________________
१८२
उत्तराध्ययन-मूलसूत्रम्-१-४/१२३ "सव्वत्थ संजमं संजमातो अप्पाणमेव रक्खिज्जा ।
मुच्चइ अइवायातो पुणोऽवि सोही न याविरती ।।" अत्रोदाहरणमाह-अश्वो यथा 'शिक्षितो' वल्गनप्लवनधावनादिशिक्षा ग्राहितो वृणोतिआच्छादयति शरीरकमिति वर्म-अश्वतनुत्राणं तद्धरणशीलो वर्मधारी, शिक्षितश्चासौ वर्मधारी च शिक्षितवर्मधारी, अनेन शिक्षकतव्रतयाऽस्य स्वान्त्र्यापोहमाह, ततोऽयमर्थः- यथाऽश्व: स्वान्त्र्यविरहात्प्रवर्त्तमानः समरशिरसि न वैरिभिरुपहन्यत इति तन्मुक्तिमाप्राप्नोति, स्वतन्त्रस्तु प्रथममशिक्षितो रणमवाप्तस्तैरुपहन्यते, अत्र च सम्प्रदायाः__ एगेन रायणा दोण्हवि कुलपुत्ताणं दो आसा दिन्ना सिक्खावणपोसणत्थं, तत्थेगो कालोचिएण जवसोगासणेणं संरक्खमाणो धावियलालियवग्गियाईयातो कलातो सिक्खावेइ, बीओ को एयस्स इट्टजवसजोगासणं दाहिइत्ति घरेस वाहेइ न तु सिक्खावेइ, सेसं अप्पणा भुंजति। संगामकाले उवट्ठिए ते रत्ना वुत्ता-तेसु चेवास्सेसुआरोढुं झत्ति आगच्छह, संपत्ता, भणिया य राइणापविसह संगामं, तत्थ पढमोऽसि सिक्खागुणत्तणतो सारहियमणुयत्तमाणो संगामपारतो जातो, दुइओ विसिट्ठसिक्खाभावतोऽसब्भावभावणाभावियत्तणओ गोधूमजंतगजुत्त इव तत्थेव भमिउमाढत्तो, तं च परा उवलक्खेउं हयसारहि काऊण गृहीतवन्तः।
दृष्टान्तानुवादपूर्वकोऽयमुपनयः-यथाऽसावश्वः, तथा धर्मार्थ्यपि स्वातन्त्र्यविरहितो मुक्तिमवाप्नोति, अत एव च 'पूर्वाणि' उक्तपरिमाणानि 'वर्षाणि' वत्सराणि, कालात्यन्तसंयोगे द्वितीया, किमित्याह-'चर' इति सततमागमक्रियामासेवस्य, कथम् ? - 'अप्रमत्तः' गुरुपारन्त्र्यापहारिप्रमादपरिहर्ता, 'तम्ह'त्ति तस्मात् अप्रमादचरणादेव, मन्यते जानाति जीवादिनीति मुनिः-तपस्वी 'क्षिप्रं' शीघ्रम् उपैति मोक्षं, ननु छन्दोनिरोधोऽपि तत्त्वतोऽप्रमादात्मक एवेति कथं न पुनरुक्तदोषः?, उच्यते, अप्रमाद एवादरः कार्य इति ख्यापनार्थत्वादध्ययना
र्थोज्जीवनार्थत्वाच्चास्य न पौनरुक्त्यमिति भावनीयं, पूर्वाणि वर्षाणीति च एतावदायुषामेव चारित्रपरिणतिरिति दर्शनार्थमुक्तमिति सूत्रार्थः । ननु यदि छन्दोनिरोधेन मुक्तिः, अयमन्त्यकाल एव तर्हि विधीयतामित्याहशङ्कयाह, यद्वा यदि पश्चान्मलापध्वंसी स्यात् तदैव छन्दोनिरोधादिकपि तद्धेतुभूतमस्त्वत आहमू. (१२४) स पुबमेवं न लभेज्ज पच्छा, एसोवमा सासयवाइयाणं।
विसीदति सिढिले आउयमि, कालोवणीए सरीरस्स भेए॥ वृ. 'स' इति यत्तदोनित्याभिसम्बन्धात् यः प्रथममेवाप्रमत्ततया भावितमतिर्न भवति स तदात्मक छन्दोनिरोधं पुवमेवं'ति एवंशब्दस्यात्रोपमार्थत्वात्पूर्वमिवान्त्यकालात् मलापध्वंससमयाद्वा अभावितमतित्वात्, ‘नलभेत्' न प्राप्नुयात्, सम्भावने लिट्, ततश्च लाभसम्भावनाऽपिन समस्ति, किं पुनस्तल्लाभ इति, ‘पश्चात्' अन्त्यकाले मलापध्वंससमये वा, एसोवम'त्ति एषा-अनन्तरमभिहितस्वरूपा उप-सामीप्येन मीयते-परिच्छिद्यते स्वयंप्रसिद्धया अपरमप्रसिद्ध वस्त्वनयेत्युपमा, केषां?-शाश्वता इव वदितुं शीलमेषामिति शाश्वतवादिनः उष्ट्रक्रोशिवत् कर्तर्युपमाने इति निनिः, तेषां शाश्वतवादिनाम्-आत्मनि मृत्युनियतकालभाविनपश्यताम्, इदमिहाकूतं, यो हि छन्दोनिरोधमुत्तरकालमेव करिष्यामीति वक्ति सोऽवश्यं शाश्वतवादी, स
www.jainelibrary.org
Jain Education International
For Private & Personal Use Only