________________
२००
उत्तराध्ययन-मूलसूत्रम्-१-५/१३४ न हि विषादीनि मुखमधुराण्यप्यायतिविरसतया विवेकभिर्नहीयन्ते, यदपि परलोकसन्देहाभिधानं तदपि न पापपरिहारोपदेशं प्रति बाधकं, पापानुष्ठानस्येहैव चौरपारदारिकादिषु. महानर्थहेतुतया दर्शनात्, परलोकनास्तित्वानिश्चये च तत्रापि तथानर्थहेतुतया सम्भाव्यमानत्वावल्मीककरप्रवेशनादिवत्प्रेक्षावद्भिः परिहर्तुमुचितत्वात्, न च परलोकास्तित्वं प्रति सन्देहः, तनिश्चायकानुमानस्य तदहर्जातबालकस्तनाभिलाषादिलिङ्गवलोत्पत्रास्य तथाविधाध्यक्षवदव्यभिचारित्वेन तत्र तत्र समर्थितत्वादित्यलं प्रसङ्गेनेति सूत्रार्थः ।। अन्यस्तु कथञ्चिदुत्पादितप्रत्ययोऽपि कामान् परिहर्तुमशक्नुवन्निदमाहयू. ( १३५) जनेन सद्धि होस्खामि, इति बाले पगभइ ।
काम भोगानुरागेणं, केसं संपडिवज्जइ ।। वृ. जायत इति जनो-लोकस्तेन 'सार्द्ध' सह भविष्यामि, किमुक्तं भवति ?-बहुर्जनो भोगासङ्गी तदहमपि तद्गति गमिष्यामि, यद्वा होक्खामि'त्ति भोक्ष्यामि-पालयिष्यामि, यथा ह्ययं जनः कलत्रादिकं पालयति तथाऽहमपि, न हीयान् जनोऽज्ञ इति 'बाल:' अज्ञः 'प्रगल्भते' धाष्टर्यमवलम्बते, अलीकवाचालतया च स्वयंनष्टः परानपि नाशयति, न विवेचयति यथाकिन्मुन्मार्गप्रस्थितेनाविवेकिजनेन बहुनाऽपि? मम विवेकिनः प्रमाणीकृतेन ?, स्वकृतकर्मफलभुजो हि जन्तवः, स चैवं कामभोगेषु-उक्तरूपेषु अनुरागः-अभिष्वङ्ग कामभोगानुराग:-तेन ‘क्लेशम्' इह परत्र च विविधबाधात्मकं 'सम्प्रतिपद्यते' प्राप्नोतीति सूत्रार्थः ।। यथा च कामभोगानुरागेण क्लेशं संप्रतिपद्यते तथा वक्तुमाहमू.(१३६) तओ दंडं समारभति तसेसुं थावरेसु य।
अट्ठाए य अनहाए, भूयगामं विहिंसइ ।। वृ.'तत' इति कामभोगानुरागात् से' इति स धाष्टर्यवान् दण्डयते संयमसर्वस्वापहरणेनात्मा अनेनति दण्डो-मनोदण्डादस्ति 'समारभते' प्रवर्तत इति, केषु ?-त्रस्यन्ति-तापाद्युपतप्तौ छायादिकं प्रत्यभिसर्पन्तीति त्रसाः-द्वीन्द्रियादयस्तेषु, तथा शीतातपाद्युपहता अपि स्थानान्तरं प्रत्यनभिसर्पितया स्थानशीला: स्थावरास्तेषु च, अर्थः-प्रयोजनं वित्तावाप्त्यादिः तदर्थमर्थाय, चत्य स्वयहितसम्बन्धत्वात् अनर्थाय च-यदात्मनः सुहृदादेर्वा नोपयुज्यते, ननु किमनर्थमपि कश्चिद्दण्डं समारमते, एवमेतत् तथाविधपशुपालवत्। __ तत्र सम्प्रदायः-यथैकः पशुपाल: प्रतिदिनं मध्याह्नगते रवौ अजासुमहान्यग्रोधतरूं समाश्रि-- तासु तत्थात्ताणतो निविण्णो वेणुविदलेण अजोद्गीर्णकोलास्थिभिः तस्य वटस्य पत्राणि छिद्रीकुर्वन तिष्ठति, एवं तेन स वटपादपः प्रायसश्छिद्रपत्रीकृतः, अन्नया तत्थेगो रायपुत्तो दातियधाडितो तच्छायसमस्सितो यतस्स बडस्स सर्वाणि पत्राणि छिद्रतानि, तो तेन सो पसुपालतो पुच्छितो-केणेयाणि पत्राणि छिद्दीकयाणि?, तेन भण्णइ-मया, एयाणि क्रीडापूर्व छिद्रितानि, तेन सो बहणा दव्वजाणए बिलोभेउं भण्णति-सक्केसि जस्साहं भणामि तस्स अच्छीणि छिद्देउं ?, तेन भण्णति-छुड अब्भासत्थो होउ तो सक्केमि, तेन नयरं नीतो, रायमग्गसन्निविटे घरे ठवितो, तस्स रायपत्तस्स भाया राया, सो तेन मग्गेण अस्सवाहणियाए निज्जइ, एएण भण्णति-एयस्स अच्छीणि पाडेहित्ति, तेन य गोलियधणुयएण भण्णति-ब्रूहि वरं, कि ते
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org