SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ १३६ उत्तराध्ययन-मूलसूत्रम्-१-३/९६ तत्थ तेसि सीसो कोडीनो, तस्सवि आसमित्तो सीसो, सो पुण अनुप्पवाए पुव्वे नेउणियवत्थु, तत्थ छिन्नाछेयणयवत्तव्वायए आलावतो जहा-सव्वे पडुप्पत्रसमयणेरइया वोच्छिज्जिस्संति, एवं जाव वेमाणियत्ति,' एवं तस्सतंमि वितिगिच्छा जाया-जहा सव्वे संजया वोच्छिज्जिस्संति, एवं सव्वेसि समुच्छेदो भविस्सइत्ति, ताहे तस्स तत्थ थिरं चित्तं जायं, भण्यते चाचार्यैर्यथाभद्र ! तवायमाशय: अस्ति कारणमुत्पादे, विनाशे नास्ति कारणम्। उत्पत्तिमन्तः सर्वेऽपि, विनाशे नियतास्ततः ।। प्रयोगश्च-ये यद्भावं प्रत्यनपेक्षास्ते, तद्भावनियताः, यथा अन्त्या कारणसामग्री स्वकारजनने, अनेपाक्षाश्च विनाशं प्रति भावाः, अत्र व विनाशनैयत्यं भावानं किं वैश्रसिकं विनाशमाश्रित्य साध्यते प्रायोगिकं वा?, यदि वैश्रसिकं किं सर्वथा कथञ्चिद्वा?, कथञ्चित्पक्षे सिद्धसाधनं, सरस्तरङ्गवत्सततमुदयव्ययत्त्वेन केषाञ्चित्पर्यायाणां तद्रूपेण वस्तुषु वैश्रसिकविनाशनैयत्यस्य सिद्धत्वाद्, अथ सर्वथा विनाशः साध्यते तर्हि प्रत्यक्षनिराकृतः पक्षो, द्रव्यरूपेणावस्थितस्यैव वस्तुनो दर्शनात्, अन्यथा द्वितीयादिसमयेषु वस्तुनोऽभावप्रसङ्गः, वस्त्वन्तरोत्पत्तेरदोष इति चेत् किं न तद्भेदेन प्रतिभाति?, अथ मायागोलकवत्सादृश्यात्, तत्र, प्रत्यक्षेणैकत्वग्रहादेव भेदाप्रतिभासात्, अथ भ्रान्तमेवैकत्वग्राहि प्रत्यक्षम्, एवं च सति चक्रकाख्यो दोषः, एकत्वग्राहिणो हि प्रत्यक्षस्य भ्रान्तत्वं प्रकृतानुमानप्रामाण्ये, तच्च सादृश्याभेदाप्रतिभासे, स चैकत्वग्राहिणः प्रत्यक्षस्य भ्रान्तत्वे, तदपि प्रकृतानुमानप्रामाण्ये इति तदेवावर्तते, ऐहिकामुष्पिकव्यवहारविलुप्तिश्च सर्वथा नाशे, तथा चाह "तित्तो समो किलामो सारिक्ख विपक्खपच्चयाईणि । अज्झयणं झाणं भावना य का सव्वणासम्मि? ॥१॥ अन्नन्नो पइगासं भोत्ता अन्नोन्नसोऽवि का तित्ती? । गन्तादओवि एवं इय संववहारवोच्छित्ती॥२॥" अथ सन्तानाश्रयो व्यवहारः, सन्तानोऽपि सन्तानिभ्यः किं भिन्नो न वा?, यदि भिन्नो वस्तुसत्र वा?, यदि वस्तुसन्न, किंतेनशशविषाणेनेव कल्पितेन?,वस्तसत्त्वेऽपि क्षणिकोऽक्षणिको वा?, यद्यक्षणिकस्तेनैव प्रकृतानुमानव्यभिचार:, क्षणिकत्वे च तदवस्थैव व्यवहारविलुप्तिः, अथाभिन्नः, तथाहि-सदृशापरापरक्षणप्रबन्धः सन्तानः, स च सन्तानिन एव, तदसत्, यतः सर्वथोच्छेदे प्राग्भावित्वमेव कारणस्य कारणत्वं, तच्च विसदृशक्षणापेक्षयाऽपि समानमिति कथं सदृशक्षणस्यैवोत्पत्तिः ? येन तत्प्रबन्धः सन्तान उच्यते, अथ सदृशक्षणस्यैवोत्पत्तिर्दष्टा, तहि वस्तु कथंचित् स्थितिमपि दृष्टमिति तथैवास्तु, सजातीयेतरव्यावृत्तवस्तुवादिनां च न किञ्चित्तात्त्विकं सादृश्यम्, अतात्त्विकं च स्वपुष्पमिव न तत्त्वविचारोपयोगि, पूर्वापरविनिलुंठितैकक्षणाभ्युपगमे च सन्तानिनोऽप्यसन्त एवेत्ययुक्तस्ततो भेदाभेदविचारः, अथ प्रायोगिक विनाशामाश्रित्य भावानां विनाशनैयत्वं साध्यते, तर्हि तस्य हेत्वन्वयव्यतिरेकानुविधायित्वेनानपेक्षत्वमसिद्धम्, तथाहि- तत्कि विनाशहेतूनामसामर्थ्यादथ वैयर्थ्यात्कृतकत्वे विनाशस्यापि त्रिनाशप्रसङ्गतो वा?, यद्यसामर्थ्यात्तत्किं विनाशस्य तुच्छरूपतया कर्तुमशक्यत्वेन वस्त्वन्तरो Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003381
Book TitleAgam Sutra Satik 43 Uttaradhyayanani MoolSutra 4
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages704
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 43, & agam_uttaradhyayan
File Size130 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy