च, अभ्यन्तरग्रन्थरूपत्वेऽपि चैषां पृथगुपादानं बहुदोषख्यापनार्थं, 'विप्पजहे'त्ति विप्रजह्यात्-परित्यजेत् 'तथाविध मिति कर्मबन्धहेतुं, न तु धर्मोपकरणमपीत्यभिप्रायः, पाठान्तरतश्च-तथाविधो, 'भिक्षुः' यतिस्तस्यैवेवंविधधर्माहत्वादेवमभिधानम्, अन्योक्त्या वा त एवैवमुच्यन्ते, ततश्च किं स्यादित्याह-'सर्वेषु' अशेषेषु 'कामजातेषु' मनोज्ञशब्दादीनां प्रकारेषु समूहेषु वा 'पासमाणो'त्ति पश्यन् प्रेक्षमाणो,
Jain Education International
•
For Private & Personal Use Only
www.jainelibrary.org