________________
अध्ययनं-१,[नि. २६] नि. [२६] तेत्तीसइमे कम्मं चउतीसइमे य हुति लेसाआ।
भिक्खुगुणा पणतीसे जीवाजीवा य छत्तीसे ।। वृ. आसामर्थः सुखावगम एव । नवरं विनयमूलोऽयं धर्मः, यत आगमः
"मूलाउ खंधप्पभवो दुमस्स, संधाउ पच्छा साविति साहा। साहप्पसाहा विरुहंति पत्ता, ततो उ पुप्फ च फलं रसो।।१।।
एवं धम्मस्स विनओ मूलं परमो से मोक्को ।
जेण कित्ति सुयं सिग्धं, नीसेसं चाभिगच्छई ।।२।।" इत्यतः प्रथमाध्ययने विनयोऽधिकृतः, विनयवतश्च तेषु तेपु गुरुनियोगेषु प्रवर्तमानस्य कदाचित् परीपहा उत्पद्येरन् ते च सम्यक् सोढव्या इति द्वितीयाध्ययने परीपहा इत्यादि क्रमप्रयोजनमभ्यूह्यम्, अध्ययनसम्बन्धाभिधानप्रस्तावे चाभिधास्यामः । उपसंहरनाहनि.[२७] उत्तरज्झयणाणेसों पिंडत्थो वत्रिओ समासेणं ।
इत्तो इक्किकं पुन अज्झयणं कित्तइस्सामि ।। वृ.उत्तराध्ययनानाम् 'एपः' अनन्तराभिहितस्वरूपः 'पिण्डार्थः' समुदारायार्थः 'वर्णितः' उक्तः 'समासेन' सक्षेपेण, 'इतः' पिण्डार्थवर्णनाद्, अनन्तरमिति गम्यते, एकैकं 'पुनः' विशेषणे अध्ययनं 'किर्तयिष्यामि' व्याख्याद्वारेण संशब्दयिप्यामीति गाथार्थः । तत्र चाद्यं विनयश्रुतमिति तस्य कीर्तनावसरः, न च तद् उपक्रमाद्यनुयोगद्वारतद्भेदनिरुक्तिक्रमप्रयोजनप्रतिपादनमन्तरेण शक्यं कीर्तयितुमिति मन्वानः प्रस्तुताध्ययनस्यानुयोगविधानक्रममाधिकारं चाह
(अध्ययनं-१ विनयश्रुतं) नि.[२८] तत्थऽज्झयणं पढमं विनयसुयं तस्सुवक्कमाईणि।
दाराणि पत्रेवेउं अहिगारो इत्थ विनएणं ॥ वृ. 'तत्र' एतेष्वध्ययनेपु मध्ये अध्ययनं प्रथमम्' आद्यं विनयाभिधानकं श्रुतं विनय श्रुतं मध्यपदलोपीसमासः, 'तस्य' इति विनय श्रुतस्य उपक्रमादीनि द्वाराणि 'प्ररूप्य' तद्भेदनिरु - क्तिक्रमप्रयोजनप्रतिपादनद्वारेण प्रज्ञाप्य, एतदनुयोगः कार्य इति शेषः, अधिकारश्चात्र विनयेन, तस्येहानेकधाऽभिधानात् । आह-'पढमे विनओ' इत्यनेनोवोक्तत्वात् पुनरुक्तमेतद्, उच्यते, शास्त्रपिण्डार्थविषयं तत्, एतच्च प्रस्तुतैकाध्ययनगोचरमिति न पौनरुक्त्यमिति गाथार्थः ।। अत्रापि 'प्ररू प्ये'त्यवसरज्ञापनार्थमेव नियुक्तिकृतोक्तं, न तु प्ररूपयिष्यत इति, अनुयोगद्वारपूक्तत्वात्, तदुक्तानुसारेण किञ्चिदुच्यते-इह चत्वार्यनुयोगद्वाराणि-उपक्रमो निक्षेपोऽनगमो नयश्चेति, तद्भेदा यथाक्रमं द्वौ द्वौ चेति, निरुक्तिश्चैवम्- उपक्रमणं दूरस्थस्य सतो वस्तुनस्तैस्तैः प्रकारैः समीपानयनमुपक्रमः, नियतं निश्चितं वा नामादिसम्भवत्पक्षरचनात्मकं क्षेपणं-न्यसनं निक्षेपः, अनुरूपं सूत्रार्थाबाधया तदनुगुणं गमनं-संहितादिक्रमेण व्याख्यातुः प्रवर्तनमनुगमो, नयनम्-अनन्तधर्मात्मकस्य वस्तुनो नियतैकधर्मावलम्बेन प्रतीतौ प्रापणं नय: । क्रमप्रयोजनं च-नानुपूर्व्यादिभिासदेशमनानीतं शास्त्र निक्षेप्तुं शक्यं, न चौधनिष्पन्नादिभिनिक्षेपैरनिक्षिप्त
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org