SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ १२२ उत्तराध्ययन-मूलसूत्रम्-१-३/९६ नि.[१५१] सोलस दक्खा भागा चउरो भागा य धाउगीपुप्फे। आढगमो उच्छुरसे मागहमानेन मज्जंगं । वृ. षोडश द्राक्षा भागाश्चत्वारो भागाश्च धातकीपुष्ये' धातकी पुष्पविषया: 'आढगमो'त्ति आपत्वादाऽऽढकक: ‘इक्षुरसे' इक्षुरसविषये, आढक: इह केन मानेनेत्याह-'मागधमानेन' दो असती एसती उ' इत्यादिरूपेण 'मद्याङ्गं' मदिराकारणं भवतीति गाथार्थः । आतोद्याङ्गमाहनि.[१५२] एग मुगुंदा तूरं एग अहिमारुदारुयं अग्गी। एगं सामलीपंडं बद्धं आमेलओ होइ॥ वृ. एकमुकुन्दा तूर्णम्' इति एकैव मुकुन्दा वादिनविशेषो गम्भीरस्वरत्वादिना तूर्गकार्यकारित्वात् तूर्यम्, अनेनास्याविशिष्टमातोद्याङ्गत्वमेवाह, किमेवैकेव मुकुन्दा तूर्यम् ?, सोपस्करात्वाद्यथैकमभिमारस्य वृक्षविशेषस्य दारुकंकाष्ठमभिमारदारुकम् 'अग्निः' विशेषतोऽग्निजनकत्वाद्, यथा वा 'एकं शाल्मलीपोण्ड' शाल्मलीपुष्पं बद्धमामोडको भवति, आमोडकः पुष्पोन्मिश्रो वालबन्धविशेषः, स्फारत्वादस्य, इत्थं दृष्टान्ताभिधायितयेदं व्याख्यायते, प्रसङ्गतो वाऽग्न्यङ्गामोडकाङ्गयोरप्यभिधानमिति सूत्रार्थः । शरीराङ्गमाहनि.[ १५३] सीसं उरो य उदरं पिट्ठी बाहा य दुन्नि ऊरू य। एए खलु अटुंगा अंगोवंगाइ सेसाई॥ वृ. 'शिरश्च उर:' चः प्राग्वद्, उदरं 'पिट्ठी'त्ति प्राकृतत्वात्पृष्टं बाहू द्वौ उरू च एतान्यष्टाङ्गानि, प्राग्वल्लिङ्गव्यत्ययः, 'खलुः' अवधारणे, एतान्येवाङ्गानि, अङ्गोपाङ्गानि 'शेषाणि' नखादीनि, उपलक्षणत्वादुपाङ्गानि च कर्णादीनि, यत उक्तम् "होति उवंगा कण्णा नासच्छी जंघ हत्थ पाया य । नह केस मंसु अंगुलि ओट्ठा खलु अंगुवंगाई।" इति गाथार्थः ।। साम्प्रतं युद्धाङ्गमाहनि.[१५४] जाणावरणपहरणे जुद्धे कुसलत्तणं च नीई अ। दवखत्तं ववसाओ सरीरमारोग्गया चेव ।। वृ. 'जाणावरणपहरणे'त्ति यानं च-हस्त्यादि, तत्र सत्यपि न शक्नोत्यभिभवितुं शत्रुम् अत आवरणं-कवचादि, सत्यप्यावरणे प्रहरणं विना किं करोतीति प्रहरणं च-खङ्गादि, यानावरणप्रहरणानि, यदि युद्धे कुशलत्वं नास्ति किं यानादिना? इति 'युद्ध' संग्रामे 'कुशलत्वं च' प्रावीण्यरूपं, सत्यप्यस्मिनीति विना न शत्रुजयनम् अतो 'नीतीश्च' अपक्रमादिलक्षणा, सत्यामपि चास्यां दक्षत्वाधीनो जयः ततो 'दक्षत्वम्' आशुकारित्वं, सत्यप्यस्मिन्निर्व्यवसायस्य कुतो जय इति 'व्यवसायो' व्यापारः, तत्रापि यदि न शरीरमहीनाङ्गततो न जय इति शरीरम-अर्थात परिपूर्णाङ्ग, तत्राप्यारोग्यमेव जयायेति 'आरोग्गय'त्ति अरोगता, च: समुच्चये, एवोऽवधारणे, ततः समुदितानामेवैषां युद्धाङ्गत्वमिति सूत्रार्थः ॥ भावाङ्गमाहनि.[१५५] भावंगंपि य दुविहं सुअमंगं चेव नोसुयंगं च। सुयमंगं बारसहा चउव्विहं नोसुअंगं च ॥ वृ. भावाङ्गमपि च द्विविधं 'सुयमङ्ग'त्ति श्रुताङ्गं चैव नो श्रुताङ्गं च, श्रुताङ्गं द्वादशधा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003381
Book TitleAgam Sutra Satik 43 Uttaradhyayanani MoolSutra 4
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages704
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 43, & agam_uttaradhyayan
File Size130 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy