________________
-
१७०
उत्तराध्ययन-मूलसूत्रम्-१-४/११६ नि.[ २०४] नोसुयकरणं दुविहं करणं तह य झुंजणाकरणं ।
गुण तवसंजमजोगा झुंजण मनवायकाए य ।। वृ. इच ह नोशब्दस्य सर्वनिषेधाभिधायित्वात् श्रुतकरणं यन्न भवति तन्नोश्रुतकरणं, तच्च द्वेधा-गुणकरणं तथा च' तेनैव नो श्रुतत्वलक्षणेन प्रकारेण याजनाकरणंच, एतत्स्वरूपमाह'गुण'त्ति प्रक्रमाद् गुणकरणं, किमित्याह-तपश्च संयमश्च तप:संयमौ तयोरात्पगुणयोर्योगा:तत्करणरूपा व्यापारास्तप:संयमयोगाः, किमुक्तं भवति?-तपःकरणम्-अनशनादि संयमकरणं 'च-पञ्चाश्रवविरमणादि गुणकरणमुच्यते, गुणत्वं च तप:संयमयोः कर्मनिर्जराहेतुत्वेनात्मोपकारित्वात्, 'झुंजण'त्ति योजनाकरणं 'मणवयणकाए यत्ति चशब्दोऽवधारणे, विषयसप्तमी चेकं, ततो मनोवाक्कायविषयमेव, तत्र मनोविषयं सत्यमनोयोजनाकरणादि चतुर्धा, वाग्विषयमपि सत्यवाग्योजनाकरणादि चतुधैव, कायविषयं त्वौदारिककाययोजनाकरणादि सप्तधा, ततश्च द्वाभ्यां चतुष्काभ्यां सप्तकेन च मीलितेन पञ्चदशविधं योजनाकरणं, योजयति ह्येतत्पञ्चदशविधर्माप कर्मणा सहात्मानमिति, आह च-"मनवयणकायकिरिया पन्नरसविहा उजुंजणाकरण"मिति गाथार्थः । येन करणेनात्र प्रकृतं तदाहनि.[२०५] कम्मगसरीरकरणं आउअकरणं असंखयं तंत्।
तेनऽहिगारो तम्हा उअप्पमा आचरित्नंमि।। वृ. कर्मकशरीरकरणं' कार्मणदेहनिर्वर्त्तनं, तदपि ज्ञानावग्णादिभेदतोऽनेकविधमित्याह'आयुःकरणम्' इति आयुष:-पञ्चमकर्मप्रकृत्यात्मकस्य करणं-निर्वर्तनमायु:करणं, तत्किमित्याह-'असंखयं तं तु'त्ति तत्पुनरायुः करणमसंस्कृतं-नोत्तरकरणेन त्रुटितमपि पटादिवत्सन्धातुं शक्यं, यतः
"फुट्टा तुट्टा व इहं पडमादी संधयंति नयनिउणा।
सा कावि नत्थि नीई संधिज्जइ जीवियं जीए।।" एवं च 'स्वरूपतो हेतुतो विषयतश्च व्याख्ये'ति स्वरूपतो हेतुतश्च 'उत्तरकरणेण कय' मित्यादिना ग्रन्थेन व्याख्यातम्, अनेन त्वायुष्ककरणस्यासंस्कृतत्वोपदर्शनेन विषयतः, इदानी तूपसंहारमाह-'तेनऽहिगारो'त्ति तेने'त्यागुःकर्मणाऽसंस्कृतेनाधिकार:, 'तम्हा उत्ति तस्मात् तुशब्दोऽवधारणार्थः, तस्य च व्यवहितः सम्बन्धः, ततोऽयमर्थः- यस्मादसंस्कृतमायुःकर्म तस्मात् 'अप्रमाद एव' प्रमादाभाव एव, 'चरित्र' इति चरित्रविषयः कर्तव्य इति गाथार्थः ।। एवं च व्याख्यातं संस्कृतम्, एतद्विपरीतं चासंस्कृतमिति।
सम्प्रति सूत्रमनुश्रियते-तत्र चासंस्कृतं जीवितमिति जरोपनीतस्य न त्राणमिति च मा प्रमादीरित्युक्तेऽर्थस्यापि पुरुषार्थतया सकलैहिकामुष्विकफलनिबन्धनतया च तदुपार्जनं प्रत्यप्रमादो विधेय इति केषाञ्चित्कदाशयः, यत आह
"धनेर्दुष्कुलीना: कुलीनाः क्रियन्ते, धनैरेव पापात्पुनर्निस्तरन्ति।
धनिभ्यो विशिष्टो न लोकेऽस्ति कश्चिद्धनान्यर्जयध्वं धनान्यर्जयध्वम् ।।" इति, तन्मतमपाकर्तुमाहमू. (११७) जे पावकम्मेहि धनं मनुस्सा, समाययंती अमति गहाय।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org