________________
१२७
अध्ययन-३,[ नि. १६०]
भय सोगा अन्नागा वक्खेव कुऊहला रमणा ।। नि.[१६१] एएहि कारणेहि लद्धृण सुदुल्लहपि मानुस्सं।
न लहइ सुई हिअरिं संसारुत्तारिणि जीवो।। वृ. 'आलस्यात्' अनुद्यमस्वरूपात्, न धर्माचार्यसकाशं गच्छति न शृणोति च इति सर्वत्र शेपः, मोहात्' गृहकर्तव्यताजनितवैचित्यात्मकात् हेयोपादेयविवेकाभावत्मकाद्वा, 'अवज्ञातो' यथा किममी मुण्डश्रमणा जानन्ति? इति, अवर्णाद्वा' साध्यश्लाघात्मकात् यथाऽमि मलदिग्धदेहा: सकलसंस्काररहिताः प्राकृतप्रायवयस इत्यादिरूपात्, ‘सत्मभात्' जात्यादिसमुत्थादहङ्कारात् कथमहं प्रकृष्टतरातिरेनमुपसप्पांमीत्यादिरूपात्, 'क्रोधाद्' अप्रीतिरूपात् आचार्यादिविषयात्, महामोहोपहतो हि कश्चिदाचार्यादिभ्योऽपि कुप्यति, प्रमादात्' निद्रादिरूपात्, कश्चिद्धि निद्रादिप्रमत्त एवाऽऽस्ते, कृपणत्वात्' द्रव्यव्ययासहिष्णुत्वलक्षणात्, यद्यहममीषामन्तिके गमिष्याम्यवश्यंभावी द्रव्यव्यय इति वरं दूरत एषां परिहारइति, भयात्' कदाचिन्नरकादिवेदनाश्रवणोत्पन्नसाध्वसात्, निःसत्त्वो हि नरकादिभयमावेदयन्तीत्यमी इति भयान्न पुनः श्रोतुमिच्छति, 'शोकाद' इष्टवियोगोत्थदुःखात् कश्चिद्धि प्रियप्रणयिनीमरणादौ शोचत्रेवास्ते, 'अज्ञानात' मिथ्याज्ञानात-'न मांसभक्षणे दोषो, न मद्ये न च मैथुने' इत्यादिरूपात् 'व्याक्षेपाद्' इदमीदानी कृत्यमिदं च इदानीमिति बहुकृत्यव्याकुलतात्मकात्, 'कुतूहलाद्' इन्द्रजालाद्यवलोकनगोचरात्, 'रमणात्' कुर्कुटादिक्रीडात्मकात्, क्वचित्सुपोऽश्रवणं प्राग्वत्, प्रक्रान्तार्थनिगमनायाह-'एभिः' अनन्तरोक्तस्वरूपैः 'कारणे:' आथ्स्यादिहेतुभिः 'लभ्रूणसुदुल्लहंपि'त्ति अपेभित्रक्रमत्वाल्लब्ध्याऽपि 'सुदुर्लभम्' अतिशयदुरापं 'मानुष्यं' मनुजत्वं 'न लभते' न प्राप्नोति श्रुति' धर्माकर्णनात्मिकां कीदृशीम्?- हितकरीम्' इह परत्र च तथ्यपथ्यविधायिनीम्, अत एव संसारादुत्तारयति-मुक्तिप्रापकत्वेन निस्तारयति इति संसारोत्तारणी तो 'जीवः' जन्तुः इति गाथार्थः ।। इत्थं धर्मश्रुतिदुर्लभत्वमभिधाय तल्लाभेऽपि श्रद्धादुर्लभत्वमाहनि.[१६२] मिच्छादिट्ठी जोवो उवइ8 पवयणं न सद्दहइ ।
__सद्दहइ असम्भावं उवइ8 वा अनुवइटुं। नि.[१६३] सम्मद्दिट्ठी जीवो उवइ8 पवयणं तु सद्दहइ।
सद्दहइ असब्भावं अनभोगा गुरुनिओगा वा।। वृ.मिथ्या इति-विपरीता दृष्टिः-बुद्धिस्येति मिथ्यादृष्टिः, जीवः 'उपदिष्टं' गुरुभिराख्यातं 'प्रवचनम्' आगमं न श्रद्धत्ते' इदमित्थमिति न प्रतिपद्यते, कदाचित्तद्विपरीतमपिन श्रद्दधातीत्याह-'श्रद्धत्ते' तथेति प्रतिपद्यते, किं तदित्याह-अविद्यमानाः सन्तः-परमार्थसन्तो भावाजीवदयोऽभिधेयभूता यस्मिन् तदसद्भावम्, सर्वव्याप्यादिरूपात्मादिप्रतिपादकं कुप्रवचनमिति गम्यते, 'उपदिष्टं' परेण कथितं, वाशब्दस्य भिन्नक्रमत्वात् अनुपदिष्टं वा-स्वयभ्यूहितमिति __ इत्थं श्रद्धादुर्लभत्वमभिधाय साम्प्रतं लब्धाया अप्युपघातसम्भवमाह-'सम' गाहा, तथा सम्यक इति-प्रशंसार्थोऽपि निपातः, यद्वा समञ्चति-जीवादीनवैपरीत्येनावगच्छति इति सम्यक तथा दृष्टिः अस्येति सम्यग्दृष्टिः जीव उपदिष्टं प्रवचनं, तुशब्दो मिथ्यादृष्टितः सम्यग्दृष्टेविशेषमाह, 'श्रद्धत्ते' निःशङ्कं प्रतिपद्यते, तत्किमसौ प्रवचनमेव श्रद्धत्ते इत्याह-श्रद्धत्ते 'असद्भावम्'
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org