________________
अध्ययनं - ५, [ नि. २३३]
इहैव प्रशस्ता प्रशस्तमरणविभागमाहनि. [ २३४ ]
एगंतपसत्था तिन्नि इत्थ मरणा जिनेहि पत्रत्ता ।
भत्तपरिना इंगिनी पाउवगमनं च कमजिङ्कं ॥
वृ. एकान्तेन नियमेन प्रशस्तानि - श्लाघानि ' त्रीणि' त्रिसङ्ख्यानि 'अत्र' एतेष्वनन्तराभिहितेषु मरणेषु मरणानि 'जिनैः' केवलिभिः 'प्रज्ञप्तानि' प्ररूपितान, तान्येवाह - भक्तपरिज्ञा इङ्गिनी 'पाउवगमनं' चेति पादपोपगमनं च इदमपि त्रयं किमेकरूपमित्याह- क्रमेण परिपाट्य ज्येष्ठम् - अतिशय प्रशस्यं क्रमज्येष्ठं यथोत्तरं प्रधानमतिभावः । शेषमरणान्यपि यानि प्रशस्तानि तेषामत्रैवान्तर्भावः, इतराणि कानिचित् कथञ्चित् प्रशस्तानि, अपराणि तु सर्वथैवाप्रशस्तानीति गाथार्थः ॥ इह च येनाधिकारस्तदाह
नि. [ २३५ ]
इत्थं पुन अहिगारो नायव्वो होइ मणुअमरणेणं । मुत्तुं काममरणं सकाममरणेण मरियव्वं ॥
वृ.
'अत्र' एतेषु मरणेषु, पुनः शब्दो वाक्योपन्यासार्थः, अधिकारो ज्ञातव्यो भवति मनुजमरणेन किमुक्तं भवति ? - मनुष्यभवसम्भविना पण्डितमरणादिना, तान्येव प्रत्युपदेशप्रवृत्तेः । सम्प्रत्युक्तार्थ संक्षेपद्वारेणोपदेशसर्व स्वमाह-मुक्त्वाऽकाममरणं - बालमरणाद्यमप्रशस्तं 'सकाममरणेन' भक्तपरिज्ञादिना प्रशस्तेन मर्तव्यमिति गाथार्थः ॥
Jain Education International
गतो नामनिष्पन्ननिक्षेपः सम्प्रति सूत्रानुगमे सूत्रच्चारणयं तच्चेदम्मू. ( १२९ ) अन्नवंसि महोहंसि, एगे तरइ दुरुत्तरं । तत्थ एगे महापत्रे, इमं पण्हमुदाहरे ।।
वृ. अर्णो - जलं विद्यते यत्रासावर्णवः, अर्नसो लोपश्चेति वप्रत्ययः सकारलोपश्च स च द्रव्यतो जलधिर्भावतश्च संसारः तस्मिन् कीदृशि ? - 'महोघंसि 'त्ति महानोघः - प्रवाहो द्रव्यतो जलसम्बन्धी भावतस्तु भवपरम्परात्मकः प्राणिनामत्यन्तमाकुलीकरणहेतुः चरकादिमतसमूहो वा यस्मिन् स महौघः तस्मिन्, महत्त्वं चोभयत्रागाधतयाऽदष्टपरपारतया च मन्तव्यं, तत्र
'एक' इत्यसहायो रागद्वेषादिसहभावविरहितो गौतमादिरित्यर्थः, 'तरति' परं पारमाप्नोति, तत्कालपेक्षया वर्त्तमाननिर्देश:, 'दुरुत्तरं 'ति विभक्तिव्यत्ययाद्दुरुत्तरे दुःखेनोत्तरितुं शक्ये, दुरुत्तरमिति क्रियाविशेषणं वा न हि यथाऽसौ तरति तथाऽपरैर्गुरुकर्म्मभिः सुखेनैव तीर्यते, अत एव एक इति, सङ्ख्यावचनो वा, एक एव - जिनमतप्रतिपन्नाः, न तु चरकादिमताकुलितचेतसोऽन्ये तथा तरितुमीशत इति, 'तत्रे'ति गौतमादौ तरणप्रवृत्ते 'एक' इति तथाविधतीर्थ करनामकर्मोदयादनुत्तरावासविभूतिरद्वितीयः, किमुक्तं भवति ? - तीर्थकरः, स ह्येक एव भरते सम्भवतीति, 'महापन्ने' त्ति महती - निरावरणतयाऽपरिमाणा प्रज्ञा- केवलज्ञानात्मिका संवित्त अस्येति महाप्रज्ञः, स किं इत्याह- 'इमम्' अनन्तरवक्ष्यमाणं हृदि विपरिवर्तमानतया प्रत्यक्षं प्रक्रमात्तरणोपायं, 'पट्टं' ति स्पष्टम् - असन्दिग्धं, पठ्यते च 'पण्हं'ति पृच्छयत इति प्रश्नं- प्रष्टव्यार्थरूपम् 'उदाहरे' त्ति भूते लिट्, तत उदाहरेद् - उदाहृतवान्, पठ्यते च- 'अन्नवंसि महोघंसि एगे तिने दुरुत्तरं 'ति, अत्र सुब्ब्यत्यये विशेष:, ततश्च- अर्नवान्महौघाद्दुरुत्तरात् तीर्ण इव तीर्णः - तीरप्राप्त इतियोगः, एको धातिकर्म्मसाहित्यरहितः, 'तत्रे'ति सदेवमनुजायां परिषदि,
For Private & Personal Use Only
www.jainelibrary.org
)
१९७
-
"
-