________________
-
-
-
अध्ययनं-५,[ नि. २३५] काम एव म्रियते इति सूत्रार्थः । इदमेव ग्रहणकवाक्यं प्रयञ्चयितुमाहमू.(१३३) जे गिद्धे कामभोगेसु, एगे कूडाय गच्छइ ।
नमे दिवे परे लोए, चक्खुदिट्ठा इमारती॥ वृ. 'य' इत्यनिर्दिष्टस्वरूपो गृद्धः, काम्यन्त इति कामाः भुज्यन्त इति भोगाः भुज्यन्त इति भोगाः ततश्च कामाश्च ते भोगाश्च कामभोगाः तेषु-अभिलषणीयशब्दादिषु, यद्वा कामौ च शब्दरूपाख्यौ भोगाश्च स्पर्शरसगन्धारूपा: कामभोगाः तेषु, उक्तं हि-"कामा दुविहा पत्रत्तासद्दारूवा य, भोगा तिविहा पन्नत्ता, तंजहा-गंधाररसा फासा य"त्ति, 'एक:' कश्चित् क्रूरकर्मा तन्मध्यात् कूटमिव-प्रभूतप्राणिनां यातनाहेतुत्वान्नरक इत्यर्थः, यथैव हि कूटनिपतितो मृगो व्याधैरनेका हन्यते, एवं नरकपतितोऽपि जन्तुः परमाधार्मिकैरिति, तस्मै कूटाय, गत्यर्थकर्मणि द्वितीयाचतुर्थ्या वित्यादिना चतुर्थी, 'गच्छति' याति, यद्वा यो गृद्धः 'कामभोगेष्वि'ति कामेषुस्त्रीसङ्गेषु भोगेषु-धूपनविलेपनादिषु स 'एकः' सुहृददिसाहाय्यरहितः कूटाय गच्छति, अथवा कूट द्रव्यतो भावतश्च, तत्र द्रव्यतो मृगादिबन्धनं, भावतस्तु मिथ्याभाषणादि, तस्मै गच्छतीत्यनेकार्थत्वात्, प्रवर्तते, सहि मांसादिलोलुपतया मृगादिबन्धनान्यारभते, मिथ्याभाषणादीनि चासेवत इति. प्रेरितश्च केश्चिद्वदति-'न मे' इति न मया 'दृष्टः' अवलोकितः, कोऽसौ ?'परलोको' भूतभाविजन्मात्मकः, कदाचिद्विषयाभिरतिरष्येवंविधैव स्यादत आह-चक्षुषा लोचनेन दृष्टा-प्रतीता चक्षुर्दष्टा ‘इय'मिति तामेव प्रत्यक्षां निदिशति, रम्यतेऽस्यामिति रतिःस्पर्शनादिसम्भोगजनिता चित्तप्रहृत्तिः, तस्यायमाशयः-कथं दृष्टपरित्यागतोऽदृष्टपरिकल्पनयाऽऽत्मानं विप्रलभेयमिति सूत्रार्थः ।। पुनस्तदाशयमेवाभिव्यञ्जयितुमाहमू.(१३४) हत्थागया इमे कामा, कालिया जे अनागया।
को जाणइ परे लोए?, अत्थि वा नत्थि वा पुनो। वृ. हसन्ति तेनावृत्य मुखं घ्नन्ति वा धात्यमनेनेति हस्तस्तम् आगताः-प्राप्ताः हस्तागताः, उपमार्थोऽत्र गम्यते, ततो हस्तागता इव स्वाधीनतया, क एते ?, 'इमे' प्रत्यक्षोपलभ्यमानाः काम्यन्त इति कामा:-शब्दादयः, कदाचिदागामिनोऽप्येबंविधा एव स्युरित्याह-काले सम्भवन्तीति कालिका:-अनिश्चितकालान्तरप्राप्तयो ये 'अनागता' भाविजन्मसम्बन्धिनः, कथं पुनरमी अनिश्चितप्राप्तय इत्याह-'को जाणइत्ति उत्तरस्य पुनःशब्दस्येह सम्बन्धानत् कः पुनर्जानाति?, नैव कश्चित, यथा-परलोकोऽस्ति नास्ति वेति, अयं चास्याशयः-परलोकस्य सुकृतादिकर्मणां वाऽस्तित्वनिश्चयेऽपि 'को हि हस्तगतं द्रव्यं पादगामि करिष्यति'ति न्यायतः क इव हस्तागतान् कामानपहाय कालिककामार्थं यतेत, तत्त्वतस्तु परलोकनिश्चय एव न समस्ति, तत्र प्रत्यक्षस्याप्रवृत्तेः, अनुमानस्य तु प्रवृत्तावपि गोपालघटिकादिधूमाग्नयनुमानवदन्यथाऽप्युलम्भनात्रिश्चायकत्वासम्भवान्न ततस्तदस्तित्वनिश्चयो नास्तित्वनिश्चयो वा, किन्तु सन्देह एव, न त्वयमेवं विवेचयति-यथाऽवाप्ता अपि कामा दुरन्ततया त्युक्तुचिताः, दुरन्तत्वं च तेषां शल्यविषादिभिरुदाहरणे: प्रतीतमेव, तथा च वक्ष्यति
"सलं कामा विसं कामा, कामा आसीविसोवमा । वामे पत्थेमाणा, अकामा जंति दुग्गति ।।"
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org