________________
अध्ययनं ४, [ नि. १८७ ]
१६३
जीवप्रयोगं निष्पद्यन्ते, निष्पन्नान्यपि च न चक्षुषा वीक्ष्यन्ते इत्यचाक्षुषं विश्रसाकरणम्, अभ्रादिकरणानि तु स्वयं निष्पद्यन्ते चक्षुषा च वीक्ष्यन्त इति चक्षुषं विश्रसाकरणम्, अत्र च पश्चादुद्दिष्टस्यापि यदचाक्षुषस्य प्रथममभिधानं तत्प्राग्वत्पश्चानुपूर्व्येति गाथार्थः ॥ सम्प्रति प्रयोगकरणमाहनि. [ १८८ ] दुविहं पओगकरणं जीवेतर मूल उत्तरं जीवे । मूले पंचसरीरा तिसु अंगोवंगनामं च ॥
वृ. 'द्विविधं' द्विभेदं प्रयोगकरणं 'जीवत्ति' जीवप्रयोगकरणम् 'इयरे'त्ति अजीवप्रयोगकरणं, तत्र जीवेनउपयोगलक्षणेन यदौदारिकाशरीरमभिनिर्वत्र्त्यते तज्जीवप्रयोगकरणं, तच्च द्विधा - मूलकरणमुत्तरकरणं च तत्र 'मूल' इति मूलकरणे विचार्यमाणे 'पञ्च' इति पञ्चसङ्ख्यावच्छिन्नानि विशीर्यन्ते - उत्पत्तिसमयतः प्रभृति पुद्गलविचटनाद्विनश्यन्तीति शरीराणि औदारिकवैक्रियाहारकतै जसकार्म्मणानि, इह च विषयविषयिणोरभेदोपचारेण करणविषयत्वाच्छरीराण्यपि करणमुक्तं, मूलत्वं चोत्तरोत्तरावयवव्यक्त्यपेक्षया, ततश्च यदवयवविभागविरहितमौदारिकशरीराणां प्रथममभिनिर्वर्त्तनं तत् मूलकरणं, 'तिसु अंगोवंगणामं चे 'ति, चशब्दः प्रकृतमनुकर्षति, तच्चेह प्रक्रमादुत्तरकरणमेवानुकृष्यते, ततश्च त्रिषु-औदारिकवैक्रियाहारेषु तैजसकार्म्मणयोस्तदसम्भवादङ्गोपाङ्गनामैवोत्तरकरणमिति सम्बन्ध:, अत्र चाङ्गोपाङ्गनामशब्देनाङ्गोपाङ्गनामकर्म्मनिर्वर्त्तितान्यङ्गोपाङ्गानि गृह्यन्ते, कार्ये कारणोपचारात्, आह च"सज्जीवं मूलुत्तरकरणं मूलकरणं जमादीए । पंच देहाणं उत्तरमादीतियस्सेव ।। "
-
इति गाथार्थ: ।। कानि पुनस्तान्यङ्गानीत्याहनि. [१८९] सीसमुरोयरपिट्ठी दो बाहू अ हुंति ऊरू अ । एए अटुंगा खलु अंगोवंगाइँ सेसाइँ ॥
नि. [१९० ]
हुति उवंगा कन्ना नासऽच्छी जंघ हत्थ पाया य । अंगोवंगा अंगुलिनहके सामंसु एमाइ ॥
वृ. तत्राद्या प्राग्वत्, नवरम् अङ्गोपाङ्गानि उपलक्षणत्वादुपाङ्गानि च शेषाणि तानि वक्ष्यन्त इति शेषः, तत्रोपाङ्गानि कर्णौ नासे अक्षिणी जङ्घे हस्तौ पादौ च अङ्गोपाङ्गानि अंगुलयो नखाः 'केशाः स्मश्रु 'एवमादीनि' एवंप्रकाराण्युत्तरकरणं, वृद्धास्त्वङ्गान्यपि मूलकरणमिति मन्यन्ते, आपेक्षिकत्वाच्च मूलोत्तरत्वयोरुभयथाऽप्यविरोध इति गाथाद्वयार्थः ॥ इदमेवान्यथाऽऽहनि. [१९१] तेसि उत्तरकरणं बोद्धव्वं कण्णखंधमाईयं । इंदियकरणा तानि य उवघायविसोहिओ हुति ।।
वृ. 'तेषाम्' आद्यानां त्रयाणां शरीराणामुत्तरकरणं 'बोद्धव्यम्' अवगन्तव्यं, 'कण्णखंधमादीयं 'ति तत्रौदारिकस्य कर्णयोवृद्धापादनं स्कन्धस्य च मर्दनादिना दृढीकरणम्, आदिशब्दाद्दन्तरागादिकरणपरिग्रहः, एवं वैक्रियस्थापि, आहारकस्य तु नास्त्येव, गमनादिना वा तस्याप्युत्तरकरणमिति ग्राह्यं । तथा इन्द्रियाणां चक्षुरादीनां करणानि अवस्थान्तरापादनानि इन्द्रियकरणानि तानि च 'उपघातविशुद्धितः' उपघातात् विशुद्धेश्च भवन्ति, तत्रोपघाताद्विषाद्यभ्यवहारेतोऽन्धबधिरताद्यापादनानि विशुद्धितश्च ब्राह्मीसमीराञ्जनादिना स्पष्टताद्यापादनान्युत्तकरणं भवति,
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org