SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ १२८ उत्तराध्ययन-मूलसूत्रम्-१-३/९६ उक्तस्वरूपम् 'अनाभोगात्' अज्ञानात्, तथा 'गुरवः' धर्माचार्यास्तेषां नियोगः-व्यापारणं गुरुनियोगस्तस्माद्वा, कश्चिद्धि सम्यग्दृष्टिविशेषतो जीवादिस्वरूपानवगमाद् गुरुप्रत्ययाच्चातत्त्वमपि तत्त्वमिति प्रतिपद्यते। तदेवं प्रथमगाथया मिथ्यात्वहेतुकत्वमश्रद्धानस्योक्तम्, द्वितीयगाथया पुनस्तदभावेऽप्यनाभोगगुरुनियोगहतुकत्वं, तथा च मिथ्यात्वादितद्धेतुनां व्यापित्वादश्रद्धानभूयस्त्वेन श्रद्धानुदुर्लभतोक्ता भवतीति गाथाद्वयपरमार्थः ।। ननु किमेवंविधा अपी केचिदत्यन्तमृजवः सम्भवेयुः? ये स्वयमागमानुसारिमतयोऽपि गुरूपदेशतोऽन्यथापि प्रतिपद्यरेन्, एवमेतत्, तथाहि-जमालिप्रभृतीनां निह्नवानाकशिष्यास्तद्भक्तियुक्ततया स्वयमागमानुसारिमतयोऽपि गुरुप्रत्ययाद्विपरीतमर्थं प्रतिपन्नाः, उक्तं हि"तए णं जमालिस्स अनगारस्स एवमाइक्खमानस्स एवं भासंतस्स एवं पनवेमानस्स एवं परूवेमानस्स अस्थि एगयया समणा निग्गंथा एयमटुं सद्दहति पत्तियंति रोयंति" इत्यादि। के पुनरमि असद्भावं प्रतिपन्ना इत्याहनि.[१६४] बहुरयपएसअव्वत्तसमुच्छ दुगतिगअबद्धिगा चेव। एएसिं निग्गमणं वुच्छामि अहानुपुवीए।। वृ.'व्याख्यानतो विशेषप्रतिपत्तिः' इति न्यायात् बहुपु-क्रियानिष्पत्तिविषयसमयेषु रताः, कोऽर्थः?-बहषु एव समयेषु क्रियानिष्पत्तिरित्यसद्भावं प्रतिपन्नाः १, 'पएसित्ति सूचकत्वादस्य् अन्त्यप्रदेशजीववादिनः अन्त्यएव प्रदेशो जीव इत्यभ्युपगताः २, अव्यक्ता:-'सत्या सत्यभामे'तिवत् अव्यक्तवादिनः, न अत्र व्यक्त्या यतिरयमयतिर्वा इत्यादिरूपतया वस्तु विज्ञातुं शक्यं, ततः सर्वमव्यक्तमेवेति प्रतिज्ञावन्तः ३, 'समुच्छ'त्ति सूत्रत्वात् सामुच्छेदाः, तत्र समितिसामस्त्येन निरन्वयात् उदिति-ऊर्ध्वं क्षणादुपरि भवनात् छेदो- नाशः समुच्छेदस्तं विदन्ति तत्त्वधिया सामुच्छेदाः, एषां द्वन्द्वे बहुरतप्रदेशाव्यक्तसामुच्छेदाः, द्विकं-क्रियाविषयमेकसमयमनुभूयमानमिह गृह्यते, तत्प्रतिज्ञातारोऽप्युपचारात् द्विका:, एवं त्रिकं-जीवाजीवनोजीवराशिवयं तदभ्युपगन्ताषयमेषामस्तीति अबद्धिकाः, एषां द्वन्द्वे द्विकत्रिकाबद्धिकाः, चः समुच्चये एवेति पूरणे। अत्र कः कस्य शिष्य इत्याशङ्काऽपोहार्थमेतन्निर्गमाभिधित्सया सम्बन्धमाह-'एएसिं' एतेषामनन्तरमुपदर्शितानां, निर्गमनं-यस्य यत उत्पत्तिः तदात्मकं वक्ष्यामि' परिभाषिष्ये, 'अथे' - त्यानन्तर्ये 'आनुपूर्व्या' क्रमेणेति गाथार्थः ॥ प्रतिज्ञातमेवाहनि.[ १६५] बहुरय जमालिपभवा जीवपएसा य तीसगुत्ताओ। अव्वत्ताऽऽसाढाओ सामुच्छेयाऽऽसमित्ताओ॥ नि.[१६६] गंगाए दोकिरिया छलुगा तेरासिआण उप्पत्ति । थेरा य गुट्ठमाहिल पुट्ठमबद्धं परूविति ।। वृ. 'बहुरताः' उक्तरूपाः, जमालेः प्रभवः-एतत्तीर्थापेक्षया प्रथमतः उपलब्धिरेषां, न पुनः सर्वथोत्पत्तिरेव, प्रागप्येवंविधाभिधायिसम्भवात्, ते अमी जमालिप्रभवाः, 'जीवपएसा य'त्ति प्रस्तावात्प्रदेश इत्यन्त्यप्रदेशो जीवो येषां ते प्रदेशजीवाः, प्राकृतत्वाच्च व्यत्ययः, तेच तिष्यगुप्तात्, 'अव्यक्ताः' अव्यक्तवादिनः आषाढात्, सामुच्छेदा अश्वमित्रात्, 'गङ्गात्' इति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003381
Book TitleAgam Sutra Satik 43 Uttaradhyayanani MoolSutra 4
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages704
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 43, & agam_uttaradhyayan
File Size130 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy