________________
अध्ययनं-४,[नि. २०७]
१८५ ततो मन इति सङ्कल्पमपि नकुर्यात्' न विदध्याद् आस्तां तत्प्रवत्तिमिति, अथवा मन्दबुद्धित्वान्मन्दगमनत्वाद्वा मन्दा:-स्त्रिय: ता एव स्पर्शप्रधानत्वात् स्पर्शाः, ततश्च मन्दाश्च स्पर्शाः, बहूनां कामिना लोभनीया:-गृद्धिजनका बहुलोभनीयाः यास्तासु 'तहप्पगारेसु'त्ति लिङ्गव्यत्ययात्तथाप्रकारासु बहुलोभनीयासु मनोऽपि न कुर्याद्, इह च स्त्रीणामेव बहुतरापायहेतुत्वादित्थमुच्यते, तथा चाह
___ "स्पर्शेन्द्रियप्रसक्ताश्च, बलवन्तो मदोत्कटाः ।
हस्तिबन्धकिसंरक्ता, बध्यन्ते भत्तवारणाः ॥"इति एवं च पूर्वसूत्रेण द्वेषस्य परिहार उक्तः, अनेन च रागस्य, स तु कथं भवतीतगत आह'रक्षयेत्' निवारयेत्, कम्?-क्रोधम्' अप्रीतिलक्षणं, 'विनयेत्' अपनयेत् 'मानम्' अहङ्कारात्मकं, 'मायां' परवञ्चनबुद्धिरूपां न कुर्यात्, 'प्रजह्यात्' परित्यजेत् 'लोभम्' अभिष्वयङ्गस्वभावं, तथा चक्रोधमानयोर्तेषात्मकत्वान्मायालोभयोश्च रागरूपत्वात्तन्निग्रह एव तत्परिहतिरिति भावनीयम् । अथवा स्पर्शपरिहारमभिदधता चतुर्थव्रतमुक्तं, तच्च 'अबंभचेरं घोर पमायं दुरहिट्ठमंत्ति वचनान्महाप्रमादरूपस्याब्रह्मणे निरोधकृदिति, तदभिधानाद्धिसादिनिरोधोऽप्युक्त एवेति, अनेनार्थतो मूलगुणाभिधानं, रक्षेत् क्रोधमित्यादिना च पिण्डादिकमयच्छते यच्छते वा न कषायवशगो भवेदित्युत्तरगुणोक्तिरिति सूत्रद्वयार्थः ।। सम्प्रति यदुक्तं-'तम्हा समुट्ठाय पहाय कामे' इत्यादि, तत्कदाचिच्चरकादिष्वपि भवेत् अत आह-यद्वैतावता चारित्रशुद्धिरुक्ता, सा च न सम्यक्त्वविशुद्धिमपहायातस्तदर्शमिदमाहमू.(१२८) जे संखया तुच्छपरप्पवादी, ते पेज्जदोसानुगया परज्झा।
एए अहम्मुत्ति दुगुंछमाणो, कंखे गुणे जाव सरीरभेए। तिबेमि वृ.'ये' इति अनिर्दिष्टस्वरूपाः, संस्कृता इति न तात्त्विकशुद्धिमन्तः किन्तूपचरितवृत्तयः, यद्वा संस्कृतागमप्ररूपकत्वेन संस्कृताः, यथा सौगताः, ते हि स्वागमे निरन्वयोच्छेदमभिधाय पुनस्तेनैव निर्वाहमपश्यन्तः परमार्थतोऽन्वयि द्रव्यरूपमेव सन्तानमुपकल्पयांबभूवुः, साङ्गुयाश्चैकान्तनित्यतामुक्त्वा तत्त्वतः परिणामरूपां चैव पुनराविर्भावतिरोभावावुक्तवन्तो, यथा वा
"उक्तानि प्रतिषिद्धानि, पुनः सम्भावितानी च ।
सापेक्षनिरपेक्षाणि, ऋषिवाक्यान्यनेकशः।।" इतिवचनाद्वचन निषेधनसम्भवादिभिरुपस्कृतस्मृत्यादिशास्त्रा मन्वादयः, अत एव तुच्छ'त्ति तुच्छा यहच्छाभिधायितया निःसाराः परप्पवाइ'त्ति परेच ते स्वतीर्थकव्यतिरिक्ततया प्रवादिनश्चपरप्रवादिनः, ते किमित्याह-'पेज्जदोसाणुगया प्रेमद्वेषाभ्यामनुगताः प्रेमद्वेषानुगताः, तथाहिसर्वथा संवादिनि भगवद्वचसि निरन्वयोच्छेदैकान्तनित्यत्वादिकल्पनं वचननिषेधनसम्भावनादि वान रागद्वेषाभ्यांविनेति भावनीयम्, अत एव च 'परज्झ'त्ति देशीपरत्वात्परवशा रागद्वेषग्रहग्रस्तमानसतया न ते स्वतन्त्राः, यदि त एवंविधास्ततः किमित्याह-'एते' इति अर्हन्मतबाह्याः, अधर्महेतुत्वादधर्मः, 'इती'त्यमुनोल्लेखेन 'दुगुंछमाणो'त्ति जुगुप्समान: उन्मार्गानुयायिनोऽमि इति तत्स्वरूपमवधारयन्, नतु निन्दन्, निन्दायाः सर्वत्र निषेधात्, तदेवंविधश्च किं कुर्यादित्याह'काङ्केत्' अभिलपेत् 'गुणान्' सम्यग्दर्शनचारित्रात्मकान् भगवदागमाभिहितान्, किं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org