________________
१७५
अध्ययनं-४,[नि. २०७]
आसासपगासे अ भावे दुविहो पुणिक्किको । वृ.संदीयते -जलप्लावनात् क्षयमाप्नोतीति सन्दीन:, तदितरस्त्वसन्दीनः, तथा 'संजोगिमे य'ति संयोगिमः, यस्तैलवय॑न्सिंयोगेन निर्वृत्तः, असंयोगिमश्च तद्विपरीत आदित्यबिम्बादिः स ह्येक एव प्रकाशक इति ज्ञातव्यः' अवबोद्धव्यः, पठ्यते च-'सन्धियमस्सन्धिघ य बोद्धव्वे' इहापि 'सन्धितः संयोजितः, तद्विपरीतस्तु 'असन्धित:' असंयोजितः, आसासपगासे य'त्ति आश्वासद्वीप: प्रकाशदीपश्च, यथाक्रमं चेह सम्बन्धः, तत्राश्वासद्वीपः, सन्दीनासन्दीनः, प्रकाशदीपश्च संयोगिमासंयोगिम इति, अयं च द्रव्यत एवेति व्यामोहापनयनायाह-'भावेऽपि' भावविपयोऽगि, 'दुविह'त्ति द्विधा, 'पुन'रिति प्रथमभेदापेक्षम्, 'एकैकः' इत्याश्वासद्वीपः प्रकाशदीपश्च, इदमुक्तं भवति__यथा द्रव्यतोऽपारनीरधिविमग्नानां कदा कदैतदन्तः स्यात् इत्याकुलितचेतसामाश्वासनहेतुराश्वासद्वीपः, एवं संसारसागरमपारमुत्तरीतुमनसामात्यन्तमुद्वेजितानां भव्यानामाश्वासनहेतुः सम्यग्दर्शनं भावाश्वासद्वीपः, तत्र हि द्रव्यद्वीप इव वीचिभिः कुवादिभिरमी नोह्यन्ते नापि मकरादिभिरवानन्तानुबन्धिभिः क्रोधादिभिरति ट्रैरप्युपद्रूयन्ते, यथा च द्रव्याश्वासद्वीप: प्लाव्यमानतयैक: सन्दीन: तथाऽयमपि भावाश्वासद्वीपः सम्यग्दर्शनात्मकः कश्चित् क्षायोपशमिक औपशमिको वा पुनरनन्तानुबन्ध्युदये मिथ्यात्वोदयेन जलोत्पीलेनेव प्लाव्यते, ततस्तनिबन्धनैर्जलचरैरिवानेकद्वन्द्वैरुपताप्यत इति सन्दीन उच्यते, यस्तु क्षायिकसम्यक्त्वलक्षणो न जलोत्पीलेनेव मिथ्यात्वोदयेनाक्रम्यते अत एव च न तत्स्थस्तन्निबन्धनापायैः कथञ्चिधुज्यते असावसन्दीनो भावद्वीपः, तथा यथैव तमसाऽन्धीकृतानामपि प्रकाशदीपः तत्प्रकाश्यं वस्तु प्रकाशयति एवमज्ञानमोहितानां ज्ञानमपीति भावप्रकाशदीप उच्यते, अयमध्येक: संयोगिमोऽन्यश्चान्यथा, तत्र यः श्रुतज्ञानात्मको भावदीप: अक्षरपदपादश्लोकादिसंहतिनिर्वर्तितः स संयोगिमः, यस्त्वन्यनिरपेक्षा निरपेक्षतया च न संयोगिमः स केवलज्ञानात्मकोऽसंयोगिमो भावदीप इति गाथार्थः ॥ व्याख्यातं सूत्रस्पर्शिकनिर्युक्त्वा 'दीव'त्ति सूत्रपदम्, अत्र च प्रकाशदीपेनाधिकृतं, ततश्च 'दीवप्पणद्वेवत्ति' प्रकर्षेण नष्टो-दृष्टयगोचरतां गतः प्रणष्टो दीपोऽस्येति प्राकृतत्वात्प्रणष्टदीपः, आहिताग्न्यादेराकृतिगणत्वाद्वा दीपप्रणष्टः तद्वदिति दृष्टान्तः, अत्र सम्प्रदाय:___ जहां केइ धातुवाइया सदीवगा अगिंग इंधनं च गहाय बिलमणुपविठ्ठा, सो तेसि पमाएण दीवो अग्गीवि विज्झातो, ततो ते विज्झायदीवग्गीया गुहातममोहिया इतो ततोसव्वतो परिभमंति, परिभमंता अपडियारमहाविसेहिं सप्पेहिं डक्का दुरुत्तरे अहे निवडिया, तत्थेव निहणमुवगता। एवं अनन्तः-अपर्यवसितः, तद्भवापेक्षया प्रायस्तस्यानपगमात, माते येनासौ मोहोज्ञानावरणदर्शनावरणमोहनीयात्मकः, ततश्चानन्तो मोहोऽस्येति अनन्तमोहः, किमित्याह'नेयाउयंति निश्चित आयो-लाभो न्यायो-मुक्तिरित्यर्थः, स प्रयोजनमस्येति नैयायिकस्तं, सम्यग्दर्शनादिकं मुक्तिमार्गमिति गम्यते, 'दट्ट'ति अन्तर्भूतापिशब्दार्थत्वादृष्ट्वाऽपिउपलभ्याप्यदृष्टेव भवति, तद्दर्शनफलाभावात्, अथवा 'अदट्ठमेव'त्ति प्राकृतत्वादद्रष्टैव भवति, इदमात्राकृतम्-यथैष गुहान्तर्गतः प्रमादात् प्रणष्टदीपः प्रथममुपलब्धवस्तुतत्त्वोऽपि दीपाभावे तदद्रष्टैव जायते, तथाऽयमपि जन्तुः कथञ्चित् कर्मक्षयोपशमादेः सम्यग्दर्शननादिकं मुक्तिमार्ग
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org