________________
अध्ययनं-४,[नि. २०५]
पहाय ते पास पयट्टिए नरे, वेरानुबद्धा नरयं उवेति ।। वृ. 'य' इति ये केचनाविवक्षितस्वरूपाः 'पापकर्मभिः' इति पापोपादानहेतुभिरनुष्ठानैः 'धनं' द्रव्यं मनुष्याः' मनुजा: तेपामेव प्रायस्तदर्थोपायप्रवर्त्तनादित्थमुक्तं, समाददते' स्वीकुर्वन्ति, 'अमतिम्' इति प्राग्वनञः कुत्सायामपि दर्शनात् कुमतिम्-उक्तरूपां 'गहाय'त्ति गृहीत्वा सम्प्रधार्य, पठ्यते च-'अमयं गहाये'ति अशोभनं मतममतं-नास्तिकादिदर्शनम्, अथवा अमृतमिवामृतम्-आत्मनि परमानन्दोत्पादकतया तच्च प्रक्रमाद्धनं 'पहाय'त्ति प्रकर्षण तन्मध्यादल्पस्याप्यग्रहणात्मकेन हित्वा-त्यक्त्या 'तानि'ति धनैकरसिकान् ‘पश्य' अवलोकय, विनेयमेवाह, 'पयट्टिए'त्ति आर्षत्वात् स्वन एवाशुभानुभावातः प्रवृत्तान् प्रवर्तितान्वा, प्रक्रमात्मपापकर्मोपार्जितधनेनैव, मृत्युमुखमिति गम्यते, 'नरान्' पुरुषान्, पुनरुपादानमादरख्यापकमेकान्तक्षणिकपक्षनिरासार्थं वा, एकान्तक्षणिकपक्षे हि न यैरेव धनमुपाजितं तेषामेव प्रवर्तनं, तथा च बन्धमोक्षाभावश्चेति भावः, एतच्च पश्य वैरं-कर्म 'वेरे' वज्जे य कम्मे य' इति वचनात् तेन अनुबद्धाः-सततमनुगता: 'नरक' रत्नप्रभादिकं नारकनिवासम् 'उपयान्ति' तद्भवभावितया सामीप्येन गच्छन्ति, त एव मृत्युमुखप्रवृत्ता इति प्रक्रमः, यदि वा पाशा इव पाशा:-स्त्र्यादयस्तेषु प्रवृत्तास्तैर्वा प्रवर्तिताः पाशपवृत्ताः पाशप्रवत्तिता वा नरकमुपयान्तीति सम्बन्धः, ते हि द्रव्यमुपाय॑स्त्यादिष्वभिरयन्ते, तदभिरत्वा च नरकगतिभाज एव भवन्तीति भावः, शेषं प्राग्वत्। । तदनेन सूत्रेण धनमिहैव मृत्युहेतुतया परत्र च नरकप्रापकत्वेन तत्त्वतः पुरुषार्थ एव न भवतीति तत्त्यागतो धर्म प्रति मा प्रमादीरित्युक्तं भवति, नरकप्राप्तिलक्षणश्चा पायो न प्रत्यक्षेणावगम्यते (म्यत इतो) हैव मृत्युलक्षणापायदर्शनमुदाहरणं, तत्र च वृद्धसम्प्रदाय:-एगंमि नयरे एगो चोरो, सो रत्ति विभवसंपण्णेसु घरेसु खत्तं खणिउंसुबहुं दविनजायं घेत्तुं अप्पणो घरेगदेसे कूवं सयमेव खणित्ता तत्थ दविनजायं पक्खिवइ, जहिच्छियं च सुक्कं दाऊण कण्णगं विवाहेउं पसूयं संति रत्तिं उद्दवेत्ता तत्थेवागडे पक्खिवइ, मा मे भज्जा चेडरूवाणि य परूढपणयाणि होऊण रयणाणि परस्स पयासेस्संति, एवं कालो वच्चति । अन्नया तेणेगा कन्नया विवाहिया अतीव रूवस्सिणी, सा पसूया संता तेण न मारिया, दारगो य, सो अट्ठवरिसो जाओ, तेन चिंतियं-अइचिरं कालं विधारिया, एयं पुव्वं उद्दवेउं पच्छा दारयं उद्दविस्संति, तेण सा उद्दवेउं अगडे पक्खित्ता, तेण य दारगेण गिहाओ निग्गच्छिऊण धाधाकया, लोगो मिलिओ, तेण भण्णइ-एएण मम माया मारयत्ति, रायपुरिसेहिं सुयं, तेहिं गहितो, दिट्ठो कूवो दव्वभरितो, अट्ठाणि य सूबहूणि, सो बंधिऊण रायसभं समुवणीतो जायणापगारेहि, सव्वं दव्वं दवावेऊण कुमारेण मारितो । एवमन्येऽपि धनं प्रधानमिति तदर्थं प्रवर्त्तमानास्तदपहायैहैवानर्थावापत्तितो नरकमुपयन्तीति सूत्रार्थः॥ इदानीं कर्मणामवन्ध्यतामभिदधत् प्रकृतमेवार्थं द्रढयितुमाहमू.(११८) तेने जहा संधिमुहं गहीए, सकम्मुणा किच्चइ पावकारी।
एवं पया पिच्छ इहं च लोए कडाण कम्माण न मोक्खो अस्थि ।। वृ. 'स्तेन:' चौर: यथेति दृष्टान्तोपदर्शने सन्धिः-क्षत्रं तस्य मुखमिव मुखं-द्वारं तस्मिन् 'गृहीतः' आत्तः 'स्वकर्मणा' आत्मीयानुष्ठानेन, किम् ? -कृत्यते' छिद्यते, 'पापकारी'
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org