SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ अध्ययनं ४, [ नि. २०२] - नि. [२०२] aurरसगंधफासे संठाणे चेव होइ नायव्वं । पंचविहं पंचविहं दुविहऽट्ठविहं च पंचविहं ॥ वृ.वर्णरसगन्धस्पर्शे संस्थाने चैव, उभयत्र विषयसप्तमी, ततो वर्णादिविषयं भवति ज्ञातव्यम्, अजीवकरणमिति प्रक्रमः, तत्र वर्ण: पञ्चविधः - कृष्णादि, रसः पञ्चविधस्तिक्तादिः, गन्धो द्विभेद:- सुरभितिरश्च, स्पर्शोऽष्टविधः - कर्कशादिः, संस्थानं पञ्चविधं परिमण्डलादि, एतद्भेदात्करणमप्येतद्विषयमेतावद्भेदमेव, अत एवाह - 'पञ्चविध' मित्यादि, ननु द्रव्यकरणात्कोऽस्य विशेष: ?, उच्यते, इह पर्यायापेक्षया तथाभवनमभिप्रेतं, द्रव्यकरणे तु द्रव्यस्यैव तथा तथोत्पादो द्रव्यास्तिकमतापेक्षयेति विशेषः, उक्तं च "अपरम्पओगजं (ओ) जं अजीवरूवादि पज्जयावत्थं । तमजीवभावकरणं तप्पज्जा अप्पणावेक्खं ॥१॥ को दव्वविस्ससाकरणाउ विसेसो इमस्स ? ननु भणियं । इह पज्जयऽ वेक्खाए दव्वट्ठियनमयं तं च ॥ २॥" १६९ इति गाथार्थः ॥ उक्तजीवभावकरणं, साम्प्रतं जीवभावकरणमाहनि. [ २०३ ] जीवकरणं तु दुविहं सुयकरणं चेव नो य सुयकरणं । बद्धमबद्धं च सुअं निसीहमनिसीहबद्धं तु ॥ वृ. जीवभावकरणं पुनः, तुशब्दस्य पुनरर्थत्वात्, 'द्विविधं' द्विप्रकारं श्रुतस्य करणं श्रुतकरणं, भावकरणत्वं चास्य श्रुतस्य क्षायोपशमिकभावान्तर्गत्वात् चैवेति पूरणे, 'नो य सुयकरणं 'ति चशब्दस्य व्यवहितसम्बन्धत्वात् नो श्रुतकरणं च । तत्राद्यमभिधित्सुराह-'बद्धं' ग्रथितम् 'अबद्धं च' एतद्विपरीतं 'श्रुते' श्रुतविषयं, करणमिति प्रक्रमः, तत्र च 'निसीहमनिसीहबद्धं तु 'त्ति बद्धं द्विविधं-निशीथमनिशीथं च, तुशब्दश्चानयोरबद्धस्य च लौकिकलोकोत्तरभेदसूचकः, ततश्च निसीथं रहसि यत्पठ्यते व्याख्यायते वा, तच्च लोकोत्तरं निशीथादि लौकिकं बृहदारयकादि, अनिशीथमेतद्विपरीतं तच्च लोकोत्तरमाचारादि लौकिकं पुराणादि, अबद्धमपि लौकिकलोकोत्तरभेदेन द्विभेदमेव, तत्र लोकोत्तरं यथैका मरुदेव्यत्यन्तस्थावरा सिद्धा स्वयम्भूरमणे मत्स्यपद्मयोर्वलयवर्जानि सर्वसंस्थानानि सन्ति, विष्णुकुमारमहर्षेर्योजनलक्षणप्रमाणशरीरविकरणं कुरुडविकुरुड कुणालायां स्थितावतिवृष्टया च तन्नाशः तयोश्चाशुभानुभावात्सप्तमनरकपृथिवीगमनं कृणालानाशाच्च भगवतो वीरस्य त्रयोदशां समायां केवलज्ञानोत्पत्तिरित्यादि अनेकप्रकारमाचार्यपरम्परायातं, लौकिकं त्वबद्धं द्वात्रिंशद्दड्डिकाः षोडश करणानि पञ्च स्थानानि, तद्यथा आलीढं प्रत्यालीढं वैशाखं मण्डलं समपदं च तत्रालीढं दक्षिणं पादमग्रतः कृत्वा वामपादं पृष्ठतः सारयति, अन्तरं द्वयोरपि पादयोः पञ्च पदानि, एतद्विपरीतं तु प्रत्यालीढं, वैशाखं पुनः पाष्ण अभ्यन्तरतः कृत्वा समश्रेण्या व्यवस्थापयति, अग्रिमतलौ बहिर्भूतौ कार्यों, मण्डलं द्वापि पादौ दक्षिणवामतोऽवसार्य उरू आकुञ्चति, यथा मण्डलं भवति, अन्तरं चत्वारी पादानि, समपदं पुनः स्थानं द्वावपि पादौ समौ नैरन्यर्येण स्थापयति, एतानि पञ्च स्थानान्यबद्धानि, शयनकरणं च षष्ठमिति गाथाक्षरार्थः । उक्तं श्रुतकरणमधुना नो श्रुतकरणमाह For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003381
Book TitleAgam Sutra Satik 43 Uttaradhyayanani MoolSutra 4
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages704
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 43, & agam_uttaradhyayan
File Size130 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy