________________
उत्तराध्ययन-मूलसूत्रम्-१-४/११६ पठ्यते च-'इंदियकरणं च तह'त्ति अत्र चैकवचनान्ततया सर्वं व्याख्येयमिति गाथार्थः ॥ अथवाऽन्यथा करणमुच्यतेनि.[ १९२] संघायणपरिसाडणउभयं तिसु दोसु नत्थि संघाओ।
कालंतराइ तिण्हं जहेव सुत्तमि निद्दिटुं। वृ. 'संघायणे'ति संहन्यमानानां-संयुज्यमानानामौदारिकादिपुद्गलानां तैजसकार्मणपुद्गलैः सह यदात्मनस्तत्तत्पुद्गलग्रहणात्मिकासु तदनुकूलक्रियासु वर्तनात्मकं प्रयोजकत्वं सा सङ्घातना, तथा परिः-समन्ताच्छटतां पृथग्भवतामौदारिकादिपुद्गलानां यदात्मनस्तान्प्रति तत्तच्छरीरविमोक्षात्मकं प्रयोजकभवनं सा परिशाटना, उभावभिहिताववयवावस्येति उभयंसङ्घातनापरिशाटनाकरणं। किमिदं त्रयमपि पञ्चस्वप्यौदारिकादिपु अथान्यथेत्याह-त्रिष्वाद्येषु, किमुक्तं भवति?-औदारिकवैक्रियाहारकेषु, 'द्वयोः' तैजसकार्मणयोः, किमित्याह-'नास्ति' न विद्यते, कोऽसौ?-सङ्घातः, तदभावाच्च सङ्घातनापि नास्तीति भावः, सा हि प्रथमत उत्पद्यमानस्य जीवस्य तैलभृततसतापिकाप्रक्षिप्तापूपवत् तैलसदृशानौदारिकादिपुद्गलानाददानस्यैवौदारिकादिष्वपि वर्ण्यते न च तैजसकार्मणयोः प्रथमत उपादानसम्भवः, अनादिसंहतिमत्वात्तयोः, परिशाटना तु शैलेशीचरमसमये, प्रतिसमयं सङ्घातनापरिशाटनोभयं च सम्भवत्येव, कालान्तरादित्रयाणामित्यस्यायमर्थः-त्रयाणां सनातनापरिशाटनोभयेषां काल:-कियत्कालं सङ्घातना परिशाटनोभयं चेत्येवमात्मक: अन्तरं च सङ्घातनायाः सकृदवाप्तौ पुनः कियता कालेनावाप्तिरेवंरूपम, एवं परिशाटनाया उभयस्य च,आदिशब्दात सादित्वानादित्वेच, किमि-- त्याह-'यथैवेति येनैव प्रकारेण 'सूत्रे' सामायिकाध्ययने 'निर्दिष्टा' इति आषात् निर्दिष्ट' प्रतिपादितमिति गाथार्थः । एतच्चातिदिष्टमपिनियुक्तिकृता विनेयानुग्रहार्थ सम्प्रदायत उच्यते,
एयाणि तित्रिवि करणाणि कालतो मग्गिज्जंति-तत्थोरालियसंघायकरणं एगसमइयं, जं पढमसमओवक्त्रगस्स, जहा तेल्ले ओगाहिमतो छूढो तप्पढमयाए आइयति, एवं जीवोऽवि उववज्जंतो पढमें समये गेण्हति ओरालियसरीरपाओग्गाई दव्वाई, न पुन मुंचति किंचिवि, परिसाडणावि समओ, मरणकालसमए एगंततो मुंचति न गिण्हति मज्झिमकाले किचि गेण्हइ किंचि मुंचति, जहण्णेणं खुड्डागं भवग्गहणं तिसमऊणं तिन्नि पलिओवमाई समऊणानि
दो विग्गहमि समया समओ संघायणाय तेहूणं । खुडागभवग्गहणं सव्वजहन्नो ठितीकालो ॥१॥ उक्कोसो समऊणो जो सो संघयणासमयहीणो। किह न दुसमयविहीणो साडणसमए विहीणंमि ॥२॥ भन्नति भवचरिमंमिवि समए संघायसाडणा चेव। परभवपढमे साडणमतो तदूणो न कालोत्ति ।।३।। जइ परपढमे साडो निव्विागहतो य तंमि संघातो।
ननु सव्वसाडसंघायणातो समए विरुद्धातो ॥४॥ आचार्य आह-जम्हा विगच्छमाणं विगयं उप्पज्जमाणमुपन्नं ।
तो परभवादिसमए मोक्खादानान न विरोहो ।।५।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org