________________
अध्ययनं-५,[नि. २३५]
२०७ यक्षः सलोकता यक्षसलोकता ताम्, इयं च देवगतावेव भवतीत्यर्थादेव गतिमिति, अनेन च पण्डितमरणावसरेऽपि प्रसङ्गतो बालपण्डितमरणमुक्तमिति सूत्रार्थः ।। मू.(१५३) अह जे संवुडे भिक्खू, दुण्हमेगयरे सिया।
सव्वदुक्खपहीणे वा, देवं वावि महिड्डिए।। वृ. अथे' त्युपप्रदर्शने 'य' इत्यनुद्दिष्टनिर्देशे 'संवृत्' इति पिहितसमस्ताश्रवद्वार: 'भिक्षु'रिति भावभिक्षः,सचद्वयोरन्यतर:-एकतर: 'स्यात् भवेद, ययोर्द्वयोरन्यतरः स्यात तावाह-सर्वाणिअशेषाणि यानि दुःखानि क्षुत्पिपासेष्टवियोगानिष्टसंयोगादीनि तैः प्रकर्षण-पुनरनुत्पत्त्यात्मकेन हीनो-रहितः सर्वदुःखग्रहीणः, स्यादिति सम्बन्धः, यद्वा-सर्वदुःखानि प्रहीणान्यस्येति सर्वदुःखग्रहीण: आहिताग्न्योदेराकृतिगणत्वात् निष्ठान्तस्य परनिपातः, स च सिद्ध एव, ततः स वा देवो वा, अपिः सम्भावने, सम्भवति हि संहननादिवैकल्यतो मुक्त्यनवाप्तौ देवोऽपि स्यादिति, कीदृग्?-महती ऋद्धिः-सुखादिसम्पदस्येति महद्धिक इति सूत्रार्थः॥आह-गृहीमो देवो वा स्यादिति, यत्र चासौ देवो भवति तत्र कीदृशा आवासा:? कीदृशाश्च देवा? इत्याह___ मू.(१५४) उत्तराई विमोहाई, जुइमंताणुपुवसो।
समाइनाइ जखेहि, आवासाइ जसंसिणो।। मू. (१५५) दीहाउया दित्तिमंता, समिद्धा कामरूविणो।
अहुणोववन्नसंकासा, भुज्जो अच्चिमालिप्पभा। वृ. 'उत्तरा' उपरिवर्तिनोऽनुत्तरविमानख्याः, सर्वोपरिवर्तित्वात्तेषा, विमोहा इवाल्पवेदादिमोहनीयोदयतया विमोहाः, अथवा मोहो द्विधा-द्रव्यतो भावतश्च, द्रव्यतोऽन्धकारो भावतश्च मिथ्यादर्शनादिः, सद्विविधोऽपि सततरत्नोद्योतितत्वेन सम्यग्दर्शनस्यैव च तत्र सम्भवेन विगतो येषु ते विमोहाः, द्युतिः-दीप्तिरन्यातिशायिनी विद्यते येषु ते द्युतिमन्तः, 'अनुपुव्वसो'त्ति प्राग्वदनुपूर्वत: क्रमेण विमोहादिविशेषणविशिष्टाः, सौधर्मादिषु ह्यनुत्तरविमानावसानेषु पूर्वपूर्वापेक्षया प्रकर्षवन्त्येव विमोहत्वादीनि, 'समाकीर्णा' व्याप्ता 'यक्षैः देवेः, आ-समन्ताद्वसन्ति तेष्वित्यावासाः,प्राकृतत्वाच्च सर्वत्र नपंसकतया निर्देशः, देवास्तु तत्र 'यशस्विनः' श्लाघान्विताः, दीर्घसागरोपमपरिमिततया आयुरेषामिति दीर्घायुषः, 'ऋद्धिमन्तो' रत्नादिसम्पदुपेताः 'समिद्धा' अतिदीप्ताः, कामरूपिणः' काम:-अभिलाषस्तेन रूपाणि कामरूपाणि तद्वन्तः, विविधवैक्रियक्त्यन्विता इत्यर्थः, न चैतदनुत्तरेष्वनुपपन्न विशेषणमिति वाच्यं, विकरणशक्तेस्तत्रापि सत्त्वात्, 'अधुनापपन्नसङ्काशाः' प्रथमोत्पन्नदेवतुल्याः, अनुत्तरेषु हि वर्णद्युत्यादि यावदायूस्तुल्यमेव भवति, भूयोऽचिमालिप्रभा' इति, भूयःशब्दः प्राचुर्ये, ततः प्रभूतादित्यदीप्तयो न ह्येकस्यैवादित्यस्य तादृशी द्युतिरस्तीति भूयोग्रहणमिति सूत्रार्थः । उपसंहर्तुमाहमू.(१५६) तानि ठाणाइ गच्छंति, सिक्खित्ता संजमंतवं।
भिक्खाए वा गिहत्थे वा, जे संतिपरिनिब्बुडा ।। वृ.'तानि' अभिहितरूपाणि तिष्ठन्त्येषु सुकृतिनो जन्तव इति स्थानानि-आवासात्मकानि 'गच्छन्ति' यान्ति, उपलक्षणत्वाद्गता गमिष्यन्ति च, उपलक्षणं चैतत् सौधर्मादिगमनस्य, तत्रापि तेषां केषाञ्चिद्गमनसम्भवात्, 'शिक्षित्वा' अभ्यस्य संयम' सप्तदेशभेदं तपो' द्वादश
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org