________________
१७८
उत्तराध्ययन- मूलसूत्रम् - १-४ / १२१ किमुक्तं भवति ? - बहुजनप्रवृत्तिदर्शनान्नैतेऽनर्थकारिण इति न विश्रम्भवान् भवेत् 'पण्डितः ' प्राग्वत्, आशु शीघ्रमुचितकर्त्तव्येषु यतितव्यमिति प्रज्ञा - बुद्धिरस्येति - आशुप्रज्ञः, किमिति आशुप्रज्ञः ?, यतो घूर्णयन्तीति घोराः-निरनुकम्पाः, सततमपि प्राणिनां प्राणापहारित्वात्, क एते ?, 'मुहूर्त्ता:' कालविशेषाः, कदाचिच्छारीरवलाद् घोरा अप्यमीन प्रभविष्यन्तीत्यत आह-'अबलं' बलविरहितं न मृत्युदायिनो मुहूर्त्तान् प्रति सामर्थ्यवत्, किं तत् ? - शरीरम्, एवं तर्हि किं कृत्यमित्याह-'भारण्डपक्खीव चरऽप्पमत्तो' इति पतत्यनेनेति पक्षः सोऽस्यास्तीति पक्षी भारण्डश्वासौ पक्षी च भारण्डपक्षी सं यद्वप्रमत्तश्चरति तथा त्वमपि प्रमादरहितश्चर-विहितानुष्ठानमासेवस्व, अन्यथा हि यथाऽस्य भारण्डपक्षिणः पक्ष्यन्तरेण सहान्तर्वर्त्तिसाधारणचरणसम्भवात् स्वल्पमपि प्रमाद्यतोऽवश्यमेव मृत्युः तथा तवापि संयमजीविताद् भ्रंश एव प्रमाद्यत इति सूत्रार्थः ॥ अमुमेवार्थं स्पष्टन्नाह
मू. ( १२२ ) चरे पयाइं परिसंकमाणो, जं किंचि पासं इह मन्त्रमाणो । लाभंतरे जीविय वूहड़ता, पच्छा परिन्नायमलावधंसी ॥
>
वृ. 'चरेत्' गच्छेत 'पदानि' पादविक्षेपरूपाणि 'परिशङ्कमानः' अपायं विगणयन्, किमित्येवमत आह-'यत्किञ्चिद्' गृहस्थसंस्तवाद्यल्पमपि पाशमिव पाशं संयमप्रवृत्ति प्रति स्वातन्त्र्योपरोधितया 'मन्यमानो' जानानः, यद्वा 'चरेदि 'ति संयमाध्वनि यायात्, किं कुर्वन् ? - 'पदानि' स्थानानि, धर्म्मस्येति गम्यते तानि च मूलगुणादीनि 'परिशङ्ककानो' मा ममेह प्रवर्त्तमानस्य मूलगुणेषु मालिन्यं स्खलना वा भविष्यतीति परिभावयन् प्रवर्त्तेत, 'जं किंचि' त्ति यत्किञ्चिदल्पमपि दुश्चिन्तितादि प्रमादपदं मूलगुणादिमालिन्यजनकतया बन्धहेतुत्वेन पाशमिव पाशं मन्यमानः, तदयमुभयत्राभिप्रायः - यथा भारण्डपक्षी अपरसाधारणान्वर्त्तिचरणतया पदानि परिशङ्कमान एव चरति यत्किञ्चिद्दवरकादिकमपि पाशं मन्यमानः, तथाऽप्रमत्तश्चरेत्, ननु यदि परिशङ्कमानश्चरेत्तर्हि सर्वथा जीवितनिरपेक्षेणैव प्रवर्तितव्यं, तत्सापेक्षतायां हि कदाचित्कथञ्चिदुक्तदोषसम्भव इत्याशङ्कयाह- 'लाभंतरे' त्यादि वृत्तार्द्ध, लम्भनं लाभ:- अपूर्वार्थप्राप्तिः अन्तरं-विशेषः, लाभश्चासावन्तरं च लाभान्तरं तस्मिन् सतीत्यर्थः, किमुक्तं भवति ?
यावद्विशिष्टविशिष्टतरसम्यग्ज्ञानदर्शनचारित्रवाप्तिरितः सम्भवति तावदिदं 'जीवितं ' प्राणधारणात्मकं ‘बृंहयित्वा' अन्नपानोपयोगादिना वृद्धिं नीत्वा, तदभावे प्रायस्तदुपक्रमणसम्भ'वादित्थमुक्तं, 'खुहा पिवासा य वाही य'त्ति वचनात् क्षुदादीनामप्युपक्रमणकारणत्वेनाभिधानाद्, इह च बृंहयित्वेवं बृंहयित्वेति व्याख्येयम्, अन्यथा ह्यसंस्कृतं जीवितमिति विरुध्यत इति भावनीयं, ततः किमित्याह-'पश्चात्' लाभविशेषप्राप्त्युत्तरकालं 'परित्राय'त्ति सर्वप्रकारैरवबुध्य यथेदं नेदानीं प्राग्वत्सम्यग्दर्शनादिविशेषहेतुः तथा च नातो निर्जरा, न हि जरया व्याधिना वा अभिभूतं तत् तथाविधधर्माधानं प्रति समर्थम् उक्तं हि-
J
"जरा जाव न पीलेति, वाही जाव न वड्ढति ।
जाविदिया न हायंति, ताव धम्मं समायरे ।। "
एवं ज्ञपरिज्ञया परिज्ञया ततः प्रत्याख्यानपरिज्ञया च भक्तं प्रत्याख्याय, सर्वथा जीवितनिरपेक्षो भूत्वेति भावः, मलवदत्यन्तमात्मनि लीनतया मलः - अष्टप्रकारं कर्म्म तदपध्वंसत
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International