________________
उत्तराध्ययन-मूलसूत्रम्-१-५/१२८ 'आदि' प्रथममावीचिमरणं 'ज्ञेयम्' अवबोद्धव्यं, यावदायुस्तस्य प्रतिपादनात्, शेषाणां त्वायुपोऽन्त्यसमय एवैकत्र भावादनुसमयतानभिधानं, बहुसमयविषयत्वादनुसमयताया,: तथा च वृद्धव्याख्या-"पढमे जाव आउं धरइ सेसाणं एगसमयं जहिं मरइ" न च 'मासं पायोवगया' इत्यागमेन विरोधः, तत्र पादपोपगमनशब्देन निश्चेष्टताया एवाभिधानात्, मरणस्य तु तत्राप्यायुत्रुटिसमय एव सद्भावात्, तुः पूरणे। गतमनुसमयद्वारम्, इदानीं सान्तरद्वारमाह-तत्र प्रथमचरमयोरन्तरं-व्यवधानं नास्ति' न विद्यते, प्रथमस्यावीचिमरणस्य सदा सम्भवात्, चरमस्य भवापेक्षया केवलिमरणस्य पुनर्मरणाभावादिति भाव इति गाथार्थः । शेषाणामपि किमेवमित्याहनि.[२३२] सेसाणं मरणाणं नेओ संतरनिरंतरो उगमो।
साई सपज्जवसिया सेसा पढमिल्लुगमनाइ।। वृ.शेषाणां मरणानाम्-अवधिमरणादीनां पञ्चदशानां ज्ञेयः, सहान्तरेण-व्यवधानेन वर्तत इति सान्तरः, निष्क्रान्तोऽन्तरान्निरन्तरश्च, तुःशब्दस्य समुच्चयार्थत्वात्, उक्तं हि-"तुशब्दो विशेषणपादपूरणावधारणसमुच्चयेषु" कोऽसौ ?-गम्यते अनेन वस्तुस्वरूपमिति गम:प्ररूपणा, इदमुक्तं भवति-यदाऽन्यतरद्वालमरणादिकं प्राप्य म्रियते मृत्वा च भवान्तरे मरणान्तरमनुभूय पुनस्तदेवाप्नोति तदा सान्तरमिति प्ररूपणा, यदा तु बालमरणादिकमवाप्य पुनस्तदेवाव्यवहितमाप्नोति तदा निरन्तरं भवति, तत्प्ररूपकत्वाच्चेह गमोऽपि सान्तरो निरन्तरश्चेत्युक्तः । सम्प्रति गाथापश्चार्धेन कालद्वारमाह-सादीनि च सपर्यवसितानि च सादिसपर्यवसितानि 'शेषाणि' षोडश वक्ष्यमाणापेक्षया अवधिमरणादीनि, एकसामयिकतायास्तेषाभिहितत्वात्, प्रवाहापेक्षया तु शेषभङ्गोपलक्षणमेतत्, प्रवाहतोऽपि भङ्गत्रयपतितानि शेषमरणानि सम्भवन्ति, तथा च वृद्धाः-"बालमरणाणि अनाइयाणि वा अपज्जसियाणि वा, अनादियाणि वा सपज्जवसियाणि, पंडियमरणाणि पुण साइयाणि सपज्जवसियाणि" मुक्त्यवाप्तौ तदुच्छित्तिसम्भवादिति भावः, पढमिल्लुग'ति प्रथमकम्-आवीचिमरणम् 'अनादि' आदिरहितं प्रवाहापेक्षयेतिभावः, प्रतिनियतायुः पुद्गलापेक्षया तु साद्यपि सम्भवति, उपलक्षणत्वाच्चास्यापर्यवसितं च अभव्यानां, भव्यानां पुनः सपर्यवसितमपीति गाथार्थः । सम्प्रत्यतिगम्भीरतामागमस्य दर्शयन्त्रात्मौद्धपरिहारायाह भगवान् नियुक्तिकार:नि.[ २३३] सव्वे एए दारा मरणविभत्तीइ वनिआ कमसो।
सगलनिउणे पयत्थे जिनचउदसपव्वि भासंति ।। वृ. 'सर्वाणि' अशेषाणि 'एतानि' अनन्तरमुपदर्शितानि 'द्वाराणि' अर्थप्रतिपादनमुखानि 'मरणवि भक्तेः' मरणविभक्त्यपरनाम्नोऽस्यैवाध्ययनस्य वर्णितानि'प्ररूपितानि, मयेति शेषः, 'कमसो'त्ति प्राग्वत् क्रमतः, आह-एवं सकलापि मरणवक्तव्यतोक्ता उत नेत्याह-सकलाश्चसमस्ता निपुणाश्च-प्रभवादयो जिनचतुर्दशपूर्विणो भाषन्ते' व्यक्तमधिदधति, अहंतु मन्दमतीत्वान्न तथा वर्णयितुं क्षम इत्यभिप्रायः, स्वयं चतुर्दशपूविणो 'भाषन्ते' व्यक्तभिदधति, अहं तु मन्दमातित्वान्न तथा वर्णयितुं क्षम इत्यभिप्रायः, स्वयं चतुर्दशपूर्वित्वेऽपि यच्चतुर्दशपूर्भुपादानं, तत्तेषामपि षट्स्थानपतितत्वेन शेषमाहात्म्यख्यापनपरदुष्टमेव, भाष्यगाथा वा द्वारगाथाद्यादारभ्य लक्ष्यन्त इति प्रेर्यानवकाश एवेति गाथार्थः ॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org