________________
अध्ययनं ८, [ नि. २५९]
-
२३९
केइ बीए, एवं जाव पंचवि सया संबुद्धा पव्वतियत्ति । इत्यभिहितः सम्प्रदायोऽवसितश्च नामनिष्पन्नो निक्षेप:, सम्प्रति सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रच्चारणीयं, अधुवे अससायंमि संसारंमि दुक्खपउराए ।
मू. (२०९)
किं नाम होज्ज तं कम्मयं ?, जेनाहं दुग्गइं न गच्छेज्जा | वृ. स हि भगवान् कपिलनामा स्वयंबुद्धश्चौरसङ्घातसम्बोधनायेमं ध्रुवकं सङ्गीतवान्, ध्रुवकलक्षणं चेदम्
'जं गिज्जइ पुव्वं चिय पुन पुनो सव्वकव्वबंधेसु । धुवयंति तमिह तिविहं छप्पायं चउपयं दुपयं ।। "
तत्र ध्रुवो य एकास्पदप्रतिबद्धो न तथाऽध्रुवः तस्मिन्, संसार इति सम्बन्धः, भ्रमन्ति ह्यस्मिन् अनेकेषु उच्चावचस्थानेषु जन्तवः, तेषां क्वचिदनुत्पन्नपूर्वत्माभावाद्, उक्तं च"रङ्गभूमिर्न सा काचिच्छुद्धा जगति वर्तते । विचित्रैः कर्मनेपथ्यैर्यत्र सत्त्वैर्न नाटियम् ।।"
इति, शाश्वतं नित्यम् अविद्यमानं शाश्वतमस्मिन्निति अशाश्वस्तस्मिन्, संसार एव, अशाश्वतं हि सकलमिह राज्यादि, तथा च हारिलवाचक:
"च लंराज्यैश्वर्यं धनकनकसार: परिजनो नृपाद्वाल्लभ्यं च चलममरसौख्यं च विपुलम् । चलं रूपाऽऽरोग्यं चलमिह चरं जीवितमिदं जनो दृष्टो यो वै जनयति सुखं सोऽपि हि चलः ।। "
यद्वा- ध्रुवो - नित्यो न तथाऽध्रुवस्तस्मिन्, एवं च कियत्कालावस्थायित्वमप्याशङ्कयेत अत आह--शश्वद्भवनाच्छाश्वतः न तथाऽशाश्वतस्तस्मिन् शश्वद्भवने हि द्व्यादिक्षणावस्थितिरपि सम्भवेत्, तन्निषेधे तु तस्या अपि निषेधात्पर्यायार्थतया तडित्सम्पातवत् क्षणमात्रावस्थायिनी - त्युक्तं भवति, एकार्थं वा पदद्वयम्, उपदेशत्वादतिशयख्यापकत्वाच्च न पौनरुक्त्वं, क्व पुनः ईदृशि ? संसरन्त्यस्मिन् कर्मवशवर्तिनो जन्तव इति संसारस्तस्मिन्, 'दुक्खपउराए' त्ति प्रचुरण्येव प्रचुरकाणि प्रभूतानि दुःखानि शारीरमानसानि यस्मिन् स तथा तस्मिन्, प्राकृतत्वाच्च सूत्रे एवं निर्देशः यद्वा दुःखानां प्रचुरः आयो-लाभो यस्मिन् स तथा तस्मिन्, 'कि' मिति प्रश्ने ? 'नामे'ति संभावनायां वाक्यालङ्कारे वा 'भवेत्' स्यात् तत् क्रियत इति कर्म तदेव कर्मकम्अनुष्ठानं, यत् कीदृगित्याह-येन कर्म्मणा 'हेतौ तृतीया' अहमित्यात्मानं निर्दिशति, 'दुर्गति' नरकादिकां 'न गच्छेज्ज'ति न गच्छेयं-न यायां पठन्ति च
'जेणाधं दुग्गईतो मुच्चेज्ज' त्ति सुगमम् अत्र भगवतश्छिन्नसंशयत्वेऽपि भुक्तिगामितया दुर्गत्यसत्त्वेऽपि च प्रतिबोध्यपूर्वसङ्गतिकापेक्षमित्थमभिधानं, नागार्जुनीयास्तु प्रथमपदमेवं पठन्ति 'अधुवंमि मोहगहणए' तत्र मुह्यतेऽनेन जानन्नपि जन्तुरिपि मोहो- दर्शनमोहनीयादिः तेन गहनो - गुपिलो मोहगहनः स एव मोहगहनक स्तस्मिन्निति सूत्रार्थः ॥ एवं च भगवतोद्गीते तेऽप्येनमेव ध्रुवकं प्रत्युद्गायन्ति तालं च कुट्टयन्ति, तैश्च प्रत्युद्गीते भगवानाह - 'विजहित पुव्वसंजोगं न सिनेहं कहिंचि कुव्विज्जा । असिनेह सिनेहकरेहिं दोसपउसेहि मुच्चई भिक्खू ॥
मू. ( २१० )
वृ. ' विहाय' विशेषेण तदननुस्मरणाद्यात्मकेन हित्वा त्यक्त्वा, कमित्याह- पुरा परिचित्ता
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
-
-