SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन- - मूलसूत्रम् - १-६ / १८० तओ स पुढे परिव्वूढे, जायमेदे महोयरे । पीणीए विपुले देहे, आदेसं परिकंखए || वृ. 'तत' इत्योदनादिदानाद्धेतौ पञ्चमी, 'स' इत्युरभ्रः 'पुष्ट' उपचितमांसतया पुष्टिभाक् 'परिवृढः' प्रभुः समर्थ इतियावत् 'जातभेदा' उपचितचतुर्थधातुः अत एव 'महोदरः ' बृहज्जठरः 'प्रीणित: ' तपित:, यथासमयमुपढौकिताहारत्वात्, एभिरेव च हेतुभिः 'विपुले' विशाले 'देहे' शरीरे सति " यस्य च भावेन भावलक्षण" मिति सप्तमी, किमित्याह-- आदेशं 'प्रतिकाङ्क्षति' प्रतिपालयति पाठान्तरतः 'परिकाङ्क्षति' इच्छति, न चास्य तत्त्वतः प्रतिपालनमिच्छा वा सम्भवति, अत: प्रतिकाङ्क्षतीव प्रतिकाङ्क्षतीत्युपमार्थोऽवगन्तव्यः, एवं परिकाङ्क्षतीत्यत्रापि, इति सूत्रार्थः ॥ स किमेवं चिरस्थायी स्यादित्याह मू. ( १८१ ) २२६ सू. ( १८० ) जाव न एज्जति आएसो, ताव जीवति सेऽदुही। अह पत्तमि आएसे, सीसं छेत्तूण भुज्जति ।। वृ. 'यावदि 'ति कालावधारणे 'नेति' नायाति कोऽसौ ? - आदेशः, तावत् नोत्तरकालं 'जीवति' प्राणान् धारयति, 'सेऽदुहि' त्ति अकारप्रश्लेषात् स इत्युरभ्रोऽदुःखी सुखी सन्, अथवा वध्यमण्डनमिवास्यौदनदानादिनीति तत्त्वतो दुःखितैवास्येति दुःखी, 'अह पत्तंमि आएसे' अथानन्तरं 'प्राप्ते' आगते आदेशे श्रिता अस्मिन् प्राणा इति शिरः तच्छित्त्वा - द्विधा विधाय भुज्यते, तेनैव स्वामिना प्राहुणकसहितेनेति शेषः । सम्प्रति सम्प्रदायशेषमनुत्रियते ततो सो वच्छगो तं नंदियगं पाहुणगेसु आगएसु धज्माणं दट्टु तिसितोऽवि भएणं माऊण थणं नाभिलसति, ताए भण्णति - किं पुत्त ! भयभीतोऽसि ?, नेहेन पण्हुयंपि मं न पियसि, तेन भण्णइ-अम्म ! कतो मे थणाभिलासो ?, ननु सो वरातो नंदितो अज्ज केहिवि पाहुणएहिं आगएहिं ममं अग्गतो विनिग्गयजीवो विलोलनयणो विस्सरं रसंतो अत्ताणो असरणो मारितो, तब्भयातो कतो मे पाउमिच्छा ?, ततो ता भण्णत्ति - पुत्त ! ननु तदा चेव ते कहियं, जहा- आउरचिन्नाई एयाइं०, एस तेसिं विवागो अनुपत्तो । एस दिट्टंतो इति सूत्रार्थः ॥ इत्थं दृष्टान्तमभिधाय तमेवानुवदन् दान्तिकमाहमू. ( १८२ ) जहा खलु से ओरब्भे, आएसाए समीहिए। एवं बाले अहम्मिट्टे, ईहति निरयाउयं ॥ वृ. 'यथा' येन प्रकारेण 'खलु' निश्चयेन 'स' इति प्रागुक्तस्वरूप उरभ्रः 'आदेशाय' आदेशार्थं 'समीहित: ' कल्पितः सन् यथाऽयमस्मै भवितेत्यादेशं पारिकाङ्क्षति इत्यनुवर्तते, ‘एवम्' अमुनैव न्यायेन ‘बालः' अज्ञोऽधर्मो-धर्मविपक्षः पापमितियावत् स इष्ट:-अभिलपितोऽस्येत्यधर्मिष्ठः, आहिताग्न्यादेराकृतिगणत्वादिष्टशब्दस्य परनिपातः, यद्वाऽ धर्म्मगुणयोगादधर्मोऽतिशयेनाधर्मोऽधर्मिष्ठः ईहत इवेहते वाञ्छतीव तदनुकूलचारितया, किं तत् ?'नरकायुष्कं' नरकजीवितमिति सूत्रार्थः । उक्तमेवार्थं प्रपञ्चयितुमाह मू. (१८३ ) हिंसे बाले मुसावाई, अद्धाणमि विलोवए । अत्रदत्तहरे तेने, माई कन्हुहरे सढे ॥ वृ. हिनस्तीत्येवंशीलो हिंस्रः - स्वभावत एव प्राणव्यपरोपणकृत् 'बाल:' अज्ञः,' Jain Education International For Private & Personal Use Only पाठान्तरश्च www.jainelibrary.org
SR No.003381
Book TitleAgam Sutra Satik 43 Uttaradhyayanani MoolSutra 4
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages704
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 43, & agam_uttaradhyayan
File Size130 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy