SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ अध्ययनं ४, [ नि. २०७] १८३ - चैवं प्रज्ञाप्यते यथा भद्र! इदानीं भवतस्तत्कालात्पूर्वमसावुक्तहेतुतो न समस्ति, तथोत्तरकालमप्यसौ प्रमादिनस्तव न भवितेति, यदि वा एषा उपमेति-उपेत्युवयोगपूर्वकं मेति ज्ञानमुपमासम्प्रधारणा यदुत पश्चाद्धर्मं करिष्यामः इति शाश्वतवादिनां निरुपक्रमायुषां, ये निरुपक्रमायुष्कतया शाश्वतमिवात्मानं मन्यन्ते तेषां युज्येतापि, न तु जलबुद्रुदसमानायुषां तथा चासावुत्तरकालमपि छन्दो निरोधमनाप्नुवन 'विषीदति' कथमहमकृतसुकृतः सम्प्रत्यनर्वाक् पारं भवाम्भोधिं भ्राम्यान् भविष्यामीत्येवमात्मकं वैक्लव्यमनुभवति, कदा? - शिथिलयति-आत्मप्रदेशान् मुञ्चति 'आयुष' मनुष्यभवोपग्राहिण्यायुः कर्म्मणि, 'कालोवणीय'त्ति कालेनमृत्युना स्वस्थितिक्षयलक्षणेन वा समयेनोपनीतः - उपढौकितः तस्मिन् क्व ? इत्याह- 'शरीरस्य ' औदारिककायात्मकस्य 'भेदे' सर्वपरिशाटत: पृथग्भावे, तदिदमैदम्पर्यम्-आदित एव न प्रमादवद्भिर्भाव्यं, तथा चाह " गमनं किमद्य किं श्वः कदाऽपि वा सर्वथा ध्रुवं क्वापि ? | इति जानन्नपि मूढस्तथापि मोहात्सुखं शेते ।।" इति सूत्रार्थः ॥ किं पुनः पूर्वमिव पश्चादपि छन्दोनिरोधं न लभत इत्याह मू. (१२५) खिप्पं न सक्केइ विवेगमेडं, तम्हा समुद्वाय पहाय कामे । समेच्च लाभं समता महेसी, आयाणरक्खी चरमप्पमत्तो ॥ वृ. ‘क्षिप्रं' तत्क्षण एव 'न शक्नोति' न समर्थो भवति, किं कर्तुम् ? - 'एतुं' गन्तुं प्राप्तुमितियावत्, कम् ? - 'विवेकं' द्रव्यतो बहिः सङ्गपरित्यागरूपं भावतस्तु कषायपरिहारात्मकं, न ह्यकृतपरिकर्म्मा झगिति तत्परित्यागं कर्तुमलम्, अत्रोदाहरणं ब्राह्मणी एगो मरुतो परदेसं गंतूण साहापारतो होऊण सविसयमागतो, तस्सऽन्त्रेण मरुतेन स्वद्धपलालितो काउं दारिकादत्ता, सो य लोए दक्खिणातो लहति, परे विभवे वड्डति तेन सीसे भारियाए सुबहु अलंकारं कारियं, सा निच्चमंडिया अच्छा, तेन भण्णइ एस पच्चंतगामो, ता तुमं एयाणि आभरणगाणि तिहिपव्वणीसु आविधाहि कहिंचोरा उवगच्छेज्जा तो सुहं गोविज्जति, सा भाइ-अहं ताए वेलाए सिग्घभावे अवनेस्संति । अन्नया तत्थ चोरा पडिया, तमेव निच्चमंडियाहिं अनुपविट्ठा, सा तेहिं सालंकिया गहिया, साय पणीयभोयणत्ता मंसोवचित्तपाणीपाया न सक्केइ कडगाईणि अवणेउं, ततो चोरेहिं तीसे हत्थे छेत्तूण अवनीया, गेण्हिउं च निग्गया । एवमन्योऽपि प्रागकृतपरिकर्म्मा न तत्काल एव विवेकमेतुं शक्नोति, मलापध्वंसस्तं तथा सति दूरापास्त एवेति, न च मरुदेव्युदाहरणं तत्राष्यभिधेयम्, आश्चर्यरूपत्वादस्य, न ह्येवं तीव्रभावा बहवः सम्भवन्ति, यत एवं तस्मात् 'सम्' इति सम्यक्प्रवृत्त्या 'उत्थाये 'ति च पश्चाच्छन्दो निरोत्स्याम इत्यालस्यत्यागेनोद्यमं विधाय, तथा 'पहाय कामे 'त्ति प्रकर्षेण मनसाऽपि तदचिन्तनात्मके 'हित्वा' त्यक्त्वा कामान् इच्छामदनात्मकान् 'समेत्य' सम्यग्ज्ञात्वा 'लोकं' समस्तप्राणिसमूहं, कया ? - 'समतया' समशत्रुमित्रतया क्वचिदक्तद्विष्टतयेतियावत्, तथा च महर्षिः, सन् महः-एकान्तोत्सवरूपत्वान्मोक्षस्तमिच्छतीत्येवंशीलो महैषी वा, किमुक्तं भवति ?विषयाभिलाषविगमान्निर्निदानः सन् आत्मानं रक्षत्यपायेभ्यः कुगतिगमनादिभ्य इत्येवंशील आत्मरक्षी, यद्वाऽऽदीयते स्वीक्रियते आत्महितमनेनेत्यादानं :- संयमः तद्रक्षी 'चरमप्पमत्तो' त्ति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003381
Book TitleAgam Sutra Satik 43 Uttaradhyayanani MoolSutra 4
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages704
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 43, & agam_uttaradhyayan
File Size130 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy