________________
१७४
उत्तराध्ययन-मूलसूत्रम्-१-४/११८ "रोगाघ्रातो दुःखार्दितस्तथा स्वजनपरिवृतोऽतीव । क्वणति करुणं सबाष्पं रुजं निहन्तुं न शक्तौऽसौ ॥१।।
माता भ्राता भगिनी भार्या पुत्रस्तथा च मित्राणि । न घ्नन्ति ते यदि रुजं स्वजनबलं किं वृथा वहसि ? ॥२॥
रोगहरणेऽप्यशक्ताः प्रत्युत धर्मस्य ते तु विघ्नकराः । मरणाच्च न रक्षन्ति स्वजनपराभ्यां किमभ्यधिकम्?।३।। तस्मात् स्वजनस्यार्थे यदिहाकार्यं करोषि निर्लज्ज ।
भोक्तव्यं तस्य फलं परलोकगतेन ते मूढ ! ॥४|| तस्मात् स्वजनस्योपरि सङ्गं परिहाय निर्वृत्तो भूत्वा।
धर्मं कुरुष्व यत्नाद्यत्परलोकस्य पथ्यदनम् ॥५॥ इति सूत्रार्थः । इत्थं तावत् स्वकृतकर्मभ्य: स्वजनात्र मुक्तिरित्युक्तम्, अधुना तु द्रव्यमेव तन्मुक्तये भविष्यतीति कस्यचिदाशयः स्यादत आहमू.(१२०) वित्तेण ताणं न लभे पमत्ते, इममि लोए अदुवा परत्थ।
दीवप्पणढे व अनंतमोहे, नेयाउयं दहमदट्टमेव ।। वृ. वित्तेन' द्रविनेन त्राणं' स्वकृतकर्मणो रक्षणं 'न लभते न प्राप्नोति इति, कोहक?'प्रमत्तः' मद्यादिप्रमादवशगः, क्व?- 'इमंमि'त्ति अस्मिन्ननुभूयमानतया प्रत्यक्ष एवं 'लोके' जन्मनि, 'अदुवे'ति अथवा 'परत्रे'ति परभवे, कथं पुनरिहापि जन्मनि न त्राणाय?, अत्रोच्यते वृद्धसम्प्रदाय:__ एगो किल राया इंदमहाईए कम्हि ऊसवे अत्तपुरे निग्गच्छंते घोसणं घोसावेइ-जहा सव्वे पुरिसा नयरातो निग्गच्छंतु, तत्थ पुरोहियपुत्तो रायवल्लभो वेसाघरमणुपविट्ठो घोसिएऽवि न निग्गतो, सो रायपुरिसेहिं गहितो, तेन वल्लभेण न तेसिं किंचि दाऊण अप्पा विमोइतो, दप्पायमाणो विवदंतो रायसगासमुवणीतो, राइणावि वज्झो आणत्तो, पच्छा पुरोहिओ उवहितो भणतिसव्वस्संपि य देमि मा मारिज्जउ, तोऽवि न मुक्को, सूलाए भित्रो । एवमन्येऽपि न वित्तेन शरणमिहैव तावदाप्नुवन्ति, आस्तामन्यजन्मनि, तन्मूर्छावतः पुनस्तस्याधिकतरं दोषमाह'दीवे'त्यादि वृत्ताई, तत्र च दीवमित्येतत्पदं संस्कारमनपेक्ष्यैव निक्षेप्तुमाह नियुक्तिकृत्नि.[२०६] दुविहो य होइ दीवो दव्वदीवो अ भावदीवो य{
इक्किक्कोऽवि अदुविहो आसासपगासदीवो अ। वृ. 'द्विविधश्च' द्विभेद एव भवति, दीवेति प्राकृतपदोपात्तोऽर्थो, द्रव्यभावभेदात्, तथा चाह-दव्वदीवो य भावदीवो यत्ति, पुनरयमेकैकोऽपि द्विविधः, द्वैविध्यमेवाह-'आसास'त्ति आश्वासयति अत्यन्तमाकुलितानपि जनान् स्वस्थीकरोतीत्याश्वासः, स एव दीवत्तिपदसम्बन्धात् प्राकृतस्य शतमुखत्वादाश्वासद्वप इति भवति, तथा प्रकाशयति-घनतिमिरपटलावगुण्ठितमपि घटादि प्रकटयतीति प्रकाशः, सर्वधातूनां पचादिषु दर्शनात्, स चासौ दीप्यत इति दीपश्च प्रकाशदीपः, स च भवति दीवत्तिपदवाच्य इति गाथार्थः ॥ पुनरनयोरपि भेदमाह
नि.[ २०७] संदीनमसंदीनो संधिअमस्संधिए अबोद्धब्वे।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org