________________
१५४
उत्तराध्ययन-मूलसूत्रम्-१-३/१०७ वचनेनानूदितं याति' प्राप्नोति, क इव?-'घयसित्तेव'त्ति इवस्य भिन्नक्रमत्वात् घृतेन सिक्तो घृतसिक्तः पुनातीति पावक:-अग्निः, लोकप्रसिद्धया, समयप्रसिद्धया तु पापहेतुत्वात्पापकः तद्वत्, स च न तथा तृणादिभिदीप्यते यथा घृतेनेत्यस्य प्रतसिक्तस्य निर्वतिरन्गीयते, ततो विशेषेणास्य दृष्टान्तत्वेनाभिधानमिति भावनीयं, यद्वानिर्वाणमिति जीवन्मुक्तिं याति
"निर्जितमदमदनानां वाक्कायमनोविकाररहितानाम् ।
विनिवृत्तपराशानामीहैव मोक्ष: सुविहितानाम्॥" । इति वचनात्, कथंभूतः सन्?-घृतसिक्तपावक इव-तपस्तेजसा ज्वलितत्वेन धृतप्पिताग्निसमान इति सूत्रार्थः ।। पठन्ति च नागार्जुनीयाः
"चउद्धा संपयं लद्धं, इहेव ताव भायते ।
तेयते तेजसंपन्ने, घयसित्तेव पावए । त्ति" तत्र चतुर्धा-चतुष्प्रकारां, संपदां-सम्पत्ति प्रक्रमान्मनुष्यत्वादिविषयां लब्ध्वा इहैव लोके तावद्, आस्तां परत्र, 'भ्राजते' ज्ञानश्रिया शोभते, 'तेजते' दीप्यते तेजसा-अर्थात्तपोजनितेन सम्पनो-युक्तस्तेजःसम्पत्रः, शेषं प्राग्वदिति । इत्थमामुष्मिकमैहिकं च फलमुपदयाहमू. (१०८) विगिंच कम्मुणो हेडं, जसं संचिणु खंतिए।
पाढवं सरीरं हिच्चा, उड्डे पक्कमती दिसं॥ वृ. 'विगिञ्च'त्ति वेविग्धि पृथक् कुरु 'कर्मणः' प्रस्तावान्मानुषत्वादिविबन्धकस्य हेतुम्' उपादानकारणं-मिथ्यात्वाविरत्यादिकं, तथा यशोहेतुत्वाद्यशः-संयमो विनयो वा, यदुक्तम्
"एवं धम्मस्स विनओ, मूलं परमो से मोक्खो।
जेन कित्ति सुयं सिग्घं, नीस्सेसं चाभिगच्छइ।।" इति, तत् 'सञ्चिणु' भृशमुपचितं कुरु, कया?-क्षान्त्या, उपलक्षणत्वान्मार्दवादिभिश्च, ततः किं स्यादित्याह-'पाढवं ति पार्थिमिव पार्थिवं शीतोष्णादिपरिषहसहिष्णुतया समदुःखसुखतया च पृथिव्यामिव भवं, पृथिवी हि सर्वंसहा, कारणानुरूपं च कार्यमिति भावो, यदि वा पृथिव्या विकार: पार्थिवः, स चैहशैलः, ततश्च शैलेशीप्राप्त्यपेक्षयाऽतिनिश्चलतया शैलोषमत्वान्परप्रसिद्धया वा पार्थिव शरीरं' तनुं हित्वा' त्यक्त्वा ऊर्ध्वं दिशमिति सम्बन्धः, 'प्रक्रामति' प्रकर्षण गच्छति येन भवानिति उपस्कारो, यद्वा सोपस्कारत्वात् सूत्राणामेवं नीयते-यत एवं कुर्खन् भव्यजन्तूरूज़ दिशं प्रक्रामति ततस्त्वमतिदृढचेता इत्थमित्थं च कुर्वित्युपदिश्यते, प्रक्रामतीति वर्तमानसामीप्ये वर्तमाननिर्देश आसन्नफलावाप्तिसूचक इति सूत्रार्थः । इत्थं येषां तद्भव एव मुक्त्यवाप्तिस्तान् प्रत्युक्तं, येषां तु न तथा तान्प्रत्याहमू. (१०१) विसालिसेहिं सीलेहि, जक्खा उत्तर उत्तरा।
महासुक्का व दिप्पंता, मन्नता अपुणोच्चयं। मू. (११०) अप्पिया देवकामाणं, कामरूवविउविणो।
उड्डे कप्पेसु चिटुंति, पुव्वा वाससया बहू॥ वृ. 'विसालिसेहिति मागधदेशीयभाषया विसदृशैः-स्वस्वचारित्रमोहनीयकर्मक्षयोपशमापेक्षया विभिन्नः 'शीलैः' व्रतपालनात्मकैरनुष्ठानविशेषैः, किम्?-इज्यन्ते पूज्यन्त इति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org