________________
२०९
अध्ययनं-५,[नि. २३५ ]
वृ. 'तत' इति कषायोपशमानन्तरं 'काले' मरणकाले 'अभिप्रेते' अभिरुचिते, कदा च मरणमभिप्रेतम्?, यदा योगानोत्पसर्पयन्ति, 'सड्डि'त्ति प्राग्वत् श्रद्धावान, तादृशमिति भयोत्थं 'अन्तिके समीप गुरूणां मरणस्य वा 'विनयेद्' विनाशयेत्, कम्?-लुनाति लीयन्ते वा तेषु युका इति लोमानि तेषां हर्षो लोमहर्पस्तं-रोमाञ्च, हा ! मम मरणं भविष्यतीति भयाभिप्रायसम्प्राप्यं, किं च-'भेदं' विनाशं देहस्य' शरीरस्य काङ्केदिव काङ्केत्, त्यक्ततत्परिकर्मत्वात्, अथवा 'तालिस'न्ति सुब्ब्यत्ययात् तादृशो यादृशः प्रव्रज्याप्रतिपत्तिकाले संलेखनाकाले वा अन्तकालेऽपि तादृशः श्रद्धावान् सन्, उक्तं हि-'जाए सद्धाए निक्खंतो, परियायट्ठाणमुत्तमं। तमेव अनुपालेज्ज'त्ति, ईदृशश्च परीषहोपसर्गजं लोमहर्प विनयेदिति सम्बन्धः इति सूत्रार्थः ।। मू.(१६०) अह कालंभि संपत्ते, आघायाय समुच्छयं।
सकाममरणं मरति, तिहमन्त्रयरं मुनी। वृ. 'अथे'ति मरणाभिप्रायानन्तरं 'काल' इति मरणकाले सम्प्राप्ते 'निप्फाइया य सीसा' इत्यादिना क्रमेण समायाते आघायाय'त्ति आर्षत्वात् आघातयन् संलेखनादिभिरुपक्रणकारणैः समन्ताद् घातयन्-विनाशयन, कं?-समुच्छ्रयम्-अन्तः कार्मणशरीरं बहिरौदारिकं, यद्वा'समुस्सतं'ति सुब्ब्यत्ययात्समुच्छ्यस्याघाताय-विनाशाय काले सम्प्राप्त-भक्तपरिज्ञेङ्गिनीपादपोपगमानानामन्यतरेण, सूत्रत्वात् सर्वत्र विभक्तिव्यत्ययः, 'मुनिः' तपस्वीति सूत्रार्थ: 11 इतिः परिसमाप्तौ, ब्रवीमिति प्राग्वत् ।। साम्प्रतं नयास्तेऽपि पूर्ववत् ।
अध्ययनं ५ समाप्तम् मुनि दीपरत्नसागरेण संशोधितासम्पादिता उत्तराध्ययनसूत्रे पञ्चमअध्ययनस्य भद्रबाहुस्वामिविरचिता नियुक्तिः एवं शान्त्याचार्यविरचिता टीका परिसमाप्ता ।।
(अध्ययनं-६ क्षुल्लक निर्ग्रन्थीयम् ) वृ.॥ उक्तं पञ्चममध्ययनं, साम्प्रतं षष्ठमारभ्यते, अस्य चायमभिसम्बन्धः-अनन्तराध्ययने मरणविभक्तिरुक्ता, तत्रापि चानन्तरं पण्डितमरणं, तच्च 'विरयाण पंडियं बेंति'त्ति वचनाद्विरतानामेव, न चैते विद्याचरणविकला इति तत्-स्वरूपमनेनोच्यते, इत्यनेन सम्बन्धेनायातस्याध्ययनस्य महापुरस्येव चत्वार्यनुयोगद्वाराणि भवन्तीत्यादिचर्चस्तावद्यावन्नामनिष्पन्ननिक्षेपे क्षुल्लकनिर्ग्रन्थीयमिति नाम, ततः क्षुल्लकस्य निर्ग्रन्थस्य च निक्षेप: कार्यः, तत्र क्षुल्लकस्य विपक्षो महान्, तदपेक्षत्वात् क्षुल्लकस्य, इति तन्निक्षेपे निक्षिप्तमेव तद्भवतीत्यभिप्रायेणाहनि.[ २३६ ] नामं ठवणा दविए खित्ते पहाण पइ भावो।
एएसि महंताणं पडिवक्खो खुल्लया हुंति ॥ वृ.अत्र नामस्थापने क्षुण्णे, महच्छब्दश्च प्रक्रमात् सर्वत्र गम्यते, तत्रागमतो ज्ञाताऽनुपयुक्तो द्रव्यमहत्, नोआगमता ज्ञशरीरभव्यशरीरतद्वयतिरिक्तं द्रव्यमहद् अचित्तमहास्कन्धो दण्डादिकरणेन यश्चतुर्भिः समयैः सकललोकमापूरयति, क्षेत्रमहत् लोकालोकव्याप्याकाशं, कालमहद् अनागताद्धा, प्रधानमहत्त्रिधा-सचित्तमचित्तं मिश्रं च, तत्र सचित्तं द्विपदं चतुष्पदमपदं च, 28/14
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org