SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ २०८ उत्तराध्ययन-मूलसूत्रम्-१-५/१५६ भेदं, क इत्याह-'भिक्खाए वा गिहत्थे वत्ति प्राकृतत्वाद्वचनव्यत्ययेन भिक्षाको वा गृहस्थो वा भावतो यतय एवेतियावत्, अत एवाह-'जे' इति ते शान्त्या-उपशमेन परिनिर्वृताः-शीतीभूता विध्यातकषायानला: शान्तिपरिनिर्वृताः, यद्वा-ये केचन सन्ति' विद्यन्ते परिनिर्वृताः, अत्र च देवो वा स्यादित्येकवचनप्रक्रमेऽपि यद्ववचनाभिधानं तद्याप्यार्थं, ततो न य एक एवेश्वराद्यनुगृहीतः स एव सम्यग्दर्शनादिमानपि दिवं क्रामति किन्तु सर्वोऽपि इत्युक्तं भवतीति सूत्रार्थः ।। एतच्चाकर्ण्य मरणेऽपि यथाभूता महात्मानो भवन्ति तथाऽऽहमू.(१५७) तेसिं सुच्चा सपुज्जाणं, संजयाण वुसीमओ। न संतसंति मरणंते, सीलवंता बहुस्सुआ। वृ. तेषाम्' अनन्तराभिहितस्वरूपाणां भावभिक्षूणां श्रुत्वा' आकर्योक्तरूपस्थानावाप्तिमिति शेषः, कीदृशाम्?-'सत्पूज्यानां' सतां पूजार्हाणां, सती वा पूजा येषां ते सत्पूजास्तेषां 'संयतानां संयमवतां 'वुसीमओ'त्ति प्राग्वत्, 'न संत्रस्यन्ति' नोद्विजन्ते, कदा?-मरणे मरणेन वाऽन्तो मरणान्तरस्तस्मिन् आवीचिमरणोपेक्षया वाऽन्त्यमरणे, प्राकृतत्वाच्च परनिपातः, समुपस्थित इति शेषः, 'शीलवन्तः' चारित्रिणो 'बहश्रुता' विविधागमश्रवणावदातीकृतमतयः, इदमुक्तं भवति-य एवाविदितधार्मिकगतयोऽनुपार्जितधर्माणश्च त एव मरणादुद्विजन्ते, यथाक्वास्माभिर्मृत्वा गन्तव्यमिति, उपार्जितधर्माणस्तु धर्मफलमवगच्छन्तो न कुतोऽप्युद्विजन्ते, यथा-क्वास्माभिर्मृत्वा गन्तव्यं यदुक्तम् '"चरितो निरुपक्लिष्टो धर्मो हि मयेति निर्वृतः स्वस्थः । मरणादपि नोद्विजते कृतकृत्योऽस्मीति धर्मात्मा ॥" इति सूत्रार्थः ।। इत्थं सकामाकाममरणस्वरूपमभिधाय शिष्योपदेशमाहमू. (१५८) तुलिया विसेसमायाय, दयाधम्मस्स खंतिए। विप्पसीइज्ज मेधावी, तहाभूएण अप्पणा॥ वृ. 'तोलयित्वा' परीक्ष्यात्मानं धृतिदाढर्यादिगुणान्वितमिति गम्यते, 'विशेष' प्रक्रमाद्भक्तपरिज्ञादिकं मरणभेदम् ‘आदाय' बुद्धा गृहीत्वाऽभ्युपगम्येतियावत्, दयाप्रधानो धर्मो दयाधर्मो-दविधयतिधर्मरूपः तस्य सम्बन्धिनी या क्षान्तिस्तया, उपलक्षत्वात् मार्दवादिभिश्च, 'विप्रसीदेत्' विशेषेण प्रसन्नो भवेत्, न तु मरणादुद्विजेतेति भावः, 'मेधावी' मर्यादावर्ती 'तथाभूतेन' उपशान्तमोहोदयेन, यदिवा-यथैव मरणकालात्प्रागनाकुलचेता अभूत् मरणकालेऽपि तथैवावस्थितेन तथाभूतेनात्मना स्वयमयमपरकल्पोऽपिविप्रसीदेत्-कषायपङ्कापगमतः स्वच्छतां भजेत् न तु कृतद्वादशवर्षसंलेखनतथाविधतपस्विवन्निजांलीभङ्गादिना कषायितामवलम्बेत मेधावी, किं कृत्वा?-तोलयित्वा बालमरणपण्डितमरणे, ततश्च 'विशेष' बालमरणात् पण्डितमरणस्य विशिष्टत्वलक्षणमादायगृहीत्वा तथा दयाधर्मस्येति, चशब्दस्य गम्यमानत्वात्, दयाधर्मस्य च-यतिधर्मस्य विशेष-शेषधर्मातिशायित्वल क्षणमादायेति सम्बन्धः, कया विप्रसीदेत् ? क्षात्या, तथाभूतेनेति निष्कषायेणात्मनोपलक्षित इति सूत्रार्थः ।। मू.(१५९) तओ काले अभिप्पेए, सड्डी तालीसमंतिए। विनएज्ज लोमहरिसं, भेयं देहस्स कंखए । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003381
Book TitleAgam Sutra Satik 43 Uttaradhyayanani MoolSutra 4
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages704
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 43, & agam_uttaradhyayan
File Size130 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy