SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ २३० उत्तराध्ययन-मूलसूत्रम्-१-७/१९१ भगवतश्च वीरस्य तीर्थे प्रायो न्यूनवर्षशतायुष एव जन्तव इतीत्थमुपन्यासः, ___ अयं चात्र भावार्थ:-अल्पं मनुष्याणामायुविषयाश्चेति काकण्याम्रफलोपमाः, देवायुर्देवकामाश्चातिप्रभूततया कार्षापणसहस्रराज्यतुल्याः, ततो यथा द्रमको राजा चकाकण्यामफलकृते कार्षापणसहस्रं राज्यं च हारितवान्, एवमेतेऽपि दुर्मेधसोऽल्पतरमनुष्यायुः कामार्थे प्रभुतान् देवायु:कामान् हारयन्तीति सूत्रार्थः ।। सम्प्रति व्यवहारोदाहरणमाहमू.(१९२) जहा य तिन्नि वणिया, मूलं धेतूण निग्गया। एगोऽत्थ लभते लाभ, एगो मलेन आगओ। वृ. 'यथा' इति प्राग्वत्, 'च:' प्रतिपादितदृष्टान्तापेक्षया समुच्चये, त्रयो वणिजः' प्रतीताः 'मूलं' राशि नीविमितियावत् गृहीत्वा 'निर्गताः' स्वस्थानात्स्थानान्तरं प्रति प्रस्थिताः, प्राप्ताश्च समीहितं स्थानं, तत्र च गतानाम्, ‘एको' वणिक्कलाकुशलः 'अत्र' एतेषु मध्ये 'लभते' प्राप्नोति 'लाभ' विशिष्टद्रव्योपचयलक्षणम्, 'एक:'तेष्वेवान्यतरो यस्तथा नातिनिपुणो नाप्यत्यन्तानिपुणः स 'मूलेणे'तिमूलधनेन यावत् गृहान्नीतं तावतैवोपलक्षितः 'आगतः' स्वस्थानं प्राप्त इति सूत्रार्थः । तथामू.(१९३) एगो मूलंपि हारित्ता, आगओ तत्थ वाणिओ। ववहारे उवमा एसा, एवं धम्मे विजाणह ।। ७. 'एक:' अन्यतरः प्रमादपरो द्यूतमधादिष्वत्यन्तमासक्तचेताः 'मूलमपि' उक्तरूपं 'हारियित्वा' नाशयित्वा 'आगतः' प्राप्तः स्वस्थानमित्युपस्कारः, एवं सर्वत्रोदाहरणसूचायां सोपस्कारता द्रष्टव्या, 'तत्र' तेषु मध्ये वणिक एव वाणिजः । अत्र च सम्प्रदायः___ जहा एगस्स वाणियगस्स तिन्नि पुत्ता, तेन तेसि सहस्सं सहस्सं दिन्नं काहावनाणं, भणिया य-एएण ववहरिऊण एत्तिएण कालेन एज्जाह, ते तं मूलं घेत्तूण निग्गया सणगरातो, पिथप्पिथेसु पट्टणेसु ठिया, तत्थेगो भोयणच्छायणवज्जंजूयमज्जमंसवेसावसणविरहितो विहीए ववहरमाणो विपुललाभसमनितो जातो, वितितो पुण मूलमवि दव्वंतोलाभगं भोयणच्छायणमल्लालंकारादिसु उवभुंजति, न य अच्चादरेण ववहरति, ततितो न किंचि संववहरति, केवलं जूयमज्जमंसवेसगंधमल्लतंबोलसरीरकियासु अप्पेणेव कालेन तं दव्वं निट्ठवियंति, जहावहिकालस्स सपुरमागया। तत्थ जो छिनामूलो सो सव्वस्स असामी जातो, पेसए उवचरिज्जति, बितितो घरवावारे निउत्तो भत्तपानसंतुट्ठो न दायव्वभोत्तव्येसु ववसायति, ततितो घरवित्थरस्स सामी जातो । केति पुन कहंति-तिन्नि वाणियगा पत्तेयं २ ववहरंति, तत्थेगो छिन्त्रमूलो पेसत्तमुवगतो, केण वा संववहारं करेउ?, अच्छिन्नमूलो पुणरवि वाणिज्जाए भवति, इयरो बंधुसहितो मोदए, एस दिटुंतो। सम्प्रति सूत्रमनुस्रियते-'व्यवहारे' व्यवहारविषया 'उपमा' सादृश्यं 'एषा' अनन्तरोक्ता 'एवं' वक्ष्यमाणन्यायेन 'धर्मे' धर्मविषयामेवोपमा 'विजानीत' अवबुध्यध्वमिति सूत्रार्थः ।। मू. (१९४) मानुसुतं भवे मूलं, लाभो देवगई भवे। मूलच्छेएण जीवाणं, नरगतिरिक्खत्तणं धुवं ।। वृ. 'मानुषत्वं' मनुजत्वं भवेत्' स्यात् मूलमिव मूलं, स्वर्गापवर्गात्मकतदुत्तरोत्तरला Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003381
Book TitleAgam Sutra Satik 43 Uttaradhyayanani MoolSutra 4
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages704
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 43, & agam_uttaradhyayan
File Size130 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy