________________
२२५
अध्ययनं-७,[नि. २४८] नि.[ २४८] आरंभे रसगिद्धी दुग्गतिगमणं च पच्चवाओ य।
उवमा कया उरन्भे उरभिज्जस्स निज्जुत्ती॥ वृ.आरम्भणं आरम्भः-पृथिव्याधुपमर्दः, रसेषु-मधुरादिषु गृद्धि:-अभिकाङ्क्षा रसगृद्धिः, दुर्गतिगमनं च-नरकतिर्यगादिषु च पर्यटनं, प्रत्यपायश्चेहैव शिरश्छेदादिः, वक्ष्यति हि "सिरं छेत्तूण भुज्जति'त्ति शिरश्छेदादातरौद्रोपगतस्य दुर्गतिपाते दुःखानुभवनादिरुपमा-सादृश्योपदर्शनरूपा, प्रक्रमादेभिरेवाराम्भादिभिरथैः "कृता' विहिता उरभ्रे' उरभ्रविषया, इदमुक्तं भवतिसाम्प्रतक्षिणो हि विषयामिषगृध्नवस्तांस्तानारम्भानारभन्ते, आरभ्य चोपचितकर्मभिः कालशौकरिकादिवदिहैव दु:खमुपलभ्य नरकादिकां कुगतिमाप्नुवन्तीत्युरभ्रोदाहरणता इहोपदय॑ते, काकिण्यादिसामदृष्टान्तोपलक्षणं चैतद्, 'उरभ्रीयस्य नियुक्ति'रिति निगमनमेतदिति गाथार्थः॥ इत्यवसितो नामनिष्पन्ननिक्षेपः, सम्प्रति सूत्रालापकनिपेक्षावसरः, स च सूत्रे सति भवतीत्यत: सूत्रानुगमे सूत्रमुच्चारणीयं, तच्चेदम्मू.(१७९) जहाऽऽएसं समुद्दिस्स, कोइ पोसेज्ज एलयं।
ओयणं जवसं देज्जा, पोसेज्जावि संयगणे॥ वृ. 'यथे'त्युदाहरणोपन्यासे, आदिश्यते-आज्ञाप्यते विविधव्यापारेषु परिजनोऽस्मिन्नायात इत्यादेश:-अभ्यर्हितः प्राहुणकस्तं समुद्दिश्य' आश्रित्य यथाऽसौ समेष्यति समागतश्चैनं भोक्ष्यत इति कश्चित्' परलोकापायनिरपेक्षः 'पोषयेत्' पुष्टं कुर्यात् 'एलकम्' ऊरणकं, कथमित्याह'ओदनं' भक्तं, तद्योग्यशेषान्नोपलक्षणमेतत्, 'यवसं' मुद्गमाषादि दद्यात्' तदग्रतो दौकयेत्, तत एव पोषयेत्, पुनर्वचनमादरख्यापनाय, अपिः सम्भावने, सम्भाव्यत एवैवंविधः कोऽपि गुरुकर्मेति, 'स्वकाङ्गणे' स्वकीयगृहाङ्गणे, अन्यत्र नियुक्तका: कदाचिन्नौदनादि दास्यन्तीति स्वकाङ्गण इत्युक्तं, यदि वा 'पोसेज्जा विसयंगणे'त्ति विशन्त्यस्मिन् विषयो-गृहं तस्याङ्गणं विषयाङ्गणं तस्मिन्, अथवा विषयं-रसलक्षणं वचनव्यत्यया विषयान्वा गणयन्-संप्रधारयन् धर्मनिरपेक्ष इति भावः, इहोदाहरणं सम्प्रदायादवसेयं, जहेगो ऊरणगो पाहुणयणिमित्तं पोसिज्जति, सो पीणियसरीरो सुण्हातो हलिद्दादिकयंगरागो कयकण्णचूलतो कुमारगा यतं नाणाविहेहिं कीलाविसेसेहिं कीलावेंति, तं च वच्छगो एवं लालिज्जमाणं दट्ठण माऊए नेहेण य गोवियं दोहएण य तयणुकंपाए मुक्कमवि खीरं न पिबति रोसेणं, ताए पुच्छिओ भणति-अम्मो ! एस नंदियगो सव्वेहिं एएहिं अम्हसामिसालेहि अड्डेहिं जवसजोगासणेहिं तदुवओगेहिं च अलंकारविसेसेहिं अलंकारितो पुत्त इव परिपालिज्जति, अहं तु मंदभग्गो सुक्काणि तणाणि काहेवि लभामि, ताणिविन पज्जत्तगाणि, एवं पाणियपि, न य मं कोऽवि लालेति । ताए भण्णत्ति-पुत्त! नि.[२४९] आउरचिनाई एयाई, जाई चरइ नंदिओ।
सुक्कत्तणेहिं लाढाहि, एयं दीहाउलक्खणं॥ वृ. जहा आउरो मरिउकामो जं मग्गति पत्थं वा अपत्थं वा तं दिज्जति से, एवं सो नंदितो मारिज्जिहिति जदा तदा पेच्छिहिसि, इति सूत्रार्थः । ततोऽसौ कीदृशो जातः? किं च कुरुते? 28/15
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org