SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ अध्ययनं - ७, [ नि. २४९ ] २३१ भहेतुतया, तथा लाभ इव लाभ: मनुजगत्यपेक्षया विषयसुखादिभिर्विशिष्टत्वात्, 'देवगतिः ' देवत्वावाप्तिर्भवेत्, एवं च स्थिते किमित्याह- 'मूलच्छेदेन' मानुषत्वगतिहान्यात्मकेन 'जीवानां' प्राणीनां 'नरकतिर्यक्त्वं' नरकत्वं तिर्यक्त्वं च तद्गत्यात्मकं 'ध्रुवं' निश्चितम् इहापि सम्प्रदायःतिनि संसारिणो सत्ता मानुस्सेसु आयाता, तत्थेगो मद्दवज्जवादिगुणसंपन्नो मज्झिमारंभपरिहत्ती कालं काऊण काहावणसहस्समूलत्थाणीयं तमेव मानुस्सत्तं पडिलहति, बितितो पुन सम्मदंसणचरित्तगुणसुपरिट्ठितो सरागसंजमेण लद्धलाभवणिय इव देवेसु उववन्त्रों, ततितो पुन हिंसे बाले मुसावाती इच्चेतेहिं पुव्वभणितेहिं सावज्जजोगेहिं वट्टिउं छिन्नमूलवणिय इव नारगेसु तिरिएसु वा उववज्जतित्ति सूत्रार्थः । यथा मूलच्छेदेन नरकतिर्यक्त्वप्राप्तिः तथा आहमू. ( ११५ ) दुहओ गति बालस्स, आवती वहमूलिया । देवत्तं मानुसतं च, जं जिए लोलुआसढे ॥ वृ. 'दुहतो 'ति द्विधा द्विप्रकारा, गम्यत इति गतिः, सा चेह प्रक्रमान्नरकगतिस्तिर्यग्गतिश्च, कस्येत्याह-'बालस्य' द्वाभ्यां रागद्वेषाभ्यामाकुलित्स्य, 'आवइ' त्ति आगच्छत्यापतति वध:प्राणिघातः, उपलक्षणत्वान्महारम्भमहापरिग्रहानृतभाषणमायादयश्च मूलं कारणं यस्याः सा वधमूलिका, यदिवा-द्विधा गतिर्बालस्य, भवतीति गम्यते, तत्र च गतस्य 'आवइ'त्ति आपत्, साच कीदृशीत्याह-वधो- विनाशस्ताडनं वा मूलम् - आदिर्यस्याः सा वधमूलिका, वधग्रहणाच्छेदभेदातिभारारोपणादिपरिग्रहः, लभन्ते हि प्राणिनो नरकतिर्यक्षु विविधा वधाद्यापदः, किमित्येवम् ?, अत आह - 'देवत्वं' देवभयं 'मानुषत्वं' मनुजभवं 'यद्' यस्मात् 'जितो' हारितो 'लोलयासढे 'त्ति लोलतापिशितादिलाम्पट्यं तद्योगाज्जन्तुरपि तन्मयत्वख्यापनार्थं लोलतेत्युक्तः, शाठ्ययोगाच्छठ:--विश्वस्तजनवञ्चकः, ततो लोलता चासौ शटश्च लोलताशठः, इह च लोलता पञ्चेन्द्रियवधाद्युपलक्षणं, तथा च नरकहेतुत्वाभिधानमेतत्, यदुक्तम् - "महारंभयाए महापरिग्गहयाए कुणिमाहारेणं पंचेंद्रियवहेणं जीवा नेरयाउयं नियच्छंति" शठ इत्यनेन तु शाठ्यमुक्तं, तच्च तिर्यग्गतिहेतु:, उक्तं च-- "माया तैर्यग्योनस्ये" ति, अतश्चायमाशयः यतोऽयं बालो लोलताशठः ततो नरकगतितिर्यग्गतिनिबन्धनाभ्यां लोलताशठत्वाभ्यां देवत्वमनुजत्वे हारितस्यास्योक्तरूपा द्विविधैव गतिः सम्भवति, एवं च मूलच्छेदेन जीवानां नरकतिर्यक्त्वमुच्यते, मूलं हि मनुष्यत्वं लाभश्च देवत्वम्, उभयोरपि तयोर्हारणादिति सूत्रार्थः ॥ पुनर्मूलच्छेदमेव समर्थयितुमाहमू. ( १९६ ) ततो जिए सई होइ, दुविहं दुग्गतिं गते । दुल्लहा तस्स उम्मज्जा, अद्धाए सुचिरादवि ॥ वृ. 'ततः' देवत्वभानुषत्वजयनात् तको वा बालः 'जिय'त्ति व्यच्छेदफलत्वाद्वाक्यस्य जित एव 'सति' त्ति सदा भवति 'द्विविधां' नारकतिर्यग्भेदां, दुर्निन्दायां, दुष्टा-निन्दिता गतिदुर्गतिस्तां 'गत: ' प्राप्तः, सदाजितत्वमेवाभिव्यनक्ति- 'दुर्लभाः ' दुष्प्रापाः 'तस्ये 'ति देवमनुजत्वे हारितवतो बालस्य 'उम्मज्जत्ति सूत्रत्वादुन्मज्जनुमुन्मज्जा-नरकतिर्यग्गतिनिर्गमनात्मिका, स्यादेतत्- चिरतरकालेनोन्मज्जाऽस्य भविष्यति, अत आह-'अद्धाया' काले अर्थादागामिन्यां, किं स्वल्पायामेव ?, इत्याह- सुचिरादपीत्यद्धाशब्देनैव कालाभिधानात्, For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003381
Book TitleAgam Sutra Satik 43 Uttaradhyayanani MoolSutra 4
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages704
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 43, & agam_uttaradhyayan
File Size130 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy