SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन-मूलसूत्रम्-१-१/१ मनुगन्तुं, नापि सूत्राद्यनुगमेनाननुगतं नयेविचारयितुमित्ययमेवैषां क्रमः, तथा च पूज्याः "दारक्कमोऽयमेव उ निक्खिप्पइ जेन नासमीवत्थं । ___ अनुगम्मइ नानत्थं नानुगमो नयमयविहुणो।।" अत्र सङ्ग्रहश्लोकाः "उपक्रमोऽथ निक्षेपोऽनुगमश्च नयाः क्रमात् । द्वाराण्येतानि भिद्यन्ते, द्वेधा त्रेधा द्विधा द्विधा ॥१॥ उपक्रम उपक्रान्तिर्दूरस्थनिकटक्रिया। निक्षेपणं तु निक्षेपो, नामादिन्यसनात्मकः ॥२॥ सूत्रस्यानुगतिश्चित्राऽनुगमो नयनं नयः। अनन्तधर्मणोऽर्थस्यैकांशेनेति निरुक्तयः ।।३।। न्यासदेशागतं शास्त्र, न्यस्यते न्यस्तमेव तत् । अन्वीयतेऽन्विते नीतिस्तेनैतेषामयं क्रमः ॥४॥' इत्थं विनेयस्मरणार्थं भेदनिरुक्तिक्रमप्रयोजनभाजि द्वाराणि वर्णितानि, तद्वर्णनाच्च फलादीनिवाच्यानीति प्रतिज्ञातं निर्वाहितम्। सम्प्रत्येभिरित्थं प्ररूपितैरेषामेव भेदप्रपञ्चनपुरस्सरं प्रक्रान्ताध्ययनं विचार्यते, तत्रोपक्रमो द्विधा-लौकिको लोकोत्तरश्च, तत्राद्यो नामस्थापनाद्रव्यक्षेत्रकालभावभेदतः षोढा, तत्र च नामतश्चिरितरकालभाविनः सन्निहितकाल एव कारणं नामोपक्रमः, एवं स्थापनोपक्रमोऽपि, द्रव्योपक्रमः सचित्ताचित्तमिश्रभेदात् त्रिविधः, प्रत्येकोऽपि परिकर्मनाशभेदतो द्विविधः उक्तं च भाष्यकारेण "नामाई छन्भेओ उवक्कमो दव्वओ सचित्ताई। तिविहो दुविहो य पुणो परिक्कमे वत्थुनासे य ।।" तत्र परिकर्मणि सचित्तद्रव्योपक्रमोऽवस्थितस्यैव द्विपदचतुष्पदापदरूपस्य नरतुरगतरुप्रभृतिसचित्तवस्तुनोऽविवक्षिताचित्तकेशाद्यवयवस्य यथाक्रमं रसायनशिक्षायुर्वेदादिवशतः तथाविधकर्मोदयादे: कालान्तरभाविनो वयःस्थैर्यविनयनप्रसनोदगमादिपरिणतिविशेषस्यापादनम्, अचित्तद्रव्योपक्रमः कनकादेः कटककुण्डलादिक्रिया, मिश्रद्रव्योपक्रम: सचित्तस्यैव द्विपदादेः अचित्तकेशादिसहितस्य स्नानादिसंस्कारकरणम्, एवं विनाशेऽपि द्रव्योपक्रमस्त्रिधातत्र सचित्तद्रव्योपक्रमोऽवस्थितस्यैव सचित्तद्रव्यस्याविवक्षितपर्यायान्तरोत्पत्ति प्रत्यभिज्ञानिवर्तकमसिपरश्वादितः प्राक्तनपर्यायापनयनम्, अचितद्रव्योपक्रम एवमेवाचित्तस्य रजतादे: पारदादिसम्पर्कत: स्वरूपादिभ्रंशनं, मिश्रद्रव्योपक्रमोऽपि तथैव शङ्खशृङ्खलाद्यलङ्कृतद्विरदादेः सचेतनस्य मुद्गरादिभिरभिधातः । एवं क्षेत्राद्युपक्रमा अपि परिकर्मविनाशभेदतो द्विभेदाः, तत्र यद्यपि क्षेत्रं नित्यममूर्तं च, ततो न तस्य परिकर्मविनाशौ स्तस्तथापि तदाधेयस्य जलादे वादिहेतुतस्तौ सम्भवत इत्युपचारतस्तदुपक्रमः, उक्तं च "खित्तमरूवं निच्चं न तस्स परिकम्मणं न य विनासो। आहेयगयवसेण उ करणविनासोवयारोऽत्थ ।।१!! नावाए उवक्कमणं हलकुलियाईहि वावि खेत्तस्स । For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003381
Book TitleAgam Sutra Satik 43 Uttaradhyayanani MoolSutra 4
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages704
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 43, & agam_uttaradhyayan
File Size130 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy