________________
अन्यत्र
उत्तराध्ययन- मूलसूत्रम् - १-४ / १२८ नियतकालमेवोतान्यथेत्याह- यावच्छरीरात् औदारिकात्पञ्चप्रकाराद्वा भेदः - पृथग्भावः शरीरभेदो, मरणं विमुक्तिर्वेतियावद्, अनेनेहैव समुत्थानं कामप्रहाणादि च तत्त्वतः, तु संवृत्तिमदित्युक्तम्, एवं च काङ्क्षात्मकसम्यक्त्वातिचारपरिहाराभिधानतः समक्त्वशुद्धिर्वेति सूत्रार्थः ॥ इति परिसमाप्तौ ब्रवीमीति पूर्व्ववत्, उक्तोऽनुगमः, सम्प्रति नयाः, ते च पूर्ववत् ॥ अध्ययनं ४ समाप्तम् ।
१८६
मुनि दीपरत्नसागरेण संशोधितं सम्पादितं उत्तराध्ययनसूत्रे तृतीयं अध्ययनं सनिर्युक्तिः सटीकं समाप्तम्
अध्ययनं ५ अकाममरणं
-
वृ. । उक्त चतुर्थमध्ययनं, साम्प्रतं पञ्चममारभ्यते, अस्य चायमभिसम्बन्धः - अनन्तराध्ययने-'काङ्ग्रेत् गुणान् यावच्छरीरस्य भेद' इत्यभिदधता मरणं यावदप्रमादोऽनुवण्णितः, ततो मरणकालेऽप्यप्रमादो विधेयः, स च मरणविभागपरिज्ञानत एव भवति, ततो हि बालमरणादि हेयं हीयते पण्डितमरणादि चोपादेयमुपादीयते, तथा च तत्त्वतोऽप्रमत्तता जायते, इत्यनेन, सम्बन्धेनाऽऽयातस्यास्याध्ययनस्यानुयोगद्वारचतुष्टयमुपवर्ण्यं तावद्यावन्नामनिष्पन्ननिक्षेपे 'अकाममरणीयम्' इति नाम, तत्र च काममरणप्रतिपक्षोऽकाममरणम्, अतः कामानां मरणस्य च निक्षेपः कार्यः तत्र काममरणयोनिक्षेपं प्रतिपादयितुमाह नियुक्तिकृत्
नि. [२०८]
कामाण उनिक्खेवो चउव्विहो छव्विहो य मरणस्स ।
कामा पुव्वुद्दिट्ठा पगयमभिप्पेयकामेहिं ॥
वृ. काम्यन्त इति कामास्तेषां तुः पूरणे निक्षेपश्चतुर्विधः, षड्विधश्च मरणस्य, भवतीत्युभयत्र गम्यते, तत्र कामाः पूर्वोद्दिष्टाः पूर्वं श्रामण्यपूर्वकनाम्नि दशवैकालिकद्वितीयाध्ययने उद्दिष्टा:कथिताः, तत्र तेषामनेकधा वर्णनात्, यैरत्र प्रकृतं तान् दर्शयितुमाह-'प्रकृतम्' अधिकृतम्, 'अभिप्रेतकामै:' इच्छाकामैरिति गाथार्थः ।। षड्विधं मरणमिति यदुक्तं, तत्र नामस्थापने प्रतीते एवेत्यनादृत्य शेषचतुष्टयमाह । अन्ये त्वत्र नामादिर्षाड्वधनिक्षेपोद्देशाभिधायिनीमपि गाथामधीयते, तत्र नामस्थापने प्राग्वत्, द्रव्यादिचतुष्टयाभिव्यञ्जनामर्थमाह
I
नि. [२०९]
दव्वमरणं कुसुंभाइएसु भावि आउक्खओ मुणेयव्वो ।
ओहे भवतब्भविए मनुस्स भविएण अहिगारो ||
वृ. द्रव्यस्य मरणं द्रव्यमरणं, कुसुम्भादिकेषु, आदिशब्दादिनादिपरिग्रहः, यद्यस्य स्वकार्यसाधनंप्रति समर्थं रूपं तत्तस्य जीवितमिति रूढं, तदभावस्तु मरणं, ततश्च कुसुम्भादे रञ्जानादि स्वकार्यसामर्थ्य जीवितं, तदभावस्तु मरणं, तथा च लोके मृतं कुसुम्भकमरञ्जकं, मृतमन्नव्यञ्जनमित्याद्युपदिश्यते, क्षेत्रमरणं तु यस्मिन् क्षेत्रे मरणम्-इङ्गिनीमरणादि वर्ण्यते क्रियते वा, यदा वा तस्य शस्याद्युत्पत्तिक्षमत्वमुपहन्यते तदा तत् क्षेत्रमरणं, कालमरणं यस्मिन् काले मरणमुपवर्ण्यते क्रियते वा, कालस्य वा ग्रहोपरागादिना वृष्टयादिस्वकार्याकरणम्, एते च सुगमत्त्वात्तत्त्वतो द्रव्यमरणाभिन्नत्वाच्च निर्युक्तिकृता पृथग् नोक्ते, यत्तु निक्षेपगाथायां षड्विध इतिवचनात् अनयोर्भेदनाभिधानं तद्विवक्षितवस्तुवैशिष्टयदर्शकं, न हि ताभ्यां विना नियत
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org