________________
१८४
उत्तराध्ययन-मूलसूत्रम्-१-४/१२५ मकारोऽलाक्षणिकः, ततश्चराप्रमत्तः-प्रमादरहितः, इह च प्रमादपरिहारापरिहारयोरैहिकमुदाहरणं वणि'महिला, तत्र च सम्प्रदायः
एगा वणिगमहिला पउत्थपतिया सरीरसुस्सूसापरा दासभयगकम्मकरे निजनिजभियोगेसुन नियोजयति, न यतेसि कालोववनं जहिच्छं आहारं भर्ति वा देति, ते सव्ये नट्ठा, कम्मतपरिहानीए विभवपरिहानी, आगतो वाणियओ एवंमिहं पस्सिऊण पच्छा तेन निच्छूढा । अनं तु पुक्खलेणं सुकेणं वरेति, लद्धाय नेन, तेन तीसे नियगा भण्णंति-जइ अप्पाणं रक्खइ ता परिनैमित्ति, ताए यऽमुणियपरमत्थाए दुग्गयकत्रगाए सोउं नियगा भण्णंति रक्खामि(क्खिहिइ)अप्पगं, सा तेन विवायिा, गतो वाणिज्जेणं, मावि दासभयगकम्मकरातीणं संदेसं दाउं तेसि पुव्वाहिकाइकाले भोयणं देइ, महुराहिं च वायाहि उच्छाहेइ, भई च तेसिं अकालपरिहीनं देइ, न य नियगसरीरसुस्सूसापरा, एवमप्पाणं रक्खंतीए भत्ता उवागओ, सो एवंविहं पस्सिऊण तुट्ठो, तेन सव्वसामिणी कया । इत्थं तावदिहैव गुणायाप्रमादो दोषाय च प्रमादः आस्तामन्यजन्मनीत्यभिप्रायेणात्रैवैहिकोदाहरणाभिधानमिति परिभावनीयमिति सूत्रार्थः ।। प्रमादमूलं च रागद्वेषाविति सोपायं तत्परिहारमाहमू. (१२६) मुहं मुहुं मोहगुणे जयंतं, अनेगरुवा समणं चरंतं ।
फासा फुसंती असमंजसं च, न तेसु भिक्खू मनसा पउस्से ।। वृ.'मुहूर्मुहुः' वारंवारं, सततप्रवृत्त्युपलक्षणमेतत्, मोहयति-जानानमपि जन्तुमाकुलयति प्रवर्तयति चान्यथेहेति मोहः तस्य गुणा: मोहगुणा:-तदुपकारिणः शब्दादयः, तान् ‘जयंत' अभिभवन्तं, किमुक्तं भवति?-अविच्छेदतस्तज्जयप्रवृत्तं यद्वा कथञ्चिन्मोहनीयात्यन्तोदयत एकदा तैः पराजितमपि पुनः पुनस्तज्जयं प्रति प्रवर्तमानं न तु तत एव विमुक्तसंयमोद्योगम्, 'अनेकरूपाः' अनेकमिति-अनेकविधं परुषविषमसंस्थानादिभेदं रूपं-स्वरूपमेषामिति अनेकरूपाः, श्रमणं चरन्तं प्राग्वत्, 'फास'त्ति स्पृशन्ति स्वानि स्वानीन्द्रियाणि गृह्यमाणतया इति स्पर्शा:-शब्दादयस्ते 'स्पृशन्ति' गृह्यमाणतयैव सम्बन्धन्ति, 'असमंजसम्' अननुकूलमिति क्रियाविशेषणमेतत्, चशब्दोऽवधारणे, असमञ्जसमेव, अथवा स्पर्शनविषयाः-स्पर्शाः स्पृशन्ति, स्पर्शोपादानं चास्यैवदुर्व्यत्वाद्यापित्वाच्च, न तेषु' स्पर्शेषु 'भिक्षुः' मुनिः, मनसा उपलक्षणत्वाच्च वाचा कायेन च, यद्वाऽपिशब्दस्य लुप्सनिर्दिष्टत्वान्मनसाऽपि आस्तां वाचा कायेन वा, 'पदूसे'त्ति प्रदूष्येत् प्रदिष्याद्वा, किमुक्तं भवति?-कर्कशसंस्तारकादिस्पर्शादौ हन्तोपतापिता वयमेतेयेति न चिन्तयेत् नैव वा वदेत्परिहरेद्वा तमिति ।। मू.(१२७) मंदा य फासा बहुलोभणिज्जा, तहप्पगारसुमणं न कुंज्जा।
रखेज कोहं विनएज्ज मानं, मायं न सेवेज्ज पहिज्ज लोहं।। वृ. 'मंदा येति सूत्रं, तथा मन्दायन्तीति मन्दाः-हिताहितविवेकिनमपि जनमन्यता नयन्तीतिकृत्वा, चशब्दः पूर्वापेक्षया समुच्चये, स्पर्शाः प्राग्वच्छब्दादयः, बहून् लोभयन्तिविमोहयन्तीति बहुलाभनीयाः 'अन्यत्रापी ति वचनात् कर्त्तर्यनीयः, अनेनात्याक्षेपकत्वमुक्तं, 'तहप्पगारेसुत्ति अपेर्गम्यमानत्वात्तथाप्रकारेष्वतिबहुलोभनीयेष्वपि मृदुस्पर्शमधुरसादिषु 'मनः' चित्तं न कुर्यात्, अथवा धातूनामनेकार्थत्वान्न निवेशयेत्, यद्वा सङ्कल्पात्मकेव मनः,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org