________________
अध्ययनं-५, [नि. २०१]
१८७
देशत्वादिकं वस्तुनो वैशिष्टयमाख्यातुं शक्यमिति, 'भावे' भावविषये निक्षेपे आयुषो - जीवितस्य क्षयो- ध्वंसः आयुः क्षयो 'मुणितव्यो' ज्ञातव्यो, मरणमित्युपस्कारः, तदपि च त्रिविधम्'ओहे' त्ति ओघमरणं-- सामान्यतः सर्वप्राणिनां प्राणपरित्यागात्मकं भवति, भवमरणं - यन्त्रारकादेर्नरकादिभवविषयतया विवक्षितं, 'तब्भविय'त्ति तद्भविकमरणं यस्मिन्नेव मनुष्य भवाद मृतः पुनस्तस्मिन्नैवोत्पद्य यन्त्रियते इति व्याख्यानिकाभिप्रायो, वृद्धास्तु व्याचक्षेते- 'तं भावमरणं दुविहं- ओघमरणं तब्भवमरणं च, तथा तद्भवमरणस्वरूपं च 'जो जम्मि भवग्गहणे मरइ' । तत्र च 'ओहे तब्भमरणे' इति पाठो लक्ष्यते । इह चैषां येनाधिकारस्तमाह-'मनुस्सभविएणं' ति मनुष्यभवभाविना भवमरणान्तर्वर्त्तिना मनुष्यभविकमरणेनाधिकारः - प्रकृतम्, इति गाथार्थः सम्प्रति विस्तरतो मरणवक्तव्यताविषयं द्वारगाथाद्वयमाह
नि. [२१० ]
नि. [ २११ ]
वृ. तत्र मरणस्य विभक्ति:- विभागस्तस्य प्ररूपणा-प्रदर्शना मरणविभक्तिप्ररूपणा, कार्येति शेष:, अनुभागश्च-रस:, स च तद्विषयस्यायुः कर्म्मणः, तत्रैव तत्संम्भवात्, मरणे हि तदभावात्मनि कथं तत्सम्भव इति भावनीयम्, एवेति पूरणे, तथा प्रदेशानां तद्विषयायुः कर्म्मपुद्गलात्मकानाम् अग्रं परिमाणं प्रदेशाग्रं, वाच्यमिति गम्यते, 'कति' कियन्ति मरणानी, अङ्गीकृत्य इति शेषः, म्रियते प्राणांस्त्यजति, जन्तुरिति गम्यते, 'एगसमयं 'ति सुब्व्यत्ययात् एकस्मिन् समये 'कइखुत्तो 'ति कतिकृत्वः कियतो वारान्, 'वा' समुच्चये, अपि पूरणे, 'एक्केक्कंति' एकैकस्मिन् वक्ष्यमाणभेदे मरणे म्रियते इति योज्यम्, 'मरणे' वक्ष्यमाणभेद एवैकैकस्मिन् 'कतिभागो 'त्ति कतिसङ्ख्यो भागो म्रियते, 'सर्वजीवानाम्' अशेषजीवानाम् ' अनुसमयं 'ति प्रतिसमयं निरन्तरमितियावत्, अन्तरं व्यवधानं सहान्तरेण वर्त्तत इति सान्तरं, वा विकल्पे, किमुक्तं भवति ?एषु कतरन्निरन्तरं सान्तरं वा ?, तथैकैकं 'कियच्चिरं' कियत्परिमाणं कालं सम्भवतीति गाथाद्वयाक्षरार्थः ।। भावार्थं तु स्वत एव वक्ष्यति नियुक्तिकार :-तत्र च 'यथोद्देशं निर्देश' इति न्यायतः प्रथमं द्वारमाश्रित्याह
नि. [ २१२ ]
नि. [ २१३ ]
'वृ. इह च मरणशब्दस्य प्रत्येकमभिसम्बन्धात् आवीचिमरणम् १ अवधिकरणम् २ 'अन्तिय'त्ति आर्षत्त्वादत्यन्तमरणं ३ 'वलायमरणं'ति तत एव वलन्मरणं ४ वार्त्तमरणं च ५ अन्तःशल्यमरणं ६ तद्भवमरणं ७ बालमरणं ८ तथा षण्डितमरणं ९ मिश्रमरणं १० छद्मस्थमरणं ११ केवलिमरणं १२ ‘वेहानसं 'ति तत एव वैहायसमरणं १३ गृध्रपृष्ठमरणं १४ 'मरणं भत्तपरिण्ण'त्ति भक्तपरिज्ञामरणम् १५ इङ्गिनीमरणं १६ षादपोपगमनमरणं १७ चेतिगाथाद्वयार्थः ॥
For Private & Personal Use Only
Jain Education International
मरणविभत्तिरूवण अनुभावो चेव तह पएसग्गं । कइ मरइ एगसमयं ? कइखुत्तो वावि इक्किक्के ? | मरणमि इक्कमिक्के कइभागो मरइ सव्वजीवाणं ? । अनुसमय संतरं वा इक्किक्कं किच्चिरं कालं ? |
आवीचि ओहि अंतिय वलायमरणं वसट्टमरणं च । अंतोसलं तब्भव बालं तह पंडियं मीसं ॥ छउमत्थमरण केवलि वेहाणस गिद्धपिट्ठमरणं च । मरणं भत्तपरित्रा इंगिनी पाओवगमणं च ॥
www.jainelibrary.org