________________
१७२
उत्तराध्ययन-मूलसूत्रम्-१-४/११८ पातक निमित्तानुष्ठानसेवी, कथं पुनरसौ कृत्यत इति चेद-अत्रोच्यते सम्प्रदाय:एगंमि नयरे एगो चोरो, तेन अभिज्जतो घरगस्स फलगचियस्स पागारकविसीसगसंनिहं खत्तं खणियं, खत्ताणि अनेगागाराणि-कलसागिई नंदावत्तसंठियं पउमागिई पुरिसागिइं च, सो य तं कविसीसगसंठियं खत्तं खणंतो घरसामिए निवेईओ, ततो तेन अद्धपविट्ठो पाएसु गहितो, मा पविट्ठो संतो पहरनेन पहरिस्सतित्ति, पच्छा चोरेणवि बाहिरत्थेण हत्थे गहिओ, सो तेहिं दोहिवि बलवंतेहि उभयहा कड्डिज्जमाणो सयंकिययागारकविसीसगेहिंफालिज्जमाणो अत्ताणो विलवित्ति। ___ एवममुनवोदाहरणदर्शितन्यायेन 'प्रजाः' हे प्राणिनः ! 'पेच्छ'त्ति पेक्षध्वं, प्राकृतत्वाद्वचनव्यत्ययः, एतच्च यत्रापि नोच्यते तत्रापि भावनीयम्, 'इह' अस्मिन् ‘लोके' जन्मनि, आस्तां परलोक इत्यपिशब्दार्थः, 'कृताना' स्वयंविरचितानां कर्मणां' ज्ञानावरणादीनां 'न मोक्षः' न मुक्तिः, ईश्वरादेरपि तद्विमोचनं प्रत्यसामर्थ्याद्, अन्यथा सकलसुखित्वाद्यापत्तेः, इदमुक्तं भवति-यथाऽसावर्थग्रहणवाञ्छया प्रवृत्तः स्वकृतनैव क्षत्रस्वननात्मकोपायेन कृत्यते, न तस्य स्वकृतकर्मणो विमुक्तिः, एवमन्यस्यापि तत्तदनुष्ठानतोऽशुभकारिणो न ततो विमुक्तिः, किन्तु तदिहापि विपच्यत एवेति, पठ्यते च- एवं पया पेच्च इहं च'त्ति, इहापि कृत्यत इति सम्बध्यते, कृत्यत इव कृत्यते तथाविधबाधानुभवनेन, काऽसौ ?-प्रजा, क्व? -'प्रेत्य' परभवे, 'इहंचे'ति इहलोके, किमिति प्रेत्येत्युच्यते-यावता इह कृतमिहैवापगतमत आह-यत् 'कृतानां' कर्मणां मोक्षो नास्ति ।। इह परत्र वा वेद्यमेवावश्यं कर्मेति, अहवा एवं पया पेच्च इहंपि लोए, न कम्मुनो पीहति तो कयाती' एवं प्रजा ! आमन्त्रणपदमेतत्, प्रेत्येह लोके च यतः प्राणिनः कृत्यन्ते 'ता' इति ततो हेतोः 'कदाचित्' कस्मिंश्चित्काले 'ने'ति निषेधे कम्मुणो'त्ति कर्मणे प्रस्तावात् कुत्सितानुष्ठानाय स्पृहयेत्-नाभिलाषमपि कुर्याद् आस्तां तत्करणमित्याकूतं, तदभिलषणस्यापि बहुदोषत्वात्, तथा च वृद्धाः___ एगंमि नयरे एगेन चोरेण रति दुरवगाढे पासाए आरोढुं विमग्गेण खत्तं कयं, सुबहु च दव्वाजायं नीनियं, नियघरं चऽनेन संपावियं । पहायाए रयणीए न्हाय समालद्ध सुद्धं वासो तत्थ गतो, को किं भासतित्ति जाणणत्थं, जइ तावज्ज लोगो मंन यानिस्सइ ता पुनोवि पुवटिइए चोरिस्सामीत्ति संपहारिऊण तंमि य खत्तट्ठाणे गओ, तत्थ य लोगो बहू मिलितो संलवतिकहं दुरारोहे पासए आरोढुं विमग्गेण खत्तं कयं? कहं च खुड्डुलएणं खत्तदुवारेणं पविट्ठो?, पुणो य सह दव्वेण निग्गओत्ति । सो सुणेउंहरिसितोचिंतेइ-सच्चमेयं, किहऽहं एएण निग्गतोत्ति?, अप्पाणो उदरं च कडिं च पलोएउं खत्तमुहं पलोएति।
सो य रायनिउत्तेहिं पुरिसेहिं कुसलेहि जाणितो, रायणो उवनीतो सासितो य ।। एवं पापकर्मणामभिलषणमपि सदोषमिति न विदधीतेति सूत्रार्थः ।। इह कृतानां कर्मणामवन्ध्यत्वमुक्तं, तत्र च कदाचित् स्वजनत एव तन्मुक्तिर्भविष्यति, अमुक्तौ वा विभज्यैवामी धनादिवद् भोक्षयन्त इति कश्चिन्मन्येत अत आहमू.(११९) संसारमावत्र परस्स अट्ठा, साहारणं जंच करेति कम्म।
कम्मस्स ते तस्स उवेयकाले, न बंधवा बंधवयं उवेति॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org