SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ अध्ययनं-३,[ नि. १७८] १५३ सोच्चा नेयाउयं मागं, बहवे परिभस्सइ।। वृ. 'आहच्च' इति कदाचित 'श्रवणम्' प्रक्रमाद्धर्माकपर्णनम्, उपलक्षणत्वान्मनुष्यत्वं चलम्वेति, अपिशब्दस्य गम्यमानत्वात् लब्ध्वापि-अवाप्यापि'श्रद्धा' रुचिरूपा प्रक्रमाद्धर्मविषयैव परमदुल्लभा' अतिशयदुरापा, कुतः पुनः परमदुर्लभत्वमस्या इत्याह-'श्रुत्वा' आकर्ण्य न्यायेन चरति प्रवर्तते नैयायिकः, न्यायोपन्न इत्यर्थः, तं'मार्गम्' सम्यग्दर्शनाद्यात्मकं मुक्तिपथं बहवः नैक एव, परिइति सर्वप्रकारं भस्सइ'त्ति भ्रश्यन्ति-च्यवन्ते प्रक्रमानैयायिकमार्गादेव, यथा जमालिप्रभृतयो, यच्च प्राप्तमप्यति तच्चिन्तामणिवत् परमदुर्लभमेवेति भावः । इहैव के चिचिह्नववक्तव्यतां व्याख्यातवन्तः, उचितं चैतदप्यास्त(प्यस्ति) इति सूत्रार्थः ।। एतत्त्रयावाप्तावपि संयमवीर्यदुर्लभत्वमाहमू.(१०५) सुइं च लद्धं च, वीरियं पुन दुल्लहं। बहवे रोयमाणावि, नो यणं पडिवज्जइ। वृ. श्रुति चशब्दान्मनुष्यत्वं च ल«'ति प्राग्वल्ल वापि, श्रद्धां च वीर्यं प्रक्रवात् संयमविषयं, पुन:शब्दस्य विशेषकत्वाद्विशेषेण दुर्लभं, यत: बहवः नैक एव रोचमाना अपि-न केवलं प्राप्तमनुष्यत्वाः शृण्वन्तो वेत्यपिशब्दार्थः, श्रद्दधाना अपि, नो चेति चशब्दस्यैवकारार्थत्वान्नैव 'ण'मिति वाक्यालङ्कारे अथवा 'णो यणन्ति सूत्रत्वानो एतं पडिवज्जति'त्ति तत एव प्रतिपद्यन्ते चारित्रमोहनीयकम्र्मोदयतः, सत्यकिश्रेणिकादिवत्र कर्तुमभ्युपगच्छन्तीति सूत्रार्थः ।। म.(१०६) मानुसत्तंमि आयाओ, जो धम्म सोच्च सद्दहे। तवस्सी वीरियं लद्ध, सुंवडो निद्धणे रयं ।। वृ. 'मानुषत्वे'मनुजत्वे 'आयातः' आगतः, विमुक्तं भवति?-मानुषत्वं प्राप्तो, य इत्यनिर्दिष्टस्वरूपो य एव कश्चिद्धम॑ श्रुत्वा सद्दहे'त्ति श्रद्धत्ते-रोचयते तपस्वी' निदानादिविरहितया प्रशस्यतपोऽन्वितः, कथं ? - 'वीर्य' संयमोद्योग लब्ध्या 'संवृत्तः' स्थगितसमस्ताश्रवः, स किमित्याह-'निद्भुणे'त्ति निथुनोति-नितरामपनयति रज्यते अनेन स्वच्छस्फटिकवच्छुद्धस्वभावोऽप्यात्माऽन्यथात्वमापाद्यत इति रजः-कर्म बध्यमानकं बद्धंच, तदपनयनाच्च मुक्तिं प्राप्नोतीति भावः, उभयत्र लिप्स्यमानसिद्धौ चे ति लट्, इह च श्रद्धानेन सम्यक्त्वमुक्तं, तेन च ज्ञानमाक्षिप्तं, प्रदीपप्रकाशयोरिव युगपदुत्पादातत्ततयोः, तथा च 'सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः' इति न विरुध्यत इति सूत्रार्थः ।। इत्थमामुष्मिकं मुक्तिफलमुक्तम्, इदानीमिहैव फलमाहमू. (१०७) सोही उज्जुभूयस्स, धम्मो सुद्धस्स चिट्ठति। निव्वाणं परमं जाइ, घयसित्तेव पावए ।। वृ.'शुद्धिः' कषायकालुष्यापगमो, भवतीति गम्यते, ऋजुभूतस्य चतुरङ्गप्राप्त्या मुक्तिं प्रति प्रगुणीभूतस्य, तथा च 'धर्म:' क्षान्त्यादि: 'शुद्धस्य' शुद्धिप्राप्तस्य तिष्ठति' अविचलिततयाऽऽस्ते इति, अशुद्धस्य तु कदाचित्कषायोदयात्तद्विचलनमपि स्यादित्याशयः, तदवस्थितौ च 'निर्वाणं' निर्वृतिनिर्वाणं स्वास्थ्यमित्यर्थः 'परमं प्रकृष्टम् ‘एगमासपरियाए समणे वंतरियाणं तेयल्लेसं वीईवयति' इत्याद्यागमेनोक्तं नैवास्ति राजराजस्य तत्सुख' मित्यादिना च वाचक For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003381
Book TitleAgam Sutra Satik 43 Uttaradhyayanani MoolSutra 4
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages704
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 43, & agam_uttaradhyayan
File Size130 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy