________________
उत्तराध्ययन-मूलसूत्रम्-१-७/१७८ पायदर्शनात्, तच्च दृष्टान्तोपन्यासद्वारेणैव परिस्फुटं भवतीति रसगृद्धिदोषदर्शकोरभ्रादिदृष्टान्तप्रतिपादकमिदमध्ययनमारभ्यते, इत्यनेनाभिसम्बन्धेनायातस्याध्याययनस्योपक्रमादिद्वारचतुष्टयमुपवयं तावद्यावन्नामनिष्पन्ननिक्षेते उरभ्रीयमिति नाम, अत उरभ्रनिक्षेपमाहनि.[२४४] निक्खेवो उ उरब्भे चउचिओ दव्विहो य होइ दव्वंमि।
आगमनोआगमओ नोआगमओ असो तिविहो । वृ. 'निक्षेप:' न्यासः, तुः पूरणे, उरभ्रे' उरभ्रविषयः 'चतुर्विधः' चतुष्प्रकारः, नामस्थापनाट्रव्यभावभेदात्, तत्र नामस्थापने क्षुण्णे एव इति द्रव्योरभ्रमाह-द्विविधो भवति 'द्रव्य' इति द्रव्यविषयः, आगमनोआगमत: तत्रागमत उरभ्रशब्दार्थज्ञ: तत्र चानुपयुक्तः, नोआगमतः पुनः चस्य पुनरर्थत्वात्, 'स' इति द्रव्योरभ्रः 'त्रिविधः' त्रिभेद इति गाथार्थः ।। त्रैविध्यमेवाहनि.[२४५] जाणगसरीरभविए तव्वइरिते असो पुनो तिविहो।
एगभविअ बद्धाऊ अभिमुहओ नामगोए अ॥ वृ. ज्ञशरीरोभ्र उरभ्रशब्दार्थज्ञस्य सिद्धशिलातलगतं शरीरमुच्यते, भव्यशरीरोभ्रस्तु यस्तावदुरभ्रशब्दार्थं न जानाति कालान्तरे च ज्ञास्यति तस्य यच्छरीरं, 'तद्वयतिरिक्तश्च' ताभ्यांज्ञशरीरभव्यशरीरोरभ्राभ्यां व्यतिरिक्तोभिन्नः तद्वयतिरिक्तः, च समुच्चये, 'स' तद्वयतिरिक्तः पुनः 'त्रिविध:' त्रिभेदः, त्रैविध्यमेवाह-'एकस्मिन् भवे तस्मिन्नेवातिक्रान्ते भावी एकभविकोयोऽन्तर एव भवे उरभ्रतयोत्पत्स्यते, तथा स एवोरभ्रायर्बन्धानन्तरं बद्धमायुरनेनेति बद्धायुष्क उच्यते, तृतीयमाह-'अभिमुहतो नामगोए यत्ति आर्षत्वादभिमुखनामगोत्रश्च, तत्राभिमुखेसम्मुखे अन्तर्मुहूर्तानन्तरभावितया नामगोत्रे उरभ्रसम्बन्धिनी यस्य स तथोक्तः, अन्तर्मुहूर्तानन्तरमेवोरभ्रभवभावीति गाथार्थः ।। भावोरभ्रमध्ययननामनिबन्धनं चाहनि.[२४६] उरभाउनामगोयं वेयंतो भावओ उ ओरब्भो।
तत्तो समुट्ठियमिणं उरब्भिज्जन्ति अज्झयणं ।। वृ. उरभ्र-ऊरणक: तस्यायुश्च नाम च गोत्रं चोरभ्रायुर्नामगोत्रं, यदुदयादुरभ्रो भवति, वेदयन्' अनुभवन् 'भावतो' भावमाश्रित्योरभ्रः, तुशब्द: पर्यायस्तिकमतमेतदिति विशेषणार्थः, 'ततो' भावोरभ्राद् दृष्टान्ततयेहाभिधेयात्समुत्थितम्-उत्पन्नामिदमिति प्रस्तुतं, यस्मादिति गम्यते, 'उरब्भिज्जति उरभ्रीयं ग्रहादित्वाच्छैषिकठप्रत्ययः 'इती'ति तस्माद् अध्ययनं प्रागुक्तनिरुक्तमुच्यत इति शेष इति गाथार्थः । उरभ्रस्यैव चेह प्रथममुच्यमानत्वाद्वहुवक्तव्यत्वाच्चेत्थमुक्तम्, अन्यथा हि काकिण्यादयोऽपि दृष्टान्ता इहाभिधीयन्ते एव, तथा चाह नियुक्तिकृत्..नि.[२४७] ओरब्भे अ कागिणी अंबए अ ववहार सागरे चेव।
पंचेए दिता उरब्भिज्जंमि अज्झयणे !! वृ.'उरभ्र' उक्तरूप: 'काकिणिः' विंशतिकपर्दकाः 'उरब्भे यत्ति चशब्दस्य भिन्नक्रमत्वात् काकिणिश्च 'अंबए य'त्ति आम्रकं च-आम्रफलं, व्यवहारश्च-क्रयविक्रयरूपो वणिग्धर्मः, चस्य गम्यमानत्वात्, सागरश्च-समुद्रः, च सर्वत्र समुच्चये, एवोऽवधारणे, भिन्नक्रमश्चैवं योज्यते-पञ्चैवैते न तु न्यूनाधिका: 'दृष्टान्ता' उदाहरणानि 'उरभ्रीये' उरभ्रीयनाम्यध्ययन इति गाथार्थः ॥ सम्प्रति यदर्थसाधादुरभ्रस्य दृष्टान्तता तदुपदर्शनायाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org