________________
उत्तराध्ययन-मूलसूत्रम्-१-६/१६० तत्र द्विपदं तीर्थकृत चतुष्पदं सरभः अपदं पद्मादिह्रदोत्पन्नं पद्मम्, अचित्तं चिन्तामणिः, मिश्र तीर्थकृदेव राज्याभिषेकादिष्वलंकृतः, प्रतिमहत् यदन्यापेक्षया महदुच्यते, यथा सर्षपाच्चनकश्चनकाद्वदरमित्यादि, भावमहत् प्राधान्यः क्षायिको भावः कालतः पारिणामिकोऽनाद्यन.. न्तजीवाजीवत्वादिरूपत्वात्तस्य आश्रयत: औदयिको बहुतरजीवाश्रयत्वात् तस्य, तथा च वृद्धा:-"आसयओ ओदयितो भावो, तंमि भावे बहुतरा जीवा वटुंति" पारिणामिकाविवक्षया चैतत् सम्भाव्यते, अतः पारिणामिक एवाश्रयतो महान्, अशेषजीवाजीवद्रव्याश्रयत्वात्, प्रस्तुतमर्थमाह-'एतेषाम्' अनन्तरमुक्तानां नामादिमहतां 'प्रतिपक्षो' विपक्षः क्षुल्लकानि भवन्ति, तत्रापि नामस्थापने प्रतीते, द्रव्यतः परमानुः, क्षेत्रतः आकाशप्रदेशः, कालतः समयः, प्राधान्यतः सचित्ताचित्तमिश्रभेदतस्त्रिधा, तत्र सचित्तं द्विपदमाहारकं शरीरं चतुष्पदं सिंह: अपदं लवङ्गपुष्पम, अचित्तं हीरकः, मिश्रं जन्मसमयानन्तरमलंकृतस्तीर्थकृत, प्रतिक्षुल्लकमामलकाद्वदरं बदराच्चनक इत्यादि, भावक्षुल्लकं क्षायिको भावः, उक्तं हि वृद्धः-'सव्वत्थोवा जीवा खाइए भावे वटुंति" सांसारिकसत्त्वापेक्षं चैतद्, अन्यथौपशमिक एव सर्वस्तोकतया भावक्षुल्लक सम्भवतीति गाथार्थः ।। इत्थं क्षुल्लकनिपेक्षमभिधाय निर्ग्रन्थनिक्षेपमाहनि.[२३७] , निक्खेवो नियंठंमि चउव्विहो दुव्विहो य दव्वंमि।
आगमनोआगमओ नोआगमतो य सो तिविहो । वृ.'निक्षेपो' न्यासः 'नियंठंमि'त्ति निर्ग्रन्थे निर्ग्रन्थविषय: 'चतुर्विधो' नामस्थापनाद्रव्यभावभेदात्, तत्र नामस्थापने क्षुण्णे, द्विविधो भवति द्रव्ये आगमनोआगमतश्च, तत्रागमतः प्राग्वत्, नोआगमतश्च 'स' इति निर्ग्रन्थः 'त्रिविधः' त्रिभेद इति गाथार्थः ।। त्रैविध्यमेवाहनि.[२३८] जाणगसरीरभविए तव्वतिरिते य निण्हगाईसुं।
भावंमि नियंठो खलु पंचविहो होइ नायव्यो ।। वृ.'जाणगसरीरभविए'त्ति ज्ञशरीरनिर्ग्रन्थो भव्यशरीरनिर्ग्रन्थश्च पश्चात्कृतपुरस्कृतनिर्ग्रन्थपर्यायतयाऽयं घृतकुम्म इत्यादिन्यायतः प्राग्वद्भावनीयः, तद्वयतिरिक्तश्च निवादिषु, आदिशब्दात् पार्श्वस्थादिपरिग्रहः, भावनिर्ग्रन्थोऽप्यागमतो नोआगमतश्च, तत्रागमतस्तथैव, नोआगमतस्तु स्वत एवाह नियुक्तिकृत-भावे निर्ग्रन्थः, खलुक्यालङ्कारे, पञ्चविधः' पञ्चभेदो भवति ज्ञातव्य इति गाथार्थः ॥ पञ्चविधनिर्ग्रन्थस्वरूपं च वृद्धसम्प्रदायादवसेयं, स चायम्___ नोआगमतो नियंठत्ते वट्टमाणा पञ्च, तंजहा-पुलाए बकुसे कुसीले नियंठे सिणाए। पुलातो पंचविहो, जो आसेवणं प्रति, नानपुलातो दरिसणपुलाओ चरित्तपुलाओ लिंगपुलातो अहासुहुमुलागोत्ति । पुलागो नाम असारो, जहा धन्नेसु पलंजी, एवं नानदंसणचरित्तणिस्सारत्तं जो उवेति सो पुलागो, लिंगपुलागो लिंगाउ पुलागी होतो, अहासुहुमो य एएसु चेव पंचसुवि जो थोव थोवं विराहेति, लद्धिपुलाओ पुन जस्स देविंदसिद्धिसरिसा रिद्धी, सो सिंगणादियकज्जे समुप्पणे चक्कवट्टिपि सबलवाहणं चुण्णेउं समत्थो।
बउसा सरीरोपकरणविभूषाऽनुवर्तिनः ऋद्धिशस्कामाः सातगौरवाश्रिताः अविविक्तपरिवारा: छेदशबलचारित्तजुत्ता निग्गंथा बउसा भण्णंति, ते पंचविहा, तंजहा-आभोगबकुसा अनाभोगबकुसा संवुडबकुसा असंवुडबकुसा अहासुहुमबकुसा । आभोगबकुसा आभोगेन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org