________________
२०१
अध्ययनं-५,[ नि. २३५ ] प्रयच्छामि?, तेन भण्णति-मज्झ तमेव गामं देहि जत्थ अच्छामि, तेन सो दिनो, पच्छा तेन तम्मि पच्चंतगामे अच्छू रोविओ तुंबीतो य, निष्फन्नेसु तुंबाणि गुले सिद्धिउं तं गुडतुंबयं भुक्त्वा २ गायति स
अट्टमट्टं च सिखिज्जा, सिक्खियं न निरत्थयं ।
__ अट्टमट्टपसाएण, भुंजए गुडतुंबयं । तेन तानि वडपत्ताणि अनट्ठाए छिद्दियाणि, अच्छीणि पुन अट्ठाए पाडियानि। दण्डमारभत इत्युक्तं, तत्किमसावारम्भमात्र एवावतिष्ठते इत्याह-'भूयगाम'ति भूताः-प्राणिनस्तेषां ग्राम:समूहस्तं विविधैः प्रकारैर्हिनस्ति-व्यापादयति, अनेन च दण्डत्रयव्यापार उक्त इति सूत्रार्थः ।। किमसौ कामभोगानुरागेणैतावदेव कुरुते ? उतान्यदपीत्याहमू.(१३७) हिंसे बाले भुसावाई, माईल्ले पिसुने सढे।
भुंजमाणे सुरं मंस, सेयमेयंति मन्नइ । वृ. हिंसनशीलो हिंस्त्रः अनन्तरोक्तनीत्या, तथैवंविधश्च सन्नसौ 'बाल:' उक्तरूपो 'मृषावादी'ति अलीकभाषणशीलः, ‘माईल्ले'त्ति माया-परवञ्चनोपायचिन्ता तद्वान्, 'पिशुनः' परदोषोद्घाटक: 'शठः' तत्तन्नेपथ्यादिकरणतोऽन्यथाभूतमात्मानमन्यथा दर्शयति, मण्डिकचौरवत्, अत एव च भुञ्जानः 'सुरां' मद्यं 'मांसं' पिशितं 'श्रेयः' प्रशस्यतरमेतदिति मन्यते, उपलक्षणत्वात् भाषते च-'न मांसभक्षणे दोषो, न मद्ये न च मैथुन'इत्यादि, तदनेन मनसा वचसा कायेन चासत्यत्वमस्योक्तामिति सूत्रार्थः ।। पुनस्तद्वक्तव्यतामेवाहमू.(१३८) कायसा वयसा मत्ते, वित्ते गिद्धे य इत्थिसु।
दुहओ मलं संचिणइ, सिसुनागुब्व मट्टियं ।। वृ.'कायस'त्ति सूत्रत्वात् कायेन-शरीरणे वचसा-वाचा उपलक्षणत्वात् मनसा च 'मत्तो' दृप्तः, तत्र कायमत्तो मदान्धगजवत् यतस्ततः प्रवृत्तिमान्, यद्वाऽहोऽहं बलवान् रूपवान् वेति चिन्तयन् वचसा स्वगुणान् ख्यापयन् अहोऽहं सुस्वर इत्यादि वा चिन्तयन्, मनसा च मदाध्मातमानस: अहोऽहमवधारणाशक्तिमानिति वामन्वानो 'वित्ते' द्रविने 'गृद्धो' गृद्धिमान्, चशब्दोभिन्नक्रमः, ततः स्त्रीषु च गृद्धः, तत्र वित्ते गृद्ध इति अदत्तादानपरिग्रहोपलक्षणं, तद्भावभावित्यात्तयोः, स्त्रीषु गृद्ध इत्यनेन मैथुनासेवित्वमुक्तं, स हि स्त्रियः संसारसर्वस्वभूता इति मन्यते, तथा च तद्वचः
"सत्यं वच्मि हितं वच्मि, सारं वच्मि पुनः पुनः।
अस्मिन्नसारे संसारे, सारं सारङ्गलोचनाः॥" तदभिरतिमांश्च मैथुनासेव्येय भवति, स एवंविधः किमित्याह-'दुहतो'त्ति द्विधा-द्वाभ्यां रागद्वेषात्मकाभ्यां बहिरन्तः प्रवृत्त्यात्मकाभ्यां वा प्रकाराभ्यां, सूत्रत्वाद्विविधं वा इहलोकपरलोकवेदनीयतया पुण्यपापात्मकतया वा, 'मूलम्' अष्टप्रकारं कर्मा 'संचिनोत्ति' बन्धाति, क इव किमित्याह-'शिशुनागो'गण्डूपदोऽलस उच्यते, स इव मृत्तिकां, स हि स्निग्धतनुतया बही रेणुभिरवगुण्डयते, तामेव चाश्नीते इति बहिरन्तश्च द्विधापि मलमुपचिनोति, तथाऽयमपि, एतदृष्टान्ताभिधाने त्वयभिप्रायो-यथाऽसौ बहिरन्तश्चोपचितमलः खरतरदिवाकरकरनिकर
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org