SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ ૨૨૮ उत्तराध्ययन-मूलसूत्रम्-१-७/१८७ वृ. 'ततो'त्ति ततो रजःसञ्चयात् तको वा सञ्चितरजाः, कर्मणा गुरुरिव गुरु: अधोनरकगामितया कर्मगुरुः, 'जन्तुः' प्राणी 'प्रत्युत्पन्न वर्तमानंतस्मिन्परायणः-तनिष्ठः प्रत्युत्पन्नपरायणः, एतावानेव लोकोऽयं, यावानिन्द्रियगोचरः 'इति नास्तिकमतानुसारितया परलोकनिरपेक्ष इतियावत्, 'अएव्व'त्ति अजः- पशुः, स चेह प्रक्रामादुरभ्रस्तद्वत् 'आगयाएसे'त्ति प्राकृतत्वादागते-प्राप्ते आदेशे-प्राहुणके, एतेन प्रपञ्चितज्ञविनेयानुग्रहयोक्तमेवोरभ्रदृष्टान्तं स्मारयति, किमित्याह-'मरणान्ते' प्राणपरित्यागात्मनि, अवसाने शोचति, किमुक्तं भवति? - यथाऽऽदेशे आगते उरभ्र उक्तनीत्या शोचति, तथाऽयमपि धिङ्मां विषयव्यामोहत उपार्जितगुरुकर्माणं, हा ! क्तेदानीं मया गन्तव्यभित्यादिप्रलापत: खिद्यते, अत्यन्तनास्तिकप्यापि प्रायस्तदा शोकसम्भवादिति सूत्रद्वयार्थः ।। अनेनैहिकापाय उक्तः, सम्प्रति पारभविकमाहमू. ( १८८) तओ आउ परिक्खीणे, चुतदेहा विहिंसगा। .. आसुरियं दिसंबाला, गच्छति अवसा तमं । वृ. 'ततः' शोभनानन्तरं 'तको वा' उपार्जितगुरुकर्मा'आउ'त्ति आयुषि तद्भवसम्बन्धिनि जीविते 'परिक्षीणे' सर्वथा क्षयं गते, कदाचिदायुःक्षयस्याऽऽवीचिमरणेन प्रागपि सम्भवादेवमुच्यते, 'च्युतः' भ्रष्टो देहात्' शरीरात्, पाठान्तरतस्तुच्युतदेहो' अपगतेहत्यशरीरः 'विहिंसकः' विविधप्रकारैः प्राणिघातकः, आसुरियं'ति अविद्यमानसूर्याम्, उपलक्षणत्वाद्ग्रहनक्षत्रवरिहितां च, दिश्यते नारकादित्वेनास्यां संसारीति दिक्ताम्, अर्थात् भावदिशम्, अथवा रौद्रकर्मकारी सर्वोऽप्यसुर उच्यते, ततश्चासुराणामियमासुरी या तामासुरीयां दिशं, नरकगतिमित्यर्थः, 'बालः' अज्ञो गच्छति-याति अवशः' कर्मपरवशो, वचनव्यत्ययाच्च सर्वत्र बहुवचननिर्देशो व्याप्तिख्यापनार्थो वा, यथा नैक एवंविधः किन्तु बहव इति, 'तमं'ति तमोयुक्तत्वात् तमः, देवगतेरप्यसूर्यत्वसम्भवात् तद्वयवच्छेदाय दिशो विशेषणं, ततोऽन्नरकगतिम्, उक्तं हि-"निच्चंधयारतमसा ववगयगहचंदसूरणक्खत्ता" इत्यादिस्वरूपख्यापकं वा द्वितीयं व्याख्यानमिति । मू. (१८९) जहा कागिणीए हेळं, सहस्सं हारए नरो। अपत्थं अंबगं भोच्चा, राया रज्जंतु हारए।। वृ. 'यथा' इत्युदाहरणोपन्यासार्थः, 'काकिण्याः' उक्तरूपायाः 'हेउ'ति हेतोः कारणात् 'सहस्र' दशशतात्मकं, कार्षापणानामिति गम्यते, 'हारयेत्' नाशयेत् 'नरः पुरुषः । अत्रोदाहरण__एगो दमगो, तेन वित्तिं करेंतेन सहस्सं काहावणाण अज्जियं, सो य तंगहाय सत्थेण समं सगिहंपत्थितो, तेन भत्तणिमित्तं रूवगोभिदियब्वो होहित्ति नउलगंएगत्थगोवेउंकागिणीनिमित्तं नियत्तो, सावि कागिणी अनेण हडा, सोऽपि नउलतो अन्नेण दिवो ठविज्जतो, सोविं तं घेत्तूण नट्ठो, पच्छा सो घरं गतो सोयति । एस दिटुंतो, तथा 'अपथ्यं' अहितम् 'आम्रकम्' आम्रफलं 'भुक्त्या' अभ्यवहृत्य 'राजा' इति नृपतिः 'राज्यं' पृथिवीपतित्वं, 'तुः' अवधारणे भिन्नक्रमश्च, तेन हारयेदेव, सम्भवत्येव अस्यापथ्यभोजिनो राज्यहरणमित्यक्षरार्थः । भावार्थस्तु वृद्धसम्प्रदायादवसेयः, स चायम् जहा कस्सइ रनो अंबाजिण्णेण विसूइया जाया, सा तस्स वेज्जेहि महता जत्तेण तिगिच्छिया, भणितो य-जदि पुणो अंबाणि खासि तो विनस्सति, तस्स य अतीव पीयाणि अंबाणि, तेन For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003381
Book TitleAgam Sutra Satik 43 Uttaradhyayanani MoolSutra 4
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages704
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 43, & agam_uttaradhyayan
File Size130 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy