________________
अध्ययनं-३,[ नि. १५५]
१२३ आचारादि, भावाङ्गता चास्य क्षायोपशमिकभावान्तर्गतत्वात्, उक्तं-हि-"भावे खओवसमिए दुवालसंगंपिहोइ सुयणाण'ति, चतुर्विधम्' चतुष्प्रकारं नो श्रुताङ्गतं, नोशब्दस्य सर्वनिषेधार्थत्वात् अश्रुताङ्गं पुनः, मकारश्च सर्वत्रालाक्षणिक इति गाथार्थः ।। एतदेवाहनि.[ १५६] मानुस्सं धम्मसुई सद्धा तवसंजमंमि विरिअंच।
एए भावंगा खलु दुल्लभगा हुंति संसारे॥ वृ.'मानुष्यम्' मनुजत्वम्, अस्य चादावुपन्यास एतद्भवा एव शेषाङ्गभावात्, 'धर्मश्रुतिः' अर्हत्प्रणीतधर्माधर्माकर्णनं, 'श्रद्धा' धर्मकरणाभिलाषः, तपः-अनशनादिः तत्प्रधानः संयम:पञ्चाश्रवविरमणादिस्तपःसंयमः, मध्यपदलोपी समासः, तपश्च संयमश्चअ तप:संयममिति समाहारो वा तस्मिन्, 'वीर्य च' वीर्यान्तरायक्षयोपशमसमुत्था शक्तिः, अस्य च द्विष्ठस्याप्येकत्चेन विक्षितत्वानोक्तसङ्घयाविरोधः, एतानि भावाङ्गानि, 'खलु' निश्चितम् दुर्लभकानि भवन्ति संसारे, लिङ्गव्यत्ययश्च प्राकृतत्वाद्, एतच्चानुक्तावपि सर्वत्र भावनीयमिति गाथार्थः ।। इह द्रव्याङ्गेषु शरीराङ्गं भावाङ्गेषु च सयमः प्रधानमिति तदेकाथिकान्याहनि.[ १५७] अंग दसभाग भेए अवयवाऽसगल चुन्न खंडे अ।
देस पएसे पव्वे साह पडल पज्जवखिले अ। नि.[ १५८] दया य संजमे लज्जा, दुगुञ्छाऽछलणा इअ।
तितिक्खा य अहिंसा य, हिरि एगट्ठिया पया। वृ. अङ्गं दशभागो भेदोऽवयवोऽसकलचूर्णः खण्डो देशः प्रदेशः पर्व शाखा पटलं पर्यवखिलं चेति शरीराङ्गपयाया इति वृद्धाः । व्याख्यानिकस्तु अविशेषतोऽमी अङ्गपर्यायाः, तथा दशभाग इति दशा भाग इति च भिन्नावेव पर्यायावित्याह। च: समुच्चये, सूत्रत्वाच्च सुपः क्वचिदश्रवणमिति ।। संयमपर्यायनाह-दया च संयमो लज्जा जुगुप्साऽछलना, इतिशब्दः स्वरूपपरामर्शक: पर्यन्ते योक्ष्यते, तितिक्षा चाहिंसा च हीश्चेत्येकार्थिकानि-अभिन्नाभिधेयानि पदानि सुबन्तशब्दरूपाणि, पर्यायाभिधानं च नानादेशजविनेयानुग्रहार्थमिति गाथाद्वयार्थः ।। क्षेत्रादिदुर्लभत्वोपलक्षणं चेह मानुष्यत्वादिदुर्लभत्वाभिधानमित्यभिप्रायेणाहनि.[ १५९] मानुस्स खित्त जाई कुल रूवारोग्ग आउयं बुद्धी।
सवणुग्गह सद्धा संजमो अलोगंभि दुलहाई ।। वृ. 'मानुष्यम्' मनुष्यभावः, 'क्षेत्रम्' आर्य 'जाति:' मातृसमुत्था 'कुलं' पितृसमुत्थम् 'रूपम्' अन्यूनाङ्गता आरोग्य' रोगाभाव: 'आयुष्यं' जीवितं 'बुद्धिः' परलोकप्रवणा श्रवणं' धर्मसम्बद्धम् 'अवग्रह:' तदवधारणम्, अथवा श्रवणा:-तपस्विनः तेषामवग्रहः-सुन्दरा एत इत्यवधारणं श्रवणावग्रहः, श्रद्धा संयमश्च प्राग्वत्, एतानि लोके दुर्लभानि, प्राक् चतुर्णा दुर्लभत्वमुक्तम्, इह तु मानुषत्वं क्षेत्रादीनामायुष्कपर्यन्तानामुपलक्षणं, श्रवणं च बुद्धवग्रहयोः, पुनश्च मानुषत्वादीनामिहाभिधानं विशिष्टक्षेत्रादियुक्तानामेवैषां मुक्त्यङ्गत्वमिति ख्यापनार्थम्, केचित्
"इन्दियलद्धी निव्वत्तणा य पज्जत्ति निरुवहय खेमं।
धाणारोग्गं सद्धा गाहग उवओग अट्ठो य ।।" 'इन्द्रियलब्धिः' पञ्चेन्द्रियप्राप्ति: 'निर्वर्तनाच' इन्द्रियानामेव निष्पादना पर्याप्तिः' समस्त
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org