________________
अध्ययन-७,[नि. २४९]
२२७ क्रुध्यति-हेतुमन्तरेणापि कुप्यतीत्येवंधर्माक्रोधी, मृषा-अलीकं वदति-प्रतिपादयतीत्येवंशीलो मृषावादी, 'अध्वनि' मार्गे 'विलुम्पति' मुष्णातोति विलोपकः, यः पथि गच्छतो जनान् सर्वस्वहरणतो लुण्टति, 'अन्नदत्तहरि'त्ति अन्येभ्यो दत्तं-राजादिना वितीर्ण हरति अपान्तराल एवाच्छिनत्त्यदत्तहरः, अन्याऽदत्तम्-अनिसृष्टं हरति-आदत्ते अन्यादत्तहर:-ग्रामनगरादिषु चौर्यकृत, अत एव बालः' अज्ञः, विस्मरणशीलस्मरणार्थमेतदिति न पौनरुक्त्यं, सर्वावस्थासु वा बालत्वख्यापनार्थं, पाठान्तरश्च स्तेन:'स्तैन्येनैवोपकल्पित्तात्मवृत्तिः, यद्वा-अन्यादत्तहर: अन्यादत्तं ग्रन्थिच्छेदादिनोपायेनापहरतिस्तेनः क्षत्रादिखननेनेति विशेषो, 'मायी' वञ्चनैकचित्तः, 'कण्हुहरः' कण्ह कस्यार्थं हरिष्यामि त्येवमध्यवसायी 'शठः' वक्राचारः। मू.(१८४) इत्थोविसयगिद्धे य, महारंभपरिग्गहे।
धुंजमाणे सुरं मंसं, परिवूढे परंदमे ।। वृ. तथा स्त्रियश्च विषयाश्च स्त्रीविषयाः तेषु गृद्ध:-अभिकाङ्क्षावान् स्त्रीविषयगृद्धः, च: प्राग्वत्, महान्-अपरिमितः आरम्भ:-अनेकजन्तूपघातकृदयापारः परिग्रहश्च-धान्यादिसञ्चयो यस्य स तथोक्तः, भुञ्जानः' अभ्यवहरन्, 'सुरां' मदिरां, मांसं' पिशितं, परिवूढे'त्ति परिवृढः प्रभुरुपचितमांसशोणिततया तक्रियासमर्थ इतियावत्, अत एव परान्-अन्यान् दमयतियत्कृत्याभिमतकृत्येषु प्रवर्तयतीति परन्दमः, मू.(१८५) अयककर भोई य, तुंदिले चिय लोहिए।
आउयं नरए कंखे, जहाऽऽएसं व एलए। वृ. किंच-अजः- छागस्तस्य कर्करं-यच्चनकवक्ष्यमाणं कर्करायते तच्चेह प्रस्तावान्मेदोदन्तुरमतिपक्कंवा मांसं तद्भोजी वा, अत एव तुन्दिलः' जातबृहज्जठरः, चितम्-उपचयप्राप्तं लोहितं-शोणितमस्येति चितलोहितः, शेषधातूपलक्षणमेतत्, 'आयुः' जीवितं, 'नरके' सीमन्तकादौ काइति तद्योग्यकारम्भितया, कमिव क इव? इत्याह-'जहाएसं व एडए'त्ति आदेशमिव यथैडक:- उक्तरूपः । इहच 'हिंसे' इत्यादिना सार्धश्लोकेनारम्भ उक्तः, 'भुंजमाणे सुर'मित्यादिना चार्धद्वयेन रसगृद्धिः, 'आयुष्क'मित्यादिनाचार्धेन दुर्गतिगमनं, तत्प्रतिपादनाच्चार्थतः प्रत्यपायाभिधानमिति सूत्रत्रयार्थः । इदानी यदुक्तम् 'आयुर्नरके काङ्गती'ति, तदनन्तरमसौ किं कुरुत इत्याह-यद्वा साक्षादेहिकापायदर्शनायाहमू. (१८६) आसनं सयनं जाणं, विते कामाणि भुंजिया।
दुस्साहडं धनं हिच्चा, बहु संचिणिया रयं । वृ. आसनं शयनं यानमिति प्राग्वत्, नवरं भुक्त्वेति सम्बन्धनीयं, 'वित्ते'त्ति वित्तं द्रव्यं, 'कामान्' मनोज्ञशब्दादीन् ‘भुक्त्वा' उपभुज्य, दुःखेनात्मनः परेषां च दु:खकरणेन सुष्ठआदरातिशयेनाहृतम्-उपार्जितं दुःखाहतं, यद्वा प्राकृतत्वात् दुःखेन संहियते-मील्यते स्मेति दुःसंहतं 'धनं' द्रव्यं हित्वा' आसनाद्युपभोगेन द्यूताद्यसद्वययेन च त्यक्त्वा, तथा च मिथ्यात्वादिकर्मबन्धुहेतुसम्भवाद् 'बहु' प्रभूतं 'सञ्चित्य' उपाय॑ 'रजः' अष्टप्रकारं कर्म । मू. (१८७) ततो कम्मगुरू जंतू, पच्चुप्पन्नपरायणे।
अएब्व आगया कंखे, मरणंतमि सोयति ।।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org