________________
१५२
उत्तराध्ययन-मूलसूत्रम्-१-३/१०२ जीवा सोहिमनुप्पत्ता, आययंति मनुस्सयं॥ वृ. 'कर्मणां' मनुजगतिविबन्धकानाम् 'तुः' पूर्वस्माद्विशेषद्योतक: 'पहाणाए'त्ति प्रकृष्टं हानम्-अपगमः प्रहाणं तस्यापो-लाभः प्रहाणायः तस्मिन्, यद्वा सूत्रत्वात् प्रहाणौ प्रहान्या वा तद्विबन्धकानन्तानुबन्ध्यादिकर्मसु प्रहोणेषु, कृतश्चिदीश्वरानुग्रहादेस्तदप्राप्तेः, अन्यथा हि तद्वैफल्यापत्तिः, एतेन-'अन्यो जन्तुरनीशोऽयमात्मनः सुखदुःखयो। ईश्वरप्रेरितो गच्छेत्, श्वभ्रं वा स्वर्गमेव वा ।।' इत्यपास्तं भवति, अथ कथं पुनस्तेषां प्रहाणिरित्याह-'आनुपूर्व्या क्रमेण न तु झगित्येव, तयापि 'कयाइ उ'त्ति तुशब्दस्यैवकारार्थत्वात्कदाचिदेव न सर्वदा, 'जीवाः' प्राणिनः 'शुद्धीम्' क्लिष्टकमविगम्पत्मिकाम् अनु-तद्विघातिकर्मापगमस्य पश्चात्प्राप्ताः ‘आददते' स्वीकुर्वन्ति मनुष्यतां, पाठान्तरतश्च जायन्ते मणुस्सयं (सत्तयं) ति सुबव्यत्ययान्मनुष्यतायां, तदैव तन्निर्वतकमनुजगत्यादिकर्मोदयादिति भावः, अनेन मनुजत्वविबन्धककर्मापगमस्य तथाविधकालादिसव्यपेक्षत्वेन दुरापतया मनुष्त्वदुर्लभत्वमुक्तमिति सूत्रार्थः ।। कदाचिदेत-दवाप्तौ श्रुतिः सुलभैव स्यादत आहमू.(१०३) मानुस्सं विगह लद्धं, सुती दुल्लहा।
___ जंसोच्चा पडिवज्जति, तवं खंतिमहिंसयं ।। वृ.'मानुस्सं'ति सूत्रत्वान्मानुष्यकं मनुष्यसम्बन्धिनं विशेषेण गृह्यते आत्मना कर्मपरतन्त्रेणेति विग्रहस्तं मनुजगत्याधुपलक्षितमौदारिकशरीरं लटुंति अपेर्गम्यमानत्वात् लब्ध्वापि, 'श्रुतिः' आकर्णनं, कस्य? -धारयति दुर्गतौ निपततो जीवानिति धर्मः, तथा च वाचक:
"प्राग्लोकबिन्दुसारे सर्वाक्षरसन्निपातपरिपठितः । धृञ् धरणाऽर्थो धातुस्तदर्थयोगाद्भवति धर्मः ॥"
दुर्गतिभयप्रपाते पतन्तमभयकरदुर्लभत्राणे।
सम्यक् चरितो यस्माद्धारयति ततः स्मृतो धर्मः ।।२।। तस्य-एवमन्वर्थनाम्नो धर्मस्य 'दुर्लभा' दुरापा प्रागुत्कालस्यादिहेतुतः, स च
मृद्वी शय्या प्रातरुत्थया पेया, भक्तं मध्ये पानकं चापराह्ने।
द्राक्षाखण्डं शर्करा चार्धरात्रे, मोक्षश्चान्ते शाक्यपत्रेण दृष्टः ।।" इत्यादिसुगतादिकल्पितोऽपि स्याद् अतस्तपोहायाह-यं धर्मं श्रुत्वा 'प्रतिपद्यन्ते' अङ्गीकुर्वन्ति 'तपः' अनशनादि द्वादशविधम् 'क्षान्ति' क्रोधजयलक्षणां मानादिजयोपलक्षणं चैषा, 'अहिंसयन्ति' अहिंस्रताम्-अहिंसनशीलताम्, अनेन च प्रथमव्रतमुक्तम्, एतच्च शेषव्रतोपलक्षणम्, एतत्प्रधानात्वात्तेपाम्, एतद्वृत्तितुल्यानि हि शेषव्रतानि, एवं च तपसः क्षान्त्यादिचतुष्कस्य महाव्रतपञ्चकस्य चाभिधानाद्दशविधस्यापि यतिधर्मस्याभिधानम्, इह च यद्यपि श्रुतेः शाब्दं प्राधान्यं तथापि तत्त्वतो धर्म एव प्रधानं, तस्या अपि तदर्थत्वादिति, स एव यच्छब्देन परामृश्यते, अथवा काक्वा नीयते-'यद्' यस्मात् श्रुत्वा प्रतिपद्यन्ते तपःप्रभृति नाश्रुत्वा सुच्चा' जाणति कलाणं, सोच्चा जाणति पावगं' इत्याद्यागमात्, तत एवमतिमहार्थतया दुरायेयमिति सूत्रार्थः ।। श्रुत्यवातावपि श्रद्धादुर्लभतामाह
मू. (१०४) आहच्च सवणं लद्धं, सद्धा परमदुल्लहा।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org