________________
उत्तराध्ययन-मूलसूत्रम्-१-५/१२९ एकोऽद्वितीयः, स च तीर्थकृदेव, शेषं प्राग्वदिति सूत्रार्थः ।। यदुदाहृतवांस्तदेवाहमू. (१३०) संतिमे य दुवे द्वाणा, अक्खाया मारणंतिया।
__ अकाममरणं चेव, सकाममरणं तहा।। व.सन्तीति प्राकृतत्वात् वचनव्यत्ययेन स्तो-विद्यते 'इमे' प्रत्यक्षे, च: पुरणे, पठ्यते च 'संतिमेए'त्ति स्त एते, मकारोऽलाक्षणिकः, एवमन्यत्रापि यत्र नोच्यते तत्र भावनीयं, 'द्वे' द्विसङ्खये तिष्ठन्त्यनयोर्जन्तव इति स्थाने 'आख्याते' पुरातनतीर्थकृभिरपि कथिते, अनेन तीर्थकृतां परस्परं वचनाव्याहतिरुपदर्शिता, ते च कीदृशे ?- 'मारणंतिए'त्ति मरणमेवान्तोनिजनिजायुषः पर्यन्तो मरणान्तः तस्मिन् भवे मारणान्तिके, ते एव नामत उपदर्शयति-'अकाममरणम्' उक्तरूपमनन्तरवक्ष्यमाणरूपं च, वक्ष्यमाणापेक्षया चः समुच्चये, एवेति पूरणे, 'सकाममरणम्' उक्तरूपं वक्ष्यमाणस्वरूपं च तथेति सूत्रार्थः ।। केषां पुनरिदं कियत्कालं च? मू.(१३१) बालाणं अकामं तु, मरणं असतिं भवे।
पंडियाणं सकामंतु, उक्कोसेण सतिं भवे ।। वृ.बाला इव बालाः सदसद्विवेकविकलतया तेषाम् 'अकामंतु'त्ति तुशब्दस्यैवकारार्थत्वात् अकाममेव मरणमसकृद्-वारंवारं भवेत्, ते हि विषयाभिष्वङ्गतो मरणमनिच्छन्त एव म्रियन्ते, तत एव च भवाटवीमटन्ति, 'पण्डितानां' चारित्रवतां सह कामेन-अभिलाषेण वर्तते इति सकामं मरणं प्रत्यसंत्रस्ततया, तथात्वं चोत्सवूतत्वात् तादृशां मरणस्य, तथा च वाचक:
___ "सञ्चिततपोधनानां नित्यं व्रतनियमसंयमरतानाम्।
उत्सवभूतं मन्ये मरणमनापराधवृत्तीनाम् ॥" न तु परमार्थतः, तेषां सकामं-सकामत्वं, मरणाभिलाषस्यापि निषिद्धत्वाद्, उक्तं हि
___"मा मा हु विंचितेज्जा जीवामि चिरं मरामि य लहुँति ।
जइ इच्छसि तरिडं जे संसारमहोदहिमपारं॥"ति, तुः पूर्वापेक्षया विशेषद्योतकः, तच्च 'उत्कर्षेण' उत्कर्षोपलक्षितं, केवलिसम्बन्धीत्यर्थः, अकेवलिनो हि संयमजीवितं दीर्घमिच्छेयुरपि, मुक्त्यवाप्तिः, इत: स्यादिति, केवलिनस्तु तदपि नेच्छन्ति, आस्तां भवजीवितमिति, तन्मरणस्योत्कर्षेण सकामता 'सकृद्' एकवारमेव भवेत्, जघन्येन तु शेषचारित्रिणः सप्ताष्ट वा वारान् भवेदित्याकूतमिति सूत्रार्थः॥ यदुक्तं-‘स्त इमे द्वे स्थाने' तत्राद्यं तावदाहमू. ( १३२) तत्थिमं पढमं ठाणं, महावीरेण देसियं।
कामगिद्धे जहा बाले, भिसं कूराणि कुव्वति॥ वृ.'तत्रे'ति तयोरकाममरणसकाममरणाख्ययोः स्थानयोर्मध्ये 'इदम्' अनन्तरमभिधास्यमानरूपं प्रथमम्' आद्यं स्थानं, 'महावीरेणे'ति चरमतीर्थकृता, तत्रैको महाप्रज्ञः' इति मुकुलितोक्तेरभिव्यक्त्यर्थमेतत्, 'देशितं' प्ररूपितं, किं तत् इत्याह-'कामेषु' इच्छामदनात्मकेषु 'गृद्धः' अधिकाङ्क्षावान् कामगृद्धो 'यथा' इत्युप्रदर्शनार्थः, 'बाल' इत्युक्तरूपो 'भृशम्' अत्यर्थं 'क्रूराणि' रौद्राणि, कर्माणीति गम्यते, तानि च प्राणव्यपरोपणादीनि 'कुव्वति'त्ति करोतिक्रिययाऽभिनिवर्तयति, शक्तावशक्तावपि क्रूरतया तन्दुलमत्स्यवन्मनसा कृत्वा च प्रक्रमाद
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org