________________
१६७
अध्ययनं-४,[नि. १९४] जीवकरणत्वेनेदमुक्तमित्यदोष इति गाथार्थः ।। अजीवप्रयोगकरणमाहनि.[ १९५] अजियप्पओगकरणं दव्वे वन्नाइयाण पंचण्हं।
चित्तकर(णं) कुसुंभाईसु विभासा उ सेसाणं !! वृ. अस्याक्षरार्थः सुगमः ।। भावार्थस्त्वयं
जं जं निज्जीवाणं कीरइ जीवप्पओगओ तं तं ।
वण्णादि रूवकम्मादि वावि तदजीवकरणन्ति ।। उक्तं द्रव्यकरणं, क्षेत्रकरणमाहनि [ १९६] नविना आगासेणं कीरइ जं किंचि खित्तमागासं।
वंजणपरिआवनं उच्छुकरणमाइअं बहुहा॥ वृ. आह-नित्यत्वात्क्षेत्रस्य करणं न संगच्छते तत्कथं क्षेत्रकरणसम्भवः?, उच्यते, न विनाऽऽकाशेन 'क्रियते' निर्वय॑ते 'यदि ति यस्मात् ‘किञ्चिदपि' अल्पमपि व्यणुकस्कधादि, अतस्तत्प्राधान्याद् द्रव्यकरणमपि क्षेत्रकरणमुच्यते इत्युपस्कारः, ननु यद्याकाशेन विना न किञ्चित् क्रियते तदाऽऽकाशकरणतैवास्तु कथं क्षेत्रकरणता?, उच्यते, 'क्षेत्रम्' इति क्षेत्रशब्दवाच्यमाकाशं, तथा च पर्यायशब्दत्वादनयोरित्थमभिधानमदुष्टमेवेति भावः, तच्च व्यञ्जनंशब्दस्तस्य पर्यायः- अन्यथा च भवनं व्यञ्जनपर्याय: तमापन्न-प्राप्त व्यञ्जनपर्यायापन्नम्, 'उच्छुकरणमाइयं ति प्रक्रमान्मकारस्य चागमिकत्वादिक्षुक्षेत्रकरणादिकं 'बहुधा' बहुप्रकरणम्, एकत्वेऽपि क्षेत्रस्येक्षुक्षेत्रकरणादिरूपेणाभिलापस्य बहुप्रकारत्वात्, तथा च सम्प्रदायः-वंजणपरियावनं नाम जं खेत्तंति अभिलप्पति तंजहा-उच्छुखेत्तकरणं सालिखेत्तकरणं तिलखित्तकरणं एवमादि' अथवा यस्मिन् क्षेत्रे करणं क्रियते वय॑ते वा तत् क्षेत्रकरणमिति गाथार्थः ।। नि.[ १९७] कालो जो जावइओ जं कीरइ जंमि जंमि कालंमि।
ओहणे नामओ पुन हवंति इक्कारसक्करणा॥ वृ. कालो 'यः' समयादिवत्परिमाणः यत्करणनिष्पत्तावपेक्षाकारणत्वेन व्याप्रियते, किमुक्तं भवति?-यस्य भोजनादेर्यावता घटिकाद्वयादिना कालेन निष्पत्तिस्तस्य स एव काल: करणं, तस्यैव तत्र साधकतमत्वेन विवक्षितत्वात्, यदि वा यत्करणं क्रियते' निष्पाद्यते यस्मिन् काले तस्य स एव काल: करणं कालकरणम् अत्राधिकरणसाधनत्वेन विवक्षितत्वात्करणशब्दस्य, 'ओघेने ति नामादिविशेषानपेक्षमेतत्कालकरणं, तथा च वृद्धाः-'कालकरणं जं जावतिएण कालेन कीरति, जंमि वा कालंमि'त्ति, इहापि कालस्याकृत्रिमत्वेन करणासम्भवादित्थमुपन्यासः, नामतः पुनर्भवन्त्येकादश 'करणानि'कालविशेषरूपाणि चतुर्यामप्रमाणानि, करणत्वं चैषां तत्तक्रियासधकतमत्वादिति गाथार्थः॥ कानि पुनस्तानीत्याहनि.[१९८] बवं च बालवं चेव, कोलवं थीविलोअणं ।
गराइ वणियं चेव, विट्ठी हवइ सत्तमी ।। नि.[१९९] सउणि चउप्पयं नागं, किंसुग्घं करणं तहा।
एए चत्तारि धुवा, सेसा करणा चला सत्त ।। वृ. बवं च बालवं चैव कौलवं स्त्रीविलोचनं गरादि वणिजं चैव विष्टिर्भवति सप्तमी ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org