________________
२३२
उत्तराध्ययन-मूलसूत्रम्-१-७/१९६ सुचिराच्छब्दः प्रभूतत्वमेवाह, ततोऽयमर्थ:-अनागताद्धायां प्रभुतायामपि, बाहुल्याच्चेत्थमुक्तम्, अन्यथा हि केचिदेकभवेनैव तत उद्धृत्य मुक्तिमप्याप्नुवन्त्येवेति सूत्रार्थः ।। इत्थं पश्चानुपूर्व्यपि व्याख्यामिति पश्चादुक्तेऽपि मूलहारिण्युपनयमुपदर्श्य मूलप्रवेशिन्यभिधातुमाह-'यद्वा विपक्षापायपरिज्ञानतयैवोपादये प्रवृत्तिरिति पश्चादुक्तमपि मूलहारिणमादावुपदश्यैतदाहमू. (१९७) एवं जियं सपेहाए, तुलिया बालं च पंडियं।
मूलियं ते पविस्संति, मानुसं जोणिमिति । वृ. 'एवम्' उक्तनीत्या 'जिए'त्ति सुव्यत्ययाज्जितं लोलतया शाठ्येन च देवमनुजत्वे हारितं बालमिति प्रक्रमः, 'सपेहाए'त्ति सम्प्रेक्ष्य सम्यगालोच्य, तथा तोलयित्वेव तोलयित्वागुणदोषत्तया परिभाव्य, यदिवैवं जितं सम्यग्-अविपरीता प्रेक्षा-बुद्धिः सम्प्रेक्षा तया तोलयित्वा, कम्?- 'बालं' चस्य भिन्नक्रमत्वात् 'पण्डितं च तद्विपरीतम्, अथवा मनुष्यदेवगतिगामिनम्, इह च द्वितीयव्याख्यायामेवं जितमिति बालस्य विशेषणं, न पण्डितस्य, असम्भवात्, तथा च सति मूले भवं मौलिकं-मौलधनं ते प्रवेशयन्तीव प्रवेशयन्ति, मूलप्रवेशवणिक्सदृशास्त इत्यभिप्राय:, ये किमित्याह-'मानुस्सं'ति मनुष्याणामियं मानुषी तां योनिम्' उत्पत्तिस्थानम् 'आयान्ति' आगच्छन्ति, बालत्वपरिहारेण पण्डितत्वमासेवमाना ये त इति सूत्रार्थः ।। मू. (१९८) वेमायाहिं सिक्खाहिं, जे नरा गिहि सुब्वया।।
उविचि मानुसं जोणी, कम्मसच्चा हु पाणिणो। वृ.विविधा मात्रा-परिमाणमासां विमात्रा:-विचित्रपरिमाणाः ताभिः परिमाणविशेषमाश्रित्य विसदृशीभिः, 'शिक्षाभिः' प्रकृतिभद्रकत्वाद्यसरूपाभिः, उक्तं हि-"चउहिं ठाणेहिं जीवा मनुयाउं बंधंति, तंजहा-पगतिभद्दवाए पगतिविनीययाए सानुक्कोसयाए अमच्छरिया"त्ति 'ये' इत्यविवक्षितविशेषाः 'नरा:' पुरुषाः 'गृहिणश्च' ते गृहस्थाः 'सुव्रताश्च' धृतसत्पुरुषव्रताः, ते हि प्रकृतिभद्रकत्वाद्यभ्यासानुभावत एव न विपद्यपि विपीदन्ति सदाचारं धा नावधीरयन्तीत्यादिगुणान्विताः, इदमेय च सतां व्रतं, लौकिका अप्याहुः
"विपद्युच्चैः स्थेयं पदमनुविधेयं च महतां, प्रिया न्याय्या वृत्तिर्मलिनमसुभङ्गेऽप्यसुकरम् । असन्तो नाभ्यर्थ्याः सुहृदपि न याच्यस्तनुधनः, सतां केनोद्दिष्टं विषमसिधाराव्रतमिदम् ? |"
आगमविहितव्रतधारणं त्वमीषामसम्भवि, देवगतिहेतुतयैव तदभिधानात्, त ईदृशाः किमित्याह-उपयन्ति 'मानुसं'ति मानुषी-मानुषसम्बन्धिनीं 'योनिम्' उक्तरूपां कर्मणामनोवाकायक्रियालक्षणेन सत्या-अविसंवादिनाः कर्मसत्याः, 'हुः' अवधारणे, ततः कर्ममत्याः एव सन्तः, तदसत्यतायास्तिर्यग्योनिहेतुत्वेनोक्तत्वात्, तथा च वाचक:
"धूर्ता नैकृतिकाः स्तब्धा, लुब्धाः कार्पटिका: शठाः ।
___ विविधां ते प्रपद्यन्ते, तिर्यग्गोनि दुरुत्तराम् ।।" इत्यादि, पाठान्तरतश्च कर्मसु' अर्थान्मनुष्यगतियोग्यक्रियारूपेषु सक्ता-अभिष्वङ्गवन्तः कर्मसक्ताः प्राणिनः-जीवाः, इह च नरग्रहणेऽपि प्राणिग्रहणं देवादिपरिग्रहार्थमिति न पुनरुक्तम्। यदिवा-विमात्रादिभिः शिक्षाभिर्ये नरा गृहिसुव्रताः यत्तदोनित्याभिसम्बन्धात् ते मानुषी
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org